________________
39
चन्द्रप्रभचरितम्
विषवह्निशिखामिवेषुमालां क्षिपतः संततधारमेकवक्त्राम् । विदधद्विमुखान्भटानिवाहीन्स गरुत्मेव महेन्द्रमाप कोपात् ॥ ५४ ॥ प्रलयाहिमदीधिते रिवोल्कां सुजतो मार्गणसंहति कुमारः । स विलासनिपातितैकबाणो विधवां तस्य चकार राज्यलक्ष्मीम् ॥ ५५ ॥ तमकारणबान्धवं ततोऽसौ समुपादाय विपक्षकक्षदावम् । प्रविवेश समुत्सवैर्महद्भिर्जयवर्मा नगरं कृताष्टशोभम् ।। ५६ ।।
चत्वार्यङ्गान्यवयवा यस्य तच्चतुरङ्गं तच्च तत्सैन्यं च तथोक्तं, तदेव सिन्धुस्समुद्रस्तस्मिन् विचरन् भ्रमत् सन् 1 सः कुमारः । पोरलोकैः पुरसंबन्धिजनैः । मन्दरवत् मन्दर इव । ददृशे ईक्षांचक्रे : दृशू प्रेक्षणे कर्मणि लिट् । रूपकम् ॥५३॥ विषेति । विषवह्निशिखामिव विषमेव (?) वह्नेरग्नेः शिखामिव । एकवक्त्राम् एकं वक्त्रं यस्यास्ताम् । इषुमालाम् इषूणां मालामावलिम् । संततं निरन्तरं धारा यस्मिन् कर्मणि तत् । क्षिपतः प्रेरित (?) | अहोनिव सर्पानिव । गरुत्मेव गरुड इव । भटान् योधृन् । विमुखान् विनष्टमुखान् । विदधत् कुर्वन् । सः कुमारः । कोपात् क्रुधः । महेन्द्रं देवेन्द्र महेन्द्रभूपं च । आप प्राप्नोति स्म । उपमा ॥५४॥ प्रळयेति । प्रलयाहिमदीधितेः प्रलयस्य प्रलयकालस्याहिमदीधितेः सूर्यस्य । उल्काम् [ इव ] ज्वालामिव । मार्गण संहति मार्गणानां बाणानां संहति समूहम् । सृजतः मुञ्चतः । तस्य महेन्द्रस्य । विलासनिपातितैकबाणः विलासेन लीलया निपातित एको बाणो यस्य सः । [ : ] कुमारः अजितसेनः । राज्यलक्ष्मी राज्यसंपतिम् । विधवां पतिरहिताम् । चकार विदधे । डुकृञ् करणे लिट् । उपमा || ५५ ।। तमिति । ततः अनन्तरम् । असौ अयम् । जयवर्मा जयवर्मभूपः । विपक्षकक्षदावं विपक्ष एव शत्रुरेव क्क्षं शुष्कवनं तस्य दावं दावाग्निम् । अकारणबान्धवम् अकारणं निर्निमित्तं बान्धवम् । तं कुमारम् । समुपादाय समुपानोय कृताष्टशोभं कृता रचिता अष्टशोभा यस्य तत् । मार्जन सेचन - उद्धृततोरण- रङ्गबल्ली - पुष्पोपहार - वाद्य गीत-नृत्यम् ( नृत्यानि ) इत्यष्टशोभाः। नगरं विपुलनगरम् । महद्भिः पृथुभिः । समुत्सवैः संभ्रमैः । प्रविवेश प्रविशति स्म । विश घड़ियाल और बड़ी-बड़ी लहरें होती हैं । इसी तरह उस सेनारूपी समुद्र में पहाड़ों सरीखे ऊँचेऊँचे हाथीरूपी भयंकर घड़ियाल और वायुसे स्पर्द्धा करनेवाले घोड़ेरूपी उत्ताल तरंग थे । समुद्रका मन्थन मन्दराचलसे हुआ था इसी तरह राजकुमाररूपी मन्दराचलसे सेनारूपी समुद्रका मन्थन शुरू हो गया, जिसे सभी पुरवासियोंने देखा ॥ ५३ ॥ विषाग्निकी ज्वालाके समान लगातार एकके पीछे एक करके बाणोंकी वर्षा करनेवाले सैनिक, जहरीले नागोंके समान थे । उनके दमन करने के लिए राजकुमार गरुड़ के समान था । उसने उन सबको विमुख कर दिया और फिर वह बड़े रोषसे राजा महेन्द्र के पास जा पहुँचा ।। ५४ ।। जिस प्रकार प्रलयकालका सूर्य अग्नि-ज्वालाओंकी वर्षा करता है, उसी प्रकार राजा महेन्द्र दनादन बाण बरसा रहा था । किन्तु राजकुमारने यों ही एक बाण चलाकर उसकी राज्यलक्ष्मीको विधवा कर दिया ।। ५५ ।। इसके पश्चात् राजा जयवर्माने राजकुमार अजितसेनको — जो उसका अकारणबन्धु था और जिसने उसके शत्रुरूपी वनको जला डाला था -- साथ लेकर अपने नगर में प्रवेश किया । उस
[ ६, ५४ -
१. खम् । २. अ सविपाति । ३. अ धयधर्मा । ४. एष टीकाकुदभिमतः पाठ: प्रतिषु तु 'कृतादृशोभम्' इत्येव वर्तते । ५. श स चतुरङ्गमेव सिन्धुः समुद्रः तस्मिन् । ६. = दृष्टो व्यलोकि वा । ७. आ प्रतावेव 'ईक्षांचक्रे' तो 'रूपकम्' यावत् पाठो वर्तते । ८ = विषवह्निशिखामिव विषानलज्वालामिव । एकवक्त्राम् एकं वक्त्रं यस्त्राः, ताम् । इषुमालाम् इषूणां बाणानामावली पंक्तिः, ताम् । संततधारां संतता धारा यस्मिन् कर्मणि तत्तथा । क्षिपतः प्रेरयतः । अहोनिव सर्पानिव । भटान् योधून् । गरुत्मेव गरुड इव । सः कुमारः । विमुखान् विनष्टमुखान् पक्षे पराङ्मुखान् । विदधत् कुर्वन् । कोपात् क्रुधः। महेन्द्रं देवेन्द्रं, महेन्द्रभूपं च । आप प्राप्नोति स्म । उपमा ॥५४॥ ९. श स एतच्छ्लोकटोका तु पुस्तके नास्ति किन्तु लेखकप्रणीता इति सूचना समवलोक्यते । १०. = येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org