________________
१५२
चन्द्रप्रमचरितम् श्रथ तामपरो महेन्द्रनामा जयवर्माणमयाचत क्षितीशः । वितरन्नचिरायुषे तनूजां किल तस्मै स निमित्तिना निषिद्धः ॥ ४६॥ स निरस्तमनोरथस्त्विदानी' सह संभूय समस्तराजलोकैः। जयवर्मबलं निहत्य युद्धे पुरमावृत्य वितिष्ठते तदीयम् ॥ ४७ ।। तदयं स्वविनाशमीक्षमाणः सकलो राष्ट्रजनः प्रयाति भग्नः । गिरमित्यवगम्य तस्य हृष्यन्युवराजो विपुलं प्रति प्रतस्थे ।। ४८ ॥ ददृशे च गतेन तेन तस्मिन्नगरं तद्रिपुसैनिकैः परीतम् ।
शिशिरांशुसमुद्गमे प्रवृद्धैरिव वेलावनमम्बुधेस्तरङ्गैः ॥ ४६ ॥ सर्वजगलल्लामभूता सर्वस्य जगतो ललामभूता। शशिप्रभाख्या 'शशिप्रभा' इत्याख्या अभिधानं यस्याः सा । दुहिता कुमारी । तयोः जयवर्मजयश्रियोः । उदपादि अजायत । उपमा ॥४५॥ अथेति । अथ शशिप्रभोत्पत्त्यनन्तरम् । महेन्द्रनामा ‘महेन्द्रः' इति नाम यस्य सः। अपरः अन्यः । क्षितीशः भूमीशः । तां शशिप्रभाम् । जयवर्माणं जयबर्मभूपतिम् । अयाचत याचते स्म । अचिरायुषे अचिरमल्पमार्यस्य तस्मै, स्तोकायष्यायेत्यर्थः । तस्मै महेन्द्राय । तनूजां पुत्रीम् । वितरन् ददानः । सः क्षितीशः । निमित्तिना निमित्तिज्ञेन । निषिद्धः निवारितः किल ।।४६।। स इति । निरस्तमनोरथः निरस्तो निराकृतो मनोरथोऽभीष्टं यस्य सः । सः महेन्द्रस्तु । इदानीम् अद्य । समस्तराजलोकः समस्तैनिखिल राजलोक राजजनैः । सह साकम् । संभूय मिलित्वा । युद्धे संग्रामे । जयवर्मबलं जयवर्मराजबलम् । निहत्य हत्वा । तदीयं जयवर्मसंवन्धम् । पुरं पत्तनम् । आवृत्य वेष्टयित्वा । वितिष्ठते वर्तते । ष्ठा गतिनिवत्ती लट। 'संविप्रावात' इति तडः ॥४७॥ तदिति। तत त स्वस्य विनाशम । ईक्षमाणः बिलोकमानः । अयम एषः। सकल: समस्तः। राष्टजनः राष्टस्य जनपदस्य लोकः । भग्नः पराजितः सन् । प्रयाति पलायते । तस्य पुरुषस्य। इति उक्तप्रकारेण । तत [ गिरं ] वचनम अवगम्य ज्ञात्वा । हृष्यन् संतोषं कुर्वन् । युवराजः अजितसैनकृमारः। विपुलं प्रति विपुलपुरं प्रति । प्रतस्थे प्रययौ । ष्ठा गति निवृतौ लिट् । 'संविप्रावात्' इति तङ्॥४८॥ ददृश इति । शिशिरांशुसमुद्गमे शिशिरांशोश्चन्द्रस्य समुद्गमे उदये । प्रवृद्धः समृद्धैः । अम्बुधेः समुद्रस्य । तरङ्ग ऊर्मिभिः । वेलावनं तीरवनमिव । तस्मिन् समये प्रस्तावे वा । तद्रिपुसैनिकः तस्य रिपोः शत्रोः सैनिकैबलैः परीतं परिवेष्टितम् । नगरं पुरम् ।
हुई । वह सारे संसारका आभूषण या तिलक है । उसका चन्द्रमाके समान सुन्दर शरीर अपने कान्तिके समुद्र में ऐसा जान पड़ता है मानो तैर रहा हो ॥ ४५ ॥ इसके पश्चात् उसके विवाह योग्य होनेपर महेन्द्र नामके राजाने जयवर्मासे उसकी कन्या ( शशिप्रभा ) की अपने लिए मगनी की । राजा जयवर्मा इसके लिए राजी भी हो गया, किन्तु एक निमित्त ज्ञानीने महेन्द्रको अल्पायु बतलाकर उसे रोक दिया ॥ ४६ ॥ मनोरथके ठुकराये जानेसे महेन्द्रने अपने पक्षके सभी राजाओंसे मिलकर जयवर्माके विरुद्ध युद्धको घोषणा कर दो, और युद्ध में जयवर्माकी सेनाको मारकर उसके नगरको घेर लिया है ॥ ४७ ॥ इस कारण पराजित, इस राष्ट्रके सभी लोग अपना विनाश सोचकर भागे जा रहे हैं। उसके ये वचन सुनकर युवराज अजितसेनने मनही-मन प्रसन्न होकर विपुलपुरकी ओर प्रस्थान कर दिया ॥ ४८ ॥ आगे जाकर उसने देखा कि उस नगरको शत्रु-सैनिकोंने सभी ओरसे घेर लिया है। जैसे चन्द्रोदय होनेपर समुद्रकी उत्ताल
१. क ख ग घ म रथस्तदानीं । २. अ 'प्रति' इति नास्ति । ३. अ°मुद्गमप्रवृद्ध। ४. अ अम्बुनिधेस्तरङ्ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org