________________
- ६, २१ ]
षष्ठः सर्गः
'जलनिर्भरसङ्गशीतवाते धरणीधे शिशिरत्वमादधानाः । न पतन्ति यदत्र तिग्मरश्मेः किरणाः कारणमत्र मत्प्रतापः ॥ १८ ॥ इदमात्मवधाय मद्विरुद्धं विदधानोऽबुध केन विप्रलब्धः । अथवा न गतः श्रुतिं तवाहं नहि विद्वानसमीक्षितं विधत्ते ।। १६ ॥ इति तस्य निशम्य गर्वगर्भा स गिरं मर्मनिकृन्तनी मिवैषुम् । कुपितः कृतसौष्ठवं बभाषे जयलक्ष्मीनिलयो नरेन्द्रसूनुः ॥ २० ॥ भजते भयमेभिरर्थशून्यैर्वचनैः कापुरुषो न धीरचेताः ।
अहमस्मि सुरासुरैकमल्लो गणना कैव भवद्विधे नृकीटे ॥ २१ ॥
१४५
कोऽपीत्यर्थ ।। १७ ।। जलेति । जलनिर्झरसङ्गशीतवाते जलनिर्झरस्य जलप्रवाहस्य सङ्गेन संबन्धेन शीतलो [ शीतो ] बातो यस्मिन् तस्मिन् । अत्र अस्मिन् । धरणीध्रे पर्वते । शिशिरत्वं शीतत्वम् । आदधानाः धरन्तः । तिग्मरश्मेः सूर्यस्य । किरणाः मयूखाः । न पतन्ति न प्राप्नुवन्ति । इति यत् यत् किंचित् । अत्र सूर्यकिरणापतने । मत्प्रतापः मम प्रतापः पराक्रमः । कारणं निमित्तम् । भवति । अनुमितिः || १८ || इदमिति । अबुध भो अज्ञानिन् । इदम् एतत् । विरुद्ध विरुद्धकार्यम् । आत्मवधाय आत्मनः स्वस्य वधाय मारणाय । विदधानः कुर्वन् । केन येन । विप्रलब्ध: वञ्चितः । अथवा तव श्रुतिं कर्णम् । अहं न गतः न यातः । विद्वान् विवेकी । असमीक्षितम् अविचारितम् । न विधत्ते हि न करोति हि । डुधान् धारणे च लट् ॥ १९ ॥ इतीति । इषुमिव बाणमित्र । मर्म अन्तरङ्गम् । निकृन्तनीं भेदिनीम् । गर्वगर्भं गर्भे गर्यो यस्यां ताम् । 'गड्वादिर्भ्यः' इति पूर्वनिपातः । तस्य कृतकपुरुषस्य गिरं वाणीम् । निशम्य श्रुत्वा । कुपित: क्रुद्धः । जयलक्ष्मीनिरुय: जयलक्ष्म्या निलय आलय: । सः नरेन्द्रसूनुः नरेन्द्रस्य भूपेन्द्रस्य कुमारः । कृतः सौष्ठवं कृतं सौष्ठवं वर्णव्यक्तिर्यस्मिन् कर्मणि तत् । बभाषे जगाद | भाषि व्यक्तायां वाचि लिट् । उपमा ||२०|| मजत" इति । अर्थशून्यैः अर्थरहितैः, निष्प्रयोजनैरित्यर्थः । एभिः एतैः । वचनै वचोभिः । कारुष: कुत्सितः पुरुषः । 'पुरुषे का वा' इति पुरुषशब्दे परे कुशब्दस्य का - आदेशः । भयं भोतिम् । भजते सेवते । भज सेवायां लट् । धोरचेताः धोरं भयरहितं चेतश्चित्तं यस्य सः । न न भजते । अहं सुरासुरं कमल्लः सुरासुराणामेको मुख्यो मल्लः प्रतिभटः । अस्मि भवामि । अस भुवि लट् । मवद्विधे भवतस्तव ।। १७ ।। इस पर्वतपर अनेक जलप्रपात हैं । उनके कारण यहाँ ठण्डी हवा बहा करती है । यहाँ सूर्य की किरणें ठण्डी हो जाती हैं-ठिठुरने लगती हैं । फलतः वे यहाँ प्रवेश ही नहीं करतीं । इममें मेरा प्रताप कारण है । मेरे प्रभावक्षेत्र में सूर्य भी हतप्रभ हो जाता है, फिर तेरा तो सामथ्यं ही क्या है ? ॥ १८ ॥ रे मूर्ख ! अपनी मौत के लिए जो तू मेरे विरुद्ध यह काम कर बैठा— मेरी आज्ञा के बिना यहाँ घुसता चला आया, सो क्यों ? क्या तुझे किसीने शनका दिया है ? या तूने मेरा नाम ही नहीं सुना था ? क्योंकि समझदार ( विद्वान् ) मनुष्य कभी नासमझीका काम नहीं करता ॥ १९ ॥ उसकी ऐसी गर्वीली और बाणकी तरह मर्म - भेदिनी बातें सुनकर राजकुमारको, जो जयलक्ष्मीका निवासस्थान था, क्रोध आ गया। फिर उसने स्पष्ट शब्दों में यों उत्तर दिया - ।। २० ।। तुम्हारी इन निरर्थक बातोंसे कायर भले ही
र जायें, पर जिसके हृदय में धीरता है, वह कभी नहीं डर सकता। तुम मुझे नहीं जानते ? नहीं जानते हो, तो जानलो - मैं देवों और दैत्योंसे टक्कर लेनेवाला योद्धा हूँ । तुम सरीखे नर
१. अ "निर्झरशीलसङ्गवाते । २. आ इ न तपन्ति, क ख ग घ निपतन्ति, म प्रतपन्ति । ३. श स कुन्तत छेदिनीम् । ४ = मद्विरुद्धं । ५. = मद्विरुद्धकार्यम् । ६. = केन मानवेन । ७. = नहि विधत्ते करोति । ८. आशस गर्वादिभ्यः । ९ = इति गिरं । १०. आ भजते । ११. श स कुस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org