SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् नरनाथ युवा यदा स दृष्टो भवतो देहजया महेन्द्रमर्दी । विदधाति ततः प्रभृत्यनास्थां स्वशरीरेऽपि विमुक्तगन्धमाल्या ॥ ६१ ॥ परिशून्यमना विचिन्तयन्ती किमपि क्षामविपाण्डुगण्डलेखा। परिवारसमाहृतेऽन्नपाने ज्वरहीनापि दधात्यरोचकत्वम् ।। ६२ ॥ हिमदग्धसरोरुहोपमाङ्गया हृति तस्या विनिपत्य तत्क्षणेन । क्वथता नयनाम्बुनान्तरङ्गः परितापः परिगम्यते गरीयान् ।। ६३॥ श्वसितैरहिमैनितान्तदीधैरिव धूमप्रसरैवियोगवह्नः। सरसीरुहशङ्कया मुखेऽस्या निपतदरमुदस्यतेऽलिवृन्दम् ।। ६४ ॥ वाचि लिट् ॥६०।। नरनाथेति । नरनाथ भूपाल । महेन्द्रमर्दी महेन्द्रं मर्दतीत्येवंशीलः, तथोक्तः, महेन्द्रस्य हन्ता । युवा तरुणः । सः कुमारः । भवतः तव । देहजया तनया । यदा यत्समये। दृष्टः आलोकितः । ततः प्रभृति तदादि । विमुक्तगन्धमाल्या विमुक्त गन्धमाल्ये यया सा । स्वशरीरे स्वशरोरेऽपि देहेऽपि। अनास्थाम् औदासीन्यम् । विदधाति करोति डधात्र धारणे च लट ॥६१॥ परिशून्येति । परिशन्यमनाः परिशन्यं मनो यस्य सः ( यस्याः सा )। किमपि यत्किचिदपि । [वि.] चिन्तयन्ती विचारयन्ती । क्षामविपाण्डुगण्डलेखा क्षामा कृशा पाण्डुः शुभ्रा, क्षामा चासो पाण्डुश्च तथोक्ता क्षामपाण्डुगण्डयोलेखा प्रदेशो यस्याः सा । परिवारसमाहृते परिवारैः परिजनैः समाहृते नीते । अन्नपाने भक्त पाने । ज्वरहीनापि ज्वरेण जू.' होनापि । अरोचकत्वम् अरुचित्वम् । दधाति धरति । हेतुः ( विभावना)॥६२॥ हिमेति । हिमदग्वसरोरुहोपमाङ्गयाः हिमन दग्धस्य भस्मीकृतस्य सरोरुहस्योपमा समानम् ( साम्यं यस्य तत् ) अङ्गं यस्यास्तस्याः । तस्याः शशिप्रभाया: । हृदि चित्ते । तत्क्षणेन तत्समयेन । विनिपत्य पतित्वा। क्वथता उष्णतायता ( उष्णतावता )। नयनाम्बुना नेत्राम्बुना। अ [ आ-] न्तरङ्गः अन्तरङ्गे प्रवर्तमानः । गरीयान् प्रकृष्टो गुरुः ( प्रकर्षण गुरुः ) गरीयान् । 'गुणाङ्गाद्वेष्ठेयसू' इति यसू ( ईयसु ) । 'प्रियस्थिर-' इत्यादिना गुरूशब्दस्य गरादेशः। परितापः संतापः। परिगम्यते ज्ञायते। गम्ल गती कर्मरिण लट् । अनुमितिः ॥६३॥ श्वसितैरिति । अहिमैः उष्णः । नितान्तदीघः नितान्तमत्यन्तं दोघेरायतैः। वियोगवह्नः वियोग एव विरह एव वह्निरग्निस्तस्य । धूमप्रसरैरिव धूमस्य प्रसरैरिव प्रसरणैरिव । श्वसितैः श्वासैः । सरसीरुहशङ्कया सरसोरुहमिति कमलमिति शङ्कया सन्देहेन । अस्याः शशिप्रभायाः । मुखे बदने । निपतत् स्खलत् । अलिवृन्दम् कहने लगी-॥६० ॥ राजन् ! आपकी कन्या शशिप्रभाने जबसे राजा महेन्द्रको मारनेवाले युवक अजितसेनको देखा है तभीसे उसने चन्दनके लेप और मालाका परित्याग कर दिया है तथा अपने शरीरको भी उपेक्षा कर दी है ॥६१ ॥ उसका मन सूनसान (एकान्त) स्थानको पसन्द करने लगा है। वहीं ( एकान्त में ) बैठकर वह कुछ सोचती रहती है। उसके कपोल सूख गये हैं और उनका रंग पीला पड़ गया है । परिवारके लोग उसके पास अन्न-जल ले जाते हैं, किन्तु ज्वरके बिना भी उसे खाने-पीनेसे अरुचि हो गयी है ।।६२।। उसका सुकुमार शरीर पालेसे झुलसे हुए कमलके समान हो गया है । उसके अश्रु-बिन्दु आँखोंसे सोनेपर गिरकर शीघ्र ही खौलने लगते हैं, जिनसे उसके तीव्र अन्तस्तापका पता लगता है। ।।६३॥ कमलके भ्रमसे उसके मुख पर जो भौंरे गिरना चाहते हैं, वे वियोगाग्निके फैलते हुए धुएँ सरीखे प्रतीत १. अ°समादृते । २. = समानीते । ३. आ भुक्तिपाने । ४. आ जूत्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy