________________
१५५
- ६, १०]
षटः सर्गः 'पुरनाथपुरःसरः कुमारः प्रविशन्राजनिकेतमुत्पताकम् । विदधे विविधान्वधूजनानां हृदयोन्मादविधायिनः स्वभावान् ।। ५७॥ वपुषा जयता नरेन्द्र लक्ष्मीमितरासंभविना च पौरुषेण । परिसुचनया विनापि राज्ञा बुबुधे जातिकुलोन्नतिस्तदोया ।। ५८ ॥ निवसन्कृतसत्कृतिः स तस्मिन्विनमय्यावनिपान्निजप्रतापैः । विपुलाधिपतेश्चकार वश्यां सुरराजोपमविक्रमो धरित्रीम् ।। ५६ ॥ सह वल्लभया पति प्रजानां शयनीयस्थितमेकदा समेत्य ।
विहितप्रणतिः परेङ्गितज्ञा निजगादेति सखी शशिप्रभायाः ॥ ६०॥ प्रवेशे लिट् ॥५६।। पुरेति । पुरनाथपुरःसरः पुरनाथस्य जयवर्मणः पुरःसरः । कुमारः अजितसेनः । उत्पताकम् उद्धृता: पताका यस्य तत् । राजनिकेतनं राजमन्दिरम् । प्रविशन, वधूजनानां वध्व एव जनास्तेषाम् । रूपकम् ( ? ) हृदयोन्मादविधायिनः हृदयस्य चित्तस्योन्मादं विकारं विदधतीत्येवंशीलाः, हृदयोन्मादकारिणस्तान् । विविधान् नानाप्रकारान् । स्वभावान् चेष्टाः। विदधे चकार । डुधाञ् धारणे च लिट् ॥५७॥ वपुषेति नरेन्द्रलक्ष्मों नरेन्द्रस्य महेन्द्रस्य लक्ष्मी शोमाम् । जयता जयमानेन । वपुषा गात्रेण । इतरासंभविना इतरेषामसंभविना। पौरुषेण प्रतापेन । परिसूचनया वचनेन विनापि । तदीया तस्येयं तदीया-अजितसेन. संबन्धिनी । जातिकुलोन्नतिः जातिकुलयोः मातापित्रो रुन्नतिराधिक्यम् । राज्ञा भूपेन । बुबुधे बुध्यते स्म । बुधिमनि ज्ञाने कर्मणि लिट् । अनुमितिः ॥५८। निवसन्निति । तस्मिन् विपुलपुरे। निवसन् तिष्ठन् । कृतसत्कृतिः कृता विहिता सत्कृतिः सत्कारो यस्य सः । सः कुमारः। निजप्रतापैः निजस्य स्वस्य प्रतापैस्ते. जोभिः । [अवनिपान् भूपान् । विनमय्य वन्दयित्वा । सुरराजोपमविक्रमः' सुरराजस्य देवराजस्य उपमा समानो विक्रमः पराक्रमो यस्य सः। धरित्री भूमिम् । विपुलाधिपते: जयवर्मणः। वश्यां वशंगताम् । 'वश्यपथ्य-' इत्यादिना साधुः । चकार करोति स्म । डुकृञ् करणे लिट् ॥५९।। सहेति । वल्लभया वनितया। सह साकम् । शयनीयस्थितं शयनीये तरूपे स्थितम् । प्रजानां लोकानाम् । पति प्रभुम् । एकदा एकस्मिन् दिने । समेत्य प्राप्य । परेङ्गितज्ञा परेषामन्येषामितिज्ञा अभिप्रायज्ञा। विहितप्रणतिः कृतप्रणामा । शशिप्रभाया: शशिप्रभाकुमार्याः। सखी वयस्या। इति वक्ष्यमाणप्रकारेण । निजगाद ऊचे । गद व्यक्तायां समय नगरमें खूब सजावट की गयी थी और उत्सवोंकी धूम मची हुई थी ॥ ५६ ॥ राजमहल पताकाओंसे सजा दिया गया था। उसमें राजकुमार अजितसेनने-जिसके आगे-आगे राजा जयवर्मा चल रहा था--प्रवेश किया। राजकुमारको देखकर वहांको वधुओंकी नाना प्रकारको चेष्टाएँ प्रकट हुईं, जिनसे उनके हृदयके उन्माद भरे भाव अभिव्यक्त हो रहे थे ॥ ५७ ॥ राजकुमारके इन्द्रसे भी कहीं अधिक सुन्दर शरीर और पुरुषार्थको, जो दूसरोंमें कभी सम्भव नहीं हो सकता-देखकर राजाने, बिना किसी सूचनाके उसकी जाति और कुलकी उन्नति जान ली ॥ ५८ ॥ राजकुमार, जयवर्माके यहां कुछ दिन सत्कारके साथ रहा। वह इन्द्रके समान पराक्रमी था। अतः उसने अपने प्रतापसे सभी राजाओंको नम्र बना दिया और सारे भूमण्डलको विपुल नरेश-जयवर्माके अधीन कर दिया ॥ ५६ ॥ एक दिनकी बात है। राजा, रानीके साथ एक पलंगपर बैठा हुआ था। उसी समय राजकुमारो शशिप्रभाकी एक सहेली, जो दूसरोंके भावको भाँपने में बड़ो कुशल थी, उस ( राजा ) के पास जाकर नमस्कारपूर्वक यों
१. अ युवराजपुरः । २. अ म स भावान् । ३. अ क ख ग घ म मरेन्द्र । ४. आ मात. पित्रोः। ५. = विनम्रान् विधाय। ६. सुरराजोपमो देवराजसदृशो विक्रमः पराक्रमो यस्य सः, दिव्यपराक्रम
इति यावत् । ७. = इङ्गितं पराभिप्रायं जानातीतीङ्गितज्ञा । Jain Education International For Private & Personal Use Only
www.jainelibrary.org |