SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सगः निमजतो मे परिमूढबुद्धरेवंविधे बन्धुवियोगदुःखे । मनः समुच्छ्वासि कृतं त्वयैव त्वं बान्धवेभ्योऽपि यतोऽसि बन्धुः ॥८३।। इति श्रुतिहादि वचो ब्रुवाणं महीपतिं भक्तिभरावनम्रम् । जगाद भव्याम्बुरु हैकभानुर्मुनिर्मनोहारिभिरुक्तिभेदैः ।।४।। नराधिप त्वां प्रियविप्रयुक्तं विलोक्य दिव्येन विलोचनेन । गुणानुरागादहमागतोऽस्मि गुणेषु केषां न मनोऽनुरक्तम् ॥८॥ श्रुतान्वितस्यान्त्यशरीरभाजस्तत्त्वावबोधक्रममाणबुद्धः। भवस्थितिस्ते विनिवेद्यमाना शतक्रतो ककथेव भाति ॥८६॥ इयम् एषा। प्रवृत्तिः प्रबर्तनम् । जगदितायैव जगतो हितायव उपकारायैव ।।८२॥ निमज्जत इति । एवंविधे एवंविधा यस्य तस्मिन् । बन्धुवियोगदुःखे बन्धोवियोगाज्जाते दुःखे । निमज्जत: निमज्जस्य । परिमूढबुद्धेः परिमूढा भ्रान्ता बुद्धिर्मति यस्य तस्य । मे मम । मनः मानसम् । यतः यस्मात् । त्वयैव भवतैव । समुच्छ्वासि संतोषयुक्तम् । कृतं क्रियते स्म । ( ततः) त्वं भवान् । बान्धवेभ्योऽपि बन्धुभ्योऽपि । बन्धुः अधिकबन्धुः । असि भवसि । अस भुवि लट् ।। ८३॥ इतीति । इति उक्तप्रकारेण । श्रुतिह्लादि श्रुतेः कर्णस्य ह्लादि सुखकारि । वचः वचनम् । ब्रुवन्तं निगदन्तम् । भक्तिभरावननं भक्त्या भरो भारस्तेन नमतीत्येवं शीलं (नमतीत्येवं शील:, तम्) 'नम्कम-' इत्यादिना शीलाथें र-प्रत्यययः । महीपतिम् अजितंजयभूपतिम् । भव्याम्बुरुहैकभानुः भव्या विनेय जनास्त एवाम्बुरुहाणि कमलानि तेषामेको मुख्यो भानुरिव प्रवर्तमानः । मुनिः यतीन्द्रः । मनोहारिभिः मनःसंतोषकारिभिः । उक्तिभेदैः वचनविशेषः । जगाद गदति स्म । रूपकम् ।।८४॥ नरेति । नराधिप नरपते । प्रियविप्रयुक्तं प्रियेण पुत्त्रेण विप्रयुक्तं वियोगसहितम् । त्वां भवन्तम् । दिव्येन दिव्यरूपेण । विलोचनेन ज्ञानेन । विलोक्य दृष्ट्वा । गुणानुरागात् गुणेष्वनुरागात् । अहम् आगतः आयातः । अस्मि भवामि । गुणेषु केषां पुरुषाणाम् । मनः मानसम् । अनुरक्तं प्रीतं न, अपि त्वनुरक्तमेव । अर्थान्तरन्यासः ।।८५।। श्रुतेति । श्रुतान्वितस्य श्रुतेन शास्त्रेणान्वितस्य युक्तस्य । अन्त्वशरीरभाजः अन्त्यं चरमं शरीरं भजतीत्यन्त्यशरीरभाक तस्य। तत्त्वावबोधक्रममाणबुद्धेः तत्त्वावबोधे तत्त्वपरिज्ञाने क्रममाणा वर्तमाना बुद्धिर्यस्य तस्य । ते तव । विनिवेद्यमाना ज्ञाप्यमाना। भवस्थितिः भवस्य संसारस्य स्थितिः । शतक्रतो: देवेन्द्रस्य । नाककथेव नाकस्य स्वर्गस्य कथेव कथनमिव-इन्द्रो यथा सुरलोकस्वरूपं स्वतहै ।।८२॥ मुनिराज ! मैं ऐसे पुत्रवियोगके दुःख-समुद्र में डूब रहा था कि मेरी बुद्धि सर्वथा मूढ-विचारशून्य हुई जा रही थी, इतने में आपका समागम हो जानेसे मेरा मन सुखकी श्वास लेने लगा है। आपके आनेसे ही मेरा मन सन्तुष्ट हुआ है जिससे यह स्पष्ट ही समझ गया हूँ कि आप बन्धुओंसे भी बढ़कर बन्धु हैं ।।८३।। कानोंको आनन्द देनेवाले इन मधुर वचनोंको मुनिराजसे कहकर वह राजा मौन हो गया। मुनिराजके सामने वह भक्तिसे नम्र होकर बैठ गया इसके पश्चात् वे मुनिराज, जो भव्यजीवरूपी कमलोंको आनन्द देनेके लिए एकमात्र सूर्य थे, मनोहर शब्दोंमें इस प्रकार बोले--॥८४|| राजन ! अपने दिव्यनेत्र-अवधिज्ञानसे तुम्हें पूत्रसे वियुक्त जानकर मैं यहाँ तुम्हारे गुणोंके ऊपर अनुराग होनेसे आया हूँ। गुणोंके ऊपर किनका मन अनुरक्त नहीं होता ? ॥८५॥ राजन् ! तुमने शास्त्रोंका परिशीलन किया है, तुम्हारी बुद्धि तत्त्वज्ञानकी प्राप्ति में लगी हुई है और तुम चरम शरीरी हो--तुम इसी जन्ममें मुक्ति पा लोगे। अतएव तुम्हें संसारकी स्थिति बताना इन्द्रको स्वर्गकी कथा सुनानेके समान मालूम १. म सुलोच। २. = ब्रुडतः। ३. = विहितम् । ४. आ गुणिषु । = गुणेषु गुणवत्सु वा । ५. श स तेषाम् । Jain Education Internacional For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy