________________
[६,३८
चन्द्रप्रमचरितम् गहनान्तमथापहाय राष्ट्रं नगरनामनिरन्तरं प्रविष्टः । सकलास्वपि दिनु जातभीति विलुलोके स जनं पलायमानम् ॥ ३८ ।। उपसृत्य पुमांसमेकमाराद्भयरोमाञ्चितसर्वगात्रयष्टिम् । उपजातकुतूहलः कुमारः परिपप्रच्छ पलायनस्य हेतुम् ।। ३९ ।। पृथिवीपतिपुत्रपृच्छयासाविति निर्विण्णमना जगाद वाचम् । गगनात्पतितोऽसि किं प्रसिद्धं न विजानासि यदेतमप्युदन्तम् ॥ ४० ॥ प्रथितोऽयमरिंजयाभिधानो धनधान्याढयजनाकुलो जनान्तः । विजहाति सदा न यत्र शोभा नवसस्याङकुरशाद्वला धरित्री ।। ४१ ।।
विवेद बुबोध । विद ज्ञाने लिट् ॥ ३७॥ गहनेति । अय अनन्तरम् । गहनान्तं काननावसानम् । अपहाय विहाय । नगरनामनिरन्तरं नगरमिश्च निरन्तरमन्तररहितम् ष्ट्र देशम् । प्रविष्टः प्रविष्टवान् । सः कुमारः । सकलासु सर्वास्वपि। दिक्षु दिशासु । जातभीति जातभयम् । पलायमानं धावमानम् । जनं लोकम् । विलुलोके दर्श । लोकृञ् दर्शने लिट् ॥३८।। उपेति । उपजातकुतूहल: उपजातं कुतूहलं यस्य सः । कुमारः, भयरोमाञ्चितसर्वगात्रयष्टिं भयेन भीत्या रोमाञ्चिता रोमहर्षणयुक्ता सर्वा निखिला गात्रयष्टिर्यस्य तम् । एक पुमांसं पुरुषम् । आरात् समीपे । 'आराद् दूरसमोपयोः' इत्यमरः । उपसृत्य प्राप्य । पलायनस्य इतस्ततः पलायनस्य । हेतुं कारणम् । परिपप्रच्छ शुश्राव । प्रछ ज्ञोप्सायां लिट् ॥३९।। पृथिवीति । पृथिवीपतिपुत्रपृच्छया पृथिव्याः पत्युभूपतेः पुत्रस्य कुमारस्य पृच्छया प्रश्नेन । निविण्णमना: निविण्णं दुःखितं मनो यस्य सः । असो अयं पुरुषः । वाचं वाणीम् । जगाद ब्रवीतिस्म । गद व्यक्तयां वाचि लिट् । यत् यस्मात्कारणात् । प्रसिद्धं प्रतीतम् । एनमपि अमुमपि । उदन्तं वार्ताम् । न विजानासि न वेत्सि । ज्ञा अवबोधने लट् । गगनात् आकाशात् । पतितः निमग्नः । असि भवसि । अस भुवि लट् ।।४०॥ प्रथित इति । यत्र देशे। नवसस्याङ्कुरशाद्वला नवनवीनैः सस्याकुरैः शाद्वला हरिता। धरित्री भूमिः। सदा सर्वकाले । शोभा मनोहरत्वम् । न जहाति न त्यजति । ओहाक् त्यागे लट् । प्रथितः प्रतीतः । धनधान्याढयजनाकुल: धनैर्धान्यैराढयः ससृद्धजनैराकुलः संकुलः । अरिंजयाभिधान: अरिंजय इत्यभिधानं यस्य सः । अयम् एषः ।
है ॥ ३७ ।। इसके पश्चात् वह राजकुमार उस स्थानको छोड़कर ज्योंही आगे बढ़ा, त्यों ही उसने एक ऐसे देश में प्रवेश किया, जहाँ लगातार नगर और ग्राम बसे हुए थे। वहाँपर उसने देखा कि जिधर देखो उधर लोग डरके मारे भागे जा रहे हैं ॥ ३८ ॥ राजकुमारको बड़ा कौतूहल हुआ । अतः उसने एक मनुष्यके--जिसके सारे शरीर में भयके कारण रोंगटे खड़े हुए थे--पास जाकर लोगोंके भागनेका कारण पूछा ॥ ३९ ॥ राजकुमारके प्रश्नसे अपने मन में दुःखी होकर वह टिर्राते हुए यों बोला--क्या तुम आसमानसे टपके हो, जो इस लोक-विदित वृत्तान्तको भी नहीं जानते ? ॥ ४० ॥ यह अरिंजय नामका प्रसिद्ध देश है। यहाँके निवासी खुशहाल हैं, धनाढय हैं और उनके पास भरपूर अनाज रहता है । यहाँको पृथिवी सदा नयेनये धान्यके अंकुरोंसे हरी-भरी रहने के कारण कभी अपनी सुषमाको नहीं छोड़ती ॥ ४१ ॥
१. = व्याप्तमित्यर्थः । २. = गत्वा प्राप्य-इत्यर्थः । ३. = अप्राक्षीत् । ४. आ पृच्छुञ् जोप्सायां लिट् । पृछ ज्ञोप्सायां शाकटा ४।२।२५७ पृ० २७७ । ५. = च्युतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org