________________
-६, ४५]
षष्ठः सर्गः विपुलं विपुलाभिधां दधानं पुरमस्त्युत्तममस्य नाभिभूतम् । प्रविभाति यदुच्चसौधनेविलिखत्खं खचराधिवासकल्पम् ।। ४२ ।। जयवाञ्जयवर्मनामधेयो नगरं तत्पृथिवीपतिः प्रशास्ति । यदतीव्रकरापनीततापा निरपेक्षा वसुधोदये हिमांशोः ॥ ४३ ॥ दिननाथविभेव पूरिताशा स्मरपत्नीव वितीर्णकामसौख्या। रणलब्धजयश्रियो जयश्रीरभवत्तस्य वधूर्विधूपमास्या ॥४४॥ उदपादि तयोः शशिप्रभाख्या दुहिता सर्वजगल्ललामभूता ।
तरतीव शशाङ्कचारु यस्या निजलावण्यपयोनिधौ शरीरम् ॥ ४५ ॥ जनान्त: देशः । 'राष्ट्र जनपदो निर्गो जनान्तो विषयः स्मृतः ॥४१॥ विपुलमिति । यत्, उच्चसौधशृङ्गः उच्चानामुन्नतानां सोधानां प्रासादानां शृङ्गः शिखरैः। खं गगनम् । विलिखत् स्पृशत् । खचराधिवासकल्पं खचराणां विद्याधराणामधिवासस्य पत्तनस्य कल्पं सदशम । प्रविभाति विराजते । अस्य देशस्य । नाभिभूतं मध्यप्रदेशम् (शः )। विपुलाभिधां विपुलेत्यभिधामभिधानं । दधानं धरत् । विपुलं 'विपुलम्' इति । उत्तमं श्रेष्ठम् । पुरं पत्तनम् । अस्ति वर्तते । अस भुवि लट् । उपमा ॥४२॥ जयवानिति । यत् यस्मात् (?) । अतीव्रकरापनीततापा अतीव्रण मृदुना करेण सिद्धायेन, पक्षेऽतिमृदुभिः करैः किरणरपनीतो निराकृतः तापः संतापो यस्याः सा । वसुधा भूमिः । हिमांशोः चन्द्रस्य । उदये उत्पत्ती। निरपेक्षा नियंपेक्षा-चन्द्रोदयाभावेऽपि राजनीतिपालनेन शीतीभूता-इत्यर्थः । जयवान जययुक्तः । जयवर्मनामधेयः 'जयवर्मा' इति नामधेयं यस्य सः । पथिवीपतिः भूमिपतिः । तन्नगरं विपुलपरम । प्रशास्ति पालयति ॥४३॥ दिनेति । दिननाथविभेव दिनस्य दिवसस्य नाथस्य सूर्यस्य विभेव कान्तिरिव । परिताशा प्रापितसंतोषा, पक्षे साप्तदिक्का। स्मरपत्नीव रतिदेवीव । वितीर्णकामसौख्या वितीर्ण दत्तं कामसौख्यं यया सा, पक्षे वितीर्ण कामस्य मन्मथस्य सौख्यं यया सा। विधूपमास्या विधोश्चन्द्रस्योपममास्यं यस्याः सा। जयश्रीः जयश्रीः-इति । रणलब्धजयश्रियः रणे संग्रामे लब्धा जयश्रीजयलक्ष्मीर्यस्य (येन) तस्य । जयवर्मणः, वधूः वनिता । अभवत् अभूत् । श्लेषोपमा ॥४४॥ उदपादीति । यस्याः, शशाङ्कचारु शशाङ्क इव चन्द्र इव चारु मनोहरम् । शरीरं गात्रम् । निजलावण्यपयोनिधी निजस्य स्वस्य लावण्यमेव देहकान्तिरेव पयोनिधिः समुद्रः, तस्मिन् । तरतीव प्लवमानेव । इस देशके ठीक बीचमें एक विशाल और सुन्दर विपुल नामका पुर है जो इसकी नाभिके समान प्रतीत होता है । वह पुर कभी किसीसे अभिभूत--तिरस्कृत नहीं हुआ। अपने उन्नत महलोंकी चोटियोंसे आकाशको छूनेवाला यह पुर विद्याधरोंके पुरकी भांति जान पड़ता है ॥ ४२ ॥ उस पुरमें विजयी जयवर्मा नामका राजा राज्य करता है । वह उतना ही टैक्स लेता है, जिससे किसीको सन्ताप न हो । उसके कर-टैक्स ( किरण ) से पृथ्वी ( लक्षणया उसके निवासियों) को तनिक भी सन्ताप नहीं होता। फलतः वहाँकी सन्तापहीना पृथ्वीको कभी चन्द्रोदयको अपेक्षा नहीं रहती ॥ ४३ ॥ रणांगणमें विजयलक्ष्मीको पानेवाले उस राजाका विवाह चन्द्रमुखी जयश्रीके साथ हुआ । वह सूर्यको प्रभा सरीखी है । सूर्यको प्रभा जैसे सभी दिशाओंको भर देतो है उसी तरह जयश्री सबकी आशाओं ( मनोरथ ) को पूरा कर देती है, और वह कामदेवकी पत्नी-रतिके समान है । रति कामदेवको सुख देती है और जयश्री अपने पति जय. वर्माको सम्भोगका सुख प्रदान करती है ।। ४४ ॥ उन दोनोंके शशिप्रभा नामकी कन्या उत्पन्न
१. अयशों। इ यस्यां । २. = संज्ञामित्यर्थः । ३. = यदतीअकरापनीततापा यस्य राज्ञोऽतीव्रण सह्येन करेण भागधेयेन, पक्षेऽतीव्रमदुभिः करैरपनोतो निराकृतस्तापः संतापो यस्याः सा। ४. = विघूपम
चन्द्रसदृशमास्यमाननं यस्याः । ५.=प्लवमानमिव भाति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org