________________
१४१
- ६, .]
षष्टः सर्गः . धवलारुणकृष्णदृष्टिपातैः ककुभः कर्बुरयन्सरोन्तिकस्थः । स ददर्श समं ततोऽपि धीरः परुषाख्यामटवीमगम्यरूपाम् ॥ ४ ॥ पृथुतुङ्गनिरन्तरैस्तरूणां निवहैश्छन्नसमस्तदिङ्मुखायाम् । निपतन्ति न यत्र तिग्मरश्मेरपि पादा इव दर्भसूचिभीत्या ॥५॥ मृगराजविदारितेभकुम्भच्युतमुक्ताफलपङ्क्तयः समन्तात् । पतिता इव तारका नभस्तस्तरुशास्त्रास्खलनेन भान्ति यस्याम् ।। ६॥ अतिरौद्रकिरातभल्लभिन्नप्रियकानारुणिता दधाति भूमिः ।
रुचिरत्वमरण्यदेवतानां चरणालक्तकचर्चितेव यस्याम् ।। ७॥ प्रविलङ्घय उल्लङ्घय । तटं तीरम् । आप प्राप। आप्ल व्याप्ती लिट ॥३॥ धवलेति । घवलारुणकृष्णदृष्टिपातैः धवलारुणकृष्णै: श्वेतलोहितनील दृष्टयोः पातैः पतनैः । ककुभः दिशः । कर्बुरयन् विचित्रवर्ण (ः) कुर्वन् । सरोऽन्तिकस्थः सरसः सरोवरस्यान्तिकस्थः समीपस्थः । धीरः धोरपुरुषः । सः कुमारः समन्ततोऽपि सर्वतोऽपि । अगम्यरूपाम् अगम्यं गन्तुमशक्यं रूपं यस्यास्ताम् । परुषाख्यां 'परुषा'२ इत्याख्याऽमिधानं यस्यास्ताम् । अटवीम् अरण्यानीम् । ददर्श पश्यति स्म । दृशृ' प्रेक्षणे लिट् ।।४।। पृथ्वीति । पृथुतुङ्गनिरन्तरैः पृथुभिर्महद्भिस्तुङ्गरुन्नतै निरन्तरैः सान्द्रः । तरुणां वृक्षाणाम् । निवहैः समूहैः । छन्नसमस्तदिङ्मुखायां छन्नानि समस्तानां सर्वासां दिशां मखानि समस्तदिङमखानि दिग्विवराणि यस्यास्तस्याम । यत्र अटव्याम् । तिग्मरश्मेरपि सूर्यस्य ( अपि)। पादाः किरणाः, चरणा इति ध्वनिः। दर्भसूचिभीत्या दर्भाणां दर्भा एव वा सूचयस्तासां भोत्या भयेनेव । न निपतन्ति न प्रविशन्ति । पत्ल गती लट् । उत्प्रेक्षा ।.५॥ मृगेति । यस्याम् अटव्याम् । मुगराजविदारितेभकुम्भच्युतमुक्ताफलपंक्तयः मुगाणां राजेन ( राज्ञा ) सिंहेन विदारितेभ्य इभानां गजानां कुम्भेभ्यः कुम्भस्थलीम्यश्च्युतास्तथोक्ताः, ताश्च ता मुक्ताफलानां मौक्तिकानां पंक्तयो राजयः। समन्तात् सर्वतः । तरुशाखास्खलनेन तरूणां वृक्षाणां शाखानां स्खलनेन घातेन । नमस: [नभस्तः] आकाशात् । पतिताः प्रच्युताः । तारका इव नक्षत्राणोव । भान्ति विराजन्ते । भा दीप्तो लट् । उत्प्रेक्षा ॥६॥ अतीति । यस्याम अटव्याम् । “अतिरौद्रकिरातभल्लभिन्नप्रियकास्रारुणिता अतिरौद्राणाम् अतिकोपिनां किरातानां पुलिन्दानां भल्लै बणि भिन्नानां विदारितानां प्रियकाणां मृगाणामस्रेण रक्तेनारुणिता और फिर तैरकर किनारेपर जा पहुँचा ॥ ३ ॥ किनारेपर पहुंचते ही वह खड़ा होकर चारों ओर देखने लगा। ऊंचाईसे गिरने, जल जन्तुओंसे जूझने और तैरनेके कारण उसके नेत्र लाल हो गये थे । नेत्रोंके मध्य-भागमें कालापन था और चारों ओर कुछ सफेदी और कुछ लालिमा । इन तीनों वर्गों की सम्मिलित प्रभाके सभी ओर पड़नेसे सारी दिशाएँ चितकबरी-सी हो गयीं। वह वोर वहाँसे जानेके लिए मार्ग देखना चाहता था, किन्तु उसे चारों ओरसे परुषा नामकी अटवी दिखलाई पड़ो, जो बहुत हो धनी थी। उससे निकलनेका कोई रास्ता ही नहीं सूझ रहा था ॥ ४ ॥ उसमें सभी ओरसे लगातार ऊंचे और विशाल वृक्षोंके झुण्ड थे, जिनसे सारी दिशाएँ आँखोसे ओझल हो गयों थीं। उसमें सुई-सरीखा नुकीला कांस लगा हुआ था। मानो उसकी नोक चुभनेके भयसे सूर्यके भी पाद ( किरण, चरण ) वहाँ नहीं पड़ते थे ॥ ५ ॥ वहाँ सिंहोंने जिन हाथियोंके गण्डस्थलोंका विदारण किया था, उनकी मुक्ताएँ ( गजमुक्ताएँ ) चारों ओर पड़ी थीं, उनके देखनेसे ऐसा जान पड़ता था मानों वहाँको उन्नत-वृक्ष-शाखाओंको रगड़से आकाशसे ताराएं टूटकर विखरी पड़ी हों ॥ ६ ॥ वहाँ अत्यन्त क्रोधी भीलोंने अपने भालोंसे
३. श स दृश।
४. आ सर्वाणाम् ।
१. अ क ख ग घ म वीरः। २. भा परुष इति । ५. श स अतिकाद्रं । ६. श स अतिकाद्राणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org