________________
१०९
- 1,0]
षष्टः सर्गः अधिगम्य निपातितस्त्वयासौ स्वधनेन प्रतियोजितश्च सूर्यः । परिवृत्य भवे प्रभूतयोनावसुरश्चण्डरुचि': शशी बभूव ।। ३४ ।। समुपार्जितपूर्वपुण्यलेशादभवं सूर्यचरस्त्वहं हिरण्यः । अजनिष्ट ततः स पूर्ववैरात्तव हर्ता रिपुरस्म्यहं च मित्रम् ।। ३५॥ मधुराक्षरहारिणी स वाणीमभिधायेति तिरोबभूव देवः। नरनाथसुतोऽपि तत्प्रभावात्सहसात्मानमलोकयद्वनान्ते ॥ ३६॥ किमिदं परमाद्भुतं मया यद्वनमुत्तीर्णमदर्शि काननान्तः । मनसेति विचिन्तयंस्तदा तं महिमानं स हिरण्यजं विवेद ।। ३७ ॥
धनं द्रव्यम् । जहार अपहरति स्म । हृञ् हरणे लिट् ॥३३॥ अवीति । त्वया भवता । अधिगम्य ज्ञात्वा । असो शशी। निपातितः दण्डितः। सूर्यः, स्वधनेन स्त्रस्य निजस्य धनेन द्रव्येण । प्रतियोजितः संबन्धितः । शशो, [ प्रभूतयोनो प्रभूता नाना योनय उत्पत्तिस्थानानि यत्र तस्मिन् ] भवे संसारे। प्रभूतयोनी प्रभूतो बहुलो योनिरुत्पत्तिस्थानं यस्य तस्मिन् । परिवृत्य परिभ्रम्य । चण्डरुचिः चण्डरुचिरिति । असुरः भवनवासिदेवः । बभूव भवति स्म । भू सत्तायां लिट् ॥३४॥ समुपेति । सूर्यचरः सूर्यः पूर्वः ( भूतपूर्वः सूर्यः ) सूर्यचरः, पूर्व सूर्यभूत इत्यर्थः । 'भूतपूर्वे चरट्' इति चरट्-प्रत्ययः। अहं तु अहमपि । समुपाजितपूर्वपुण्यलेशात् समुपाजितस्य संपादितस्य पूर्वपुण्यस्य लेशात् कणात् । हिरण्यः हिरण्याख्यदेवः । अभवम् आसम् । भू सत्तायां लुङ्। सः शशिचरः । पूर्ववैरात् पूर्वजनिताद् वैरात् । तव त्वामित्यर्थः । 'कृकामुकस्य' इत्यादिना कर्मणि षष्ठी। हां अपहर्ता। रिपुः शत्रुः । अजनिष्ट अभूत् । जनैङ् प्रादुर्भावे लुङ् । अहं च अहमपि । मित्रं सुहृत् । अस्मि भवामि । अस भुवि लट् ॥३५॥ मधुरेति । स देवः हिरण्याख्यदेवः । मधुराक्षरहारिणी मधरैः प्रियरक्षरैवर्णारिणी मनोहारिणीम । वाणी वाचम । इति उक्त प्रकारेण । अभिधाय उक्त्वा । बभूव व्यवधानो बभव । नरनाथसतोऽपि नरनाथस्य सतोऽपि कुमारोऽपि । तत्प्रभावात तस्य देवस्य प्रभावात सामर्थ्यात् । सहसा शीघ्रम् । आत्मानं स्वम् । वनान्त वनमध्ये । अलोक यत् अदर्शयत् । लोकृञ्दर्शने ण्यन्ताल्लङ् ॥३६।। किमिति । परम् उत्कृष्टम् । इदं किमद्भुतं किमाश्चर्यम् । यत् मया, वनं काननम् । उत्तीर्ण लङ्घितम् । काननान्तः काननस्यान्तोऽवसानम् । अदशि दृश्यते स्म। इति एवं प्रकारेण । मनसा मानसेन । विचिन्तयन् स्मरन् । सः कुमारः । तदा तं महिमानं महत्त्वम् । हिरण्यजं हिरण्यदेवाज्जातम् ।
कर उसका सारा धन चुरा लाया ॥ ३३ ॥ इसका पता लगाकर तुमने सूर्यका धन उसे वापिस दिलवाया और शशीको फांसीकी सजा दी। बहुत अधिक (चौरासी लाख) उत्पत्ति स्थानोंवाले संसारमें इधर उधर भटककर-खोटो-खोटी योनियोंमें जन्म लेकर शशी, चण्डरुचि नामका असुर हुआ ॥ ३४ ॥ पूर्वोपाजित पुण्य कर्मके बचे-खुचे अंशसे मैं हिरण्य नामका देव हआ। मैं तुम्हारा मित्र हूँ। मैं ही पहले सूर्य रहा । वह शशी पूर्व वैरके कारण तुम्हारा शत्रु है, और वही तुम्हें हर ले आया है ॥ ३५ ॥ मधुर अक्षरोंसे मनको हरनेवाले इन वचनोंको कहकर वह देव आँखोंसे ओझल हो गया, और उसके प्रभावसे राजकुमारने भी अपनेको उस वन की सीमासे बाहर पाया ॥ ३६ ॥ यह बड़े आश्चर्यको बात है कि में इतने बड़े बीहड़ जंगलको इतनी शीघ्रतासे पारकर एकाएक उसकी सीमाके बाहर आ पहुँचा हूँ। वनकी बाहरी सीमा आँखोंके सामने है । यों अपने मन-ही-मन सोचता हुआ वह समझ गया कि यह तो हिरण्य देवकी महिमा
१. अ क ख ग घ म चन्द्ररुचिः। २. अ क ख ग घ म कारिणों। ३. आ सूर्यपूर्वः। ४. = व्यवहितोऽन्तहितो वा। ५. = वनावसाने । ६. आसानः । ७. = व्यलोकि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org