SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [५,८७ - अनिष्टयोगप्रियविप्रयोगौ साधारणौ सर्वशरीरभाजाम् । इत्यात्मबुद्धया विगणय्य विद्वान्न खेदयत्यात्ममनो विषादैः ॥७॥ अर्हस्यतस्त्वं प्रविधातुमेनं शरीरसंतापकरं न शोकम् । विपत्सु दैवोपनिबन्धनासु प्रखिद्यते कातरधीन धीरः ॥८॥ विशङ्कमानोऽकुशलं तनजे खेदं महीमण्डन मा च यासीः । संयोक्ष्यसि त्वं दिवसैः क्रियद्भिः समृद्धिभाजा निजनन्दनेन ॥८६॥ इति गिरमभिधाय निश्चितार्थी गतवति तत्र निजाश्रमं मुनीन्द्रे । स निखिलमकताहिकं विधेयं प्रहितनरेन्द्रनियोगिमन्त्रिवर्ग: ॥१०॥ एव परोपदेशं विनैव जानाति तथा त्वमपि संसारस्वरूपं सर्वं जानासीत्यभिप्रायः । भारती भाषा (?)। भाति । उपमा ।।८६।। अनिष्टेति । सर्वशरीरभाजां सर्वेषां शरीरभाजां संसारिणाम् । अनिष्टयोगप्रियविप्रयोगी अनिष्टस्याहितवस्तुनो योगश्च संबन्धश्च प्रियस्येष्टवस्तुनो विप्रयोगश्च वियोगश्च तो। साधारणो समानी । इति एवं प्रकारेण । आत्मबुद्धया स्वस्य बुद्धया। विगणय्य विचार्य । विद्वान ज्ञानी। आत्ममनोविषादैः आत्मनः स्वस्य मानसशोक: । न खेदयति न पोडयति । खिदि दैन्ये ४ लट ॥८७।। अहस्येति५ । अतः एतस्मात । त्वं भवान् । शरीरसंतापकरं शरीरस्य संतापकरं दाहकरम् । एनं शोकं दुःखम। प्रविधातं कर्तम । नार्हसि न समर्थोऽसि । दैवोपनिबन्धनासु दैवमदृष्टमेवोपनिबन्धनं कारणं यासां तासु । विपत्सु विपत्तिषु । कातरधीः कातरा भोता धीर्यस्य सः । प्रखिद्यते विषादं करोति । धीरः विद्वान न प्रखिद्यते। खिदि दैन्ये लट । अर्थान्तरन्यासः ।।८८॥ विशङ्कति । महीमण्डन भो भूमितिलक । तनूजे तनये । अकुशलं कष्टम् ( अमङ्गलम् ) विशङ्कमानः शङ्कां कुर्वन् । खेदं दुःखम् । मा च ( मा स्म) यासी: मा गाः । या प्रापणे लुङ। समृद्धिमाजा समृद्धि भजतीति समृद्धिभाक् तेन । निजनन्दनेन निजस्य स्वस्य नन्दनेन पुत्रेण | कियद्भिः कतिपयैः । दिवसः दिनैः । त्वं भवान् । संयोक्ष्यसि संबन्धं प्राप्स्यसि । युजन योगे कर्मणि लुट् ।।८९।। इतीति । तत्र तस्मिन् । निश्चितार्था निर्णीताभिप्रायाम । गिरं वाचम् । इति उक्तप्रकारेण । अभिधाय उदीर्य । मुनीन्द्रे मुनीश्वरे । निजाश्रमं निजस्य स्वस्याश्रमं स्थानम् । गतवति यातवति सति । प्रहितनरेन्द्रनियोग गि] मन्त्रिवर्ग: प्रहितो विसजितो नरेन्द्राणां भूपानां नियोग [ गि] पुरुषाणां मन्त्रिणां वर्ग: समूहो येन सः। सः राजा । निखिलं सकलम् । आह्निकं दिने प्रवर्तमानम् । विधेयं कार्यम् । अकृत अकरोत । डुकृञ्करणे लुङ् ।।९०॥ होता है। जिस प्रकार इन्द्रस्वर्गकी स्थितिको स्वयं जानता है इसी प्रकार तुम भी संसारकी स्थिति को स्वयं जानते हो ।।८६।। इस संसार में जितने शरीरधारी-प्राणी हैं, उन सभीके साथ इष्ट वियोग और अनिष्ट संयोग समान रूपसे लगे हुए हैं, यह अपनी बुद्धिसे सोचकर बुद्धिमान् मनुष्य विषादसे अपने मनको खिन्न नहीं करते ।।८७।। अतः तुम्हें शोक करना उचित नहीं: क्योंकि शोक करनेसे शरीरमें सन्ताप होता है, लाभ तो कुछ होता नहीं । पूर्वोपार्जित कर्मोके कारण विपदाएं आती हैं। उनके आने पर कायर पुरूष ही खिन्न होते हैं, न कि धीर-वीर ॥८८ । राजन् ! तुम इस भूमिके भूषण हो-तुमसे इसभूमिकी शोभा है । अपने पुत्रके बारेमें अकुशलकी आशङ्कासे खिन्न न होओ। थोड़े ही दिनोंमें अपने समृद्धिशाली पुत्रसे तुम्हारी भेट होगी। ८९।। निश्चित अर्थसे भरे वचन कहकर मुनिराजने उधर अपने इष्ट स्थान की ओर प्रस्थान किया, और इधर राजाने भी वहाँ उपस्थित राजाओं, अधिकारियों और मन्त्रियोंको १. क ख ग घ मावयासीः । मु० मा स्म यासीः । २. क ख ग घ संयोज्यसे । म संयुज्यसे । ३. = विषादैः मानसशोकैः । आत्ममनः आत्मनः स्वस्य मनश्चित्तम्। ४. श स खेदि । ५. श स अर्हसीति । ६. आ तस्मात् । = अतः अस्मात् कारणात् । ७. श स लुङ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy