________________
चन्द्रप्रमचरितम् शबराहतपुण्डरीकयूथैविटपालम्बिभिरेकतोऽपरत्र । हरिहिंसितसामजास्थिकूटैर्जनसंत्रासकरी पुरीव मृत्योः ॥ ८ ॥ मदगन्धिषु सप्तपर्णकेषु प्रचुरप्रान्तलतान्धकारितेषु । करिशङ्कितया क्रमं दधाना' हरयो यत्र भवन्ति वन्ध्यकोपाः ।।९।। सततप्रसृतैरपोढशीताः शयुनिःश्वासचयोष्णितैर्मरुद्भिः । गमयन्ति महीरुहाधिरूढाः शिशिरतु प्लवगाः मुखेन यस्याम् ।। १० ।।
लोहिता। 'चमूरुप्रियकावपि' इत्यमरः । भूमिः पृथ्वो। अरण्यदेवतानाम् अरण्ये कानने विद्यमानां देवतानां देवीनाम । चरणालक्तकचितव चरणानां पादानामलक्तकेन यावकरसेन चचितेव लिप्तेव । [ रुचिरत्वं मनोहरत्वम ] । दधाति धरति । ड्याज धारणे च लट। उत्प्रेक्षा ॥७॥ शबरेति । एकतः एकस्मिन् एकतः-एकप्रदेशे। विटपालम्बिभिः विटपेषु शाखासु लम्बिभिः । “विटपः पल्लवे षिङ्गे विस्तारे स्तम्बशाखयोः' इति विश्वः । शबराहतपुण्डरीकयूथैः शबरैयधैिराहतानां घातितानां पुण्डरीकाणां व्याघ्राणां यूथैः समूहैः । परत्र अन्यप्रदेशे।' हरिहिंसितसामजास्थिकूटैः । हरिभिः सिंहहिसितानामाघातानां सामजानां गजानामस्थ्नां कूट: राशिभिः । मृत्योः यमस्य । पुरीव पत्तनमिव । जनसंत्रासकरी जनानां लोकानां संत्रास. करी भयङ्करी । भाति । उपमा ( उत्प्रेक्षा ) ॥८॥ मदेति । यत्र अटव्याम् । मदगन्धिषु मद इव मदजल इव गन्धिषु परिमलयुक्तेषु । प्रचुरप्रान्तलतान्धकारितेषु प्रचुराभिः प्रान्ते समीपे विद्यमानाभिलताभिरन्धकारितेषु ध्वान्तयुक्तेषु । सप्तपर्णकेषु कर्पूरकदलीषु । करिशङ्कितया गजसंदिग्धतया । क्रमं पादम् । दधानाः । धरन्तः । हरयः सिंहाः। वन्ध्यकोपाः निष्फल क्रोधाः । भवन्ति सन्ति । भू सत्तायां लट् ।।९।। सततेति । यस्याम् अटव्याम् । महोम्हाधिरूढाः महोरुहान वृक्षान् अधिरूढा आरूढवन्तः । प्लवगाः वानराः । सततप्रसृतः सततमनवरतं प्रसृत व्याप्तैः । शयुनिःश्वासचयोष्णितैः शयूनां सर्पविशेषाणां निश्वासानामन्तर्बहिर्गतवायूनां चयेन समूहेनोष्णित: संजातोष्णः । मरुद्भिः वायुभिः । अपोढशीता: अपोढं निराकृतं शीतं हिमं येषां ते। शिशिरतुं
जिन मृगोंका शिकार किया था, उनके रक्तसे पृथ्वी लाल हो गयी थी, जो ऐसी जान पड़ती थी मानो वन देवियोंके चरणोंके महावरसे रंग गयो हो ॥७॥ जहाँ एक ओर वृक्षोंकी शाखाओंपर वे वाघ लटक रहे थे, जिन्हें भीलोंने अभी-अभी मारा है और दूसरी ओर सिंहोंके द्वारा मारे गये हाथियोंकी हड्डियोंके ढेर लगे हुए थे । फलतः वह अटवी यमपुरीके समान, मानवको भयावनी हो गयी थी ॥ ८ ॥ वहां सप्तच्छद ( कर्पूरकदली) वृक्ष लगे हुए थे : उनकी गन्ध हाथियोंके मदजलको गन्धके समान थी। उनके आस-पास सघन लताएं छाई हुई थीं। अतएव वहां सदा अन्धकार रहता था। फलतः वहाँ सिंहोंको हाथियोंका भ्रम हो जाया करता था, जिससे वे छलांग मारकर सप्तच्छद-वृक्षोंके ऊपर पंजोंका प्रहार कर बैठते थे। यद्यपि उनका यह क्रोध व्यर्थ ही होता था ॥९॥ वहाँ अजगरोंकी श्वाससे वायु गरम होकर बहा करती थी। अतः वृक्षोंपर चढ़े हुए बन्दरोंको जाड़ा नहीं सताता था। वे शिशिर ऋतु सुखपूर्वक बिताया करते थे
१. अ आ इ ददानाः। २. क ख ग घ म महोघराधि। ३. आ षण्डे । ४. आ घातनां । ५. आ अन्यत्र । ६. = मारितानां विदारितानां वा । ७. = मदजलमिव । ८. = चटिताः । ९. = अजगराणां।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org