SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ११० चन्द्रप्रमचरितम् स्फुरदोष्ठतटः' करालवक्रो भुजदण्डभ्रमितप्रचण्डयष्टिः । सहसाविरभूत्पुरोऽस्य तस्मिन्पुरुषः प्रावृषिजाम्बुवाहनीलः ॥१४॥ प्रतिनादितसर्वशैलरन्ध्रः स समेत्य त्वरया समीपदेशम् । वचनैः परुषातराविषहोरिति तं तर्जयति स्म राजपत्रम।। १५ ।। किमु कोऽपि बलोद्धतस्त्वमुच्चैरुत विद्यातिशयं दधासि कंचित् । यदकारि मनस्त्वया मदीयां भुवमाक्रान्तुमिमामनन्यभोग्याम् ॥ १६ ॥ त्रिदशो यदि वादितेस्तनूजो न मदाबामनवाप्य कोऽपि शक्तः । परिरक्षितमस्मदीयदोभ्यां गिरिमाक्रान्तुमिमं विशालङ्गम् ॥ १७ ॥ जन्मनि लिट् । श्लेषोपमा ॥१३॥ स्फुरदिति । स्फुरदोष्ठतट: स्फुरत्कम्पमानमोष्ठस्याधरस्य तट प्रदेशो यस्य सः। करालवक्त्रः करालं भयङ्करं वक्त्रं मुखं यस्य सः । भुजदण्डभ्रमितप्रचण्डयष्टिः भुजदण्डेन भ्रमिताः कम्पिता प्रचण्डा निष्ठुरा यष्टिरयोदण्डो यस्य ( येन ) सः ।। प्रावृषिजाम्बुवाहनीलः प्रावृषिजो वर्षाकालजनितोऽम्बुवाह इव नीलः कृष्णवर्णः । पुरुषः मनुष्यवेषधारी । तस्मिन् पर्वते । अस्य कुमारस्य । पुरः अग्रे । सहसा शोघ्रम् । आविरभूत् प्रादुरभूत् । बातिः ॥१४।। प्रतीति । प्रतिनादितसर्वशैलरन्ध्रः प्रतिनादितं प्रतिध्व (ध्वा) नितं सर्वेषां शैलानां पर्वतानां रन्ध्र छिद्रं येन सः । सः पुरुषः । त्वरया वेगेन । समोपदेशं निकटप्रदेशम। समेत्य आगत्य । परुषाक्षराविषयः परुर्षनिष्ठरैरक्षरै वर्ण दुःसहैः । वचनैः वचोभिः । इति वक्ष्यमाणप्रकारेण । तं राजपुत्रं राजकुमारम् । तर्जयति स्म त्रासयति स्म । तर्ज भर्सने लट् ॥१५॥ किमु इति । यत् यस्मात् । मदीयां मम सम्बन्धिनीम् । अनन्यभोग्याम्" अनन्यगोचरहिताम् इमाम् एताम् । भुवं भूमिम् । आक्रान्तुम् आगन्तुम् । त्वया मनः चित्तम् । अकारि अक्रियत । डुकृञ् करणे कर्मणि लुङः ।किम किंवा ] त्वम उच्चै बलोद्धत: बलेन पराक्रमेणोद्धतो गर्वितः कोऽपि । [उत अथवा ] कंचित् विद्यातिशयं विद्यायाः जात्यादिविद्याया अतिशयम् । दधासि धरसि । उत किमु । संशयः ॥१६॥ त्रिदश इति । यदि त्रिदशः देवः । ( वा अथवा, कोऽपि ) अदितेः अदितीति मातुः तनूजः पुत्रः, दानव इत्यर्थः (?) वा किम् । मदाज्ञां ममाज्ञाम् । अनवाप्य अलब्ध्वा । अस्मदीयदोाम् अस्मदीयाभ्यां दोभ्यां भुजाभ्याम् । परिरक्षितं परिपालितम् । विशालशृङ्गं "विस्तारशृङ्गयुक्तम् । इमम् एतम् । गिरि पर्वतम् । आक्रान्तुम् आगन्तुम् । शक्तः समर्थः कोऽपि, न अजितसेन वनका ओर-छोर जाननेके लिए उस पहाड़पर चढ़ गया ॥ १३ ॥ ज्यों ही वह ऊपर पहुँचा त्योंही उसके सामने एकाएक एक पुरुष ( पुरुष वेषधारी देव ) प्रकट हुआ। क्रोधके कारण उसका अधर ( नीचेका होठ ) फड़क रहा था, उसका मुख बड़ा भयंकर दिख रहा था, वह एक भयानक लोहदण्डको अपने हाथोंसे घुमा रहा था और वह वर्षाकालीन मेघकी भांति काला था ।। १४ ।। उसकी भयावनी आवाजसे पहाड़की सारी गुफाएँ गूंज उठीं। वह शीघ्र ही राजकुमारके पास आ धमका और कठोर अक्षरोंसे भरे हुए असह्य वचनोंसे उसकी भर्त्सना यों करने लगा-॥ १५ ॥ क्या तुझे अपने बलका इतना भारी घमण्ड है या तू किसी विशिष्ट विद्याको जानता है ! जो तेरी इच्छा मेरी इस भूमिमें आनेको हुई, जिसका उपभोग कोई भी नहीं कर सकता ॥ १६ ॥ कोई देव हो या दानव, पर कोई मेरी आज्ञाके बिना, उन्नत शिखरोंवाले इस पर्वतपर नहीं आ सकता । में स्वयं अपनी बाहुओंसे इसकी रखवाली जो करता हूँ १. मतलः । २. अ भुवमागन्तु। ३. त्रिदिवेशो । ४. म मागन्तु। ५. श स स्फुरेरित । ६. = वर्षाकाल जनितः सवासावम्बुवाहो मेघः स इव नीलः कृष्णवर्णः । ७. श स राविसहैः । ८. शस 'रविसहैः । ९. श 'त्रासयतिस्म' इति नोपलभ्यते । १०. भा तयं भय॑ने । ११. = अनन्यगोचराम् । १२. = असि । १३. = 'अदिति' इति नामधेयायाः । १४. = विस्तारिशृङ्गयुक्तम् । १५. मा आक्रन्तुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy