________________
- ६, ५३]
षष्ठः सर्गः अविकम्पितधीर संस्तुतत्वात्प्रतिषिद्धोऽपि नृपाशया प्रगच्छन् । करिकीर्णपथां प्रतिप्रतोलीमिति तैः सोऽभिदधे महेन्द्रयोः ॥ ५० ॥ शिरसा न निजेन तेऽस्ति कार्य परिनिर्विण्णमतिः स्वजीविते वा । नृपशासनमप्रसह्यमन्यैर्यदतिक्रम्य परैषि निर्विशङ्कः ॥ ५१ ।। स तदीयवचःप्रवृद्धमन्युर्धनुरेकस्य कराजहार वीरः । स्वनृपेण सहव रक्षतासून्यदि शक्तिर्भवतामिति वाणः ।। ५२ ।। नगतुङ्गमतङ्गजोग्रनके पवनस्पर्धितुरङ्गवीचिचके। विचरंश्चतुरङ्गसैन्यसिन्धौ ददृशे मन्दरवत्स पौरलोकैः ।। ५३ ।। गतेन यातेन । तेन कुमारेण ददृशे दृश्यते स्म । दृश प्रेक्षणे कर्मणि लिट् ॥४९॥ अवीति । अविकम्पितधीः अविकम्पिता निश्चला धीर्यस्य सः। असंस्तुतत्वात् अननुमत्वात् । नृपाज्ञया राजाज्ञया। प्रतिषिद्धोऽपि निवारितोऽपि । करिकीर्णयथां करिणां गजानां कीर्णः संबद्धो मार्गो यस्याः ताम् । प्रतोलों गोपुरं प्रति । प्रगच्छन् प्रयान् । सः कुमारः। तैः महेन्द्रयोधः महेन्द्रभटैः । इति वक्ष्यमाणप्रकारेण । अभिदधे प्रोक्तः ॥५०॥ शिरसेति । यत् कारणात् । अन्यैः अपरैः। अप्रसह्यं निराकर्तुमशक्यम् । नृपशासनं नृपस्य राज्ञः शासनमाज्ञाम् । अतिक्रम्य उल्लङ्घय । निर्विशङ्कः निःशङ्कः सन् । परैषि
. निnि: निशाहः सन । परषि गच्छसि-यासि । [तत 1 ते तव । निजेन स्वकोयेन । शिरसा मस्तकेन । कार्य प्रयोजनम । न अस्ति न भवति । स्वजीविते स्वस्य जीवने । परिनिर्विण्णमति: परिनिर्विण्णा विरक्ता मतिर्यस्य सः । वा किमित्यर्थः ॥५१॥ स इति । तदीयवच:प्रवृद्धमन्युः तदीयेन भटसंबन्धिना वचसा वचनेन प्रवृद्धः प्रेधितो मन्युः कोपो यस्य सः । सः कुमारः। भवतां युष्माकम् । यदि चेत् । शक्तिः सामर्थ्यम् । अस्ति । स्वनृपेण निजभूपतिना। सहैव साकमेव । असून् प्राणान् । रक्षत पालयत । इति एवम् । ब्रुवाणः ब्रुवन् । वीरः शूरः । एकस्य पुरुषस्य । करात् हस्तात् । धनुः चापम् । जहार हरति स्म । हृञ् हरणे लिट् ।।५२।। नगेति । नगतुङ्गमतङ्गजोग्रनक्रे नगा इव पर्वता इव तुङ्गा उन्नता ये मतङ्गजा मत्तदन्तिन: त एवोग्रा भयंकरा नक्रा यस्मिन् तस्मिन् । पवनस्पर्धितुरङ्गवीचिचक्रे पवनो वायुस्तं ( तस्मै ) स्पर्धन्ते तच्छीलाः ( इत्येवंशीलाः ) अतिवेगवन्त इत्यर्थ, तथोक्ता ये तुरङ्गा वाजिनस्त एव वीचयस्तरङ्गास्तासां चक्रं समूहो यस्मिन् तस्मिन् । चतुरङ्गसैन्यसिन्धौ चतुरङ्ग तरंगोंके द्वारा उसका किनारेका वन घेर लिया जाता है ।। ४९ ॥ वह आगे बड़े वेगसे बढ़ता चला जा रहा था, किन्तु अपरिचित तथा अनुमति पत्रसे रहित होनेके कारण राजाको आज्ञासे रोक दिया गया। फिर भी वह निःशंक होकर उस पुरके प्रवेशद्वारकी ओर चलता ही गया, जिसका मार्ग हाथियोंसे घिरा हुआ था। फिर राजा महेन्द्रके सिपाही उससे यों बोले-॥ ५० ॥ क्या तुझे अपने सिरसे कोई काम नहीं है ? या तू अपने जीवनसे ऊब चुका है ? जो दूसरोंसे अनुल्लंघनीय राजाकी आज्ञाका उल्लंघन करके इधर निःशंक होकर चला आ रहा है ।। ५१ ॥ उनके इन वचनोंको सुनकर राजकुमारको वड़ा क्रोध आया। अतः उसने उत्तर दिया कि यदि तुम लोगोंमें शक्ति हो तो अपने और साथ ही अपने राजाके भो प्राण बचा लो। यह कहतेकहते उस शूर-वीर राजकुमारने उन्हींके बीच में से किसी एकके हाथसे धनुष छीन लिया ॥५२॥ फिर क्या था, उसे चतुरंगिणी सेनाने चारों ओरसे घेर लिया। पर राजकुमार भी बड़ा सूरमा था। उसके लिए सेना समुद्र थी तो वह उसके लिए मन्दराचल था । समुद्र में बड़े-बड़े भयंकर
१. अ वीरसं। २. भ म पथैषि । ३. अ इ म धीरः । ४. = करिभिगंजैः कीर्णो व्याप्तः पन्था मार्गो यस्याः , ताम् । ५. = यस्मात् कारणात् । ६. भा पथैषि । ७. = वर्तते। ८. आ पर्वतवत् ।
९. मा पवनेन वायुना स्पद्धिनस्तुरंगाः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org |