________________
१३६
चन्द्रप्रमचरितम् अस्पृष्टपांसू अपि खेचरत्वात्कृतादरः शान्त्युदकार्थमेव । प्रक्षालयामास मुनीन्द्रपादो नृपः पयोभिः प्रमदाश्रुमित्रैः ।।७।। तस्मिन्नधीताशिषि साधुमुख्य सप्रश्रयां वाचमुवाच भूपः । दन्तांशुभिः कुन्ददलैरिवासी समर्चयन्पादयुगं तदीयम् ।।८०॥ जातोऽहमद्येन्दुसमानकीर्तिर्धन्यः कृतार्थो जगतश्च मान्यः। यदभ्युपेतो मदनुग्रहार्थी मनोरथस्यापि भवानभूमिः ॥८॥ न काचिदीहा कृतकृत्यभावान्न च क्वचित्प्रेम समत्वयोगात् । इयं हि कल्याणकरी प्रवृत्तिर्जगद्धितायैव भवादृशानाम् ॥२॥
संनिभस्य समानस्य । वियोगेन वियोजनेन । तावान् तन्मात्र(तन्मान-)मस्य तावान् तत्प्रमाणः । शोकः दुःखम् । न बभूव ॥७८।। अस्पृष्टेति । कृतादरः विहितप्रीतिः । नृपः अजितंजयः । खेचरत्वात् आकाशचरत्वात् । अस्पृष्टपांसू अस्पृष्टः पांसुधूलि ययोः ( याभ्यां ) तौ। अपि । मुनीन्द्रपादो मुनोन्द्रस्य पादौ चरणी । प्रमदाश्रु मित्रैः प्रमदादानन्दाज्जातेनाश्रुणा नेत्रोदकेन मित्रैर्युक्तैः । पयोभिः सलिलैः । शान्त्युदकार्थमेव शान्तिसलिलनिमित्तमेव । प्रक्षालयामास प्रक्षालयतिस्म। क्षल शौचकर्मणि लिट् ॥७९॥ तस्मिन्निति । तस्मिन् साधुमुख्य मुनीन्द्रे । अधीताशिषि प्रोक्ताशीर्वादे सति । असो भूप: अजितंजयभूपतिः। कुन्ददलैरिव कुन्दस्य माध्यस्य दलैरिव पुष्पैरिव । दन्तांशुभिः दन्तकान्तिभिः । तदीयं तस्येदं तदीयम् । पादयुगं पादयो. युगं द्वन्द्वम् । समर्चयन् पूजयन् । सप्रश्रयां विनययुताम् । वाचं वचनम् । उवाच ब्रवोतिस्म । ब्रूजू व्यक्तायां वाचि लिट । 'अस्ति-' इत्यादिना वचादेशः। उपमा ॥८॥ जात इति । मनोरथस्य अभिल अभूभिः अनिवासोऽपि । मदनुग्रहार्थी ममानुग्रहार्थी उपकारे प्रोतः । भवान त्वम् । यत् अभ्युपेतः आगतवान् । ( तत् ) अद्य इदानीम् । अहम् इन्दुसमानकोतिः इन्दोश्चन्द्रस्य समाना कीतिर्यस्य सः । धन्यः धनं लब्धो धन्यः । कृतार्थ: संपूर्णप्रयोजनः । जगतश्च लोकस्य ( च ) मान्यः पूज्यः । जातः जायते स्म ।।८१।। नेति । कृतकृत्यभावात् निष्पन्न कार्यत्वात् । काचिद् ईहा वाञ्छा । न न भवति। समत्वयोगात् समत्वस्य समानपरिणाम योगात्। क्वचित् कस्मिश्चित् । प्रेम रागः । न च न भवति। भवादृशानां त्वादृशानाम् । कल्याणकरी मङ्गलकरी । हुआ। ऐसा सन्तोष अपने जीवन में उसे पहली बार हुआ ॥७८॥ आकाशचारी होनेसे मुनिराजके चरणोंको यद्यपि धूलि छू भी नहीं सकी थी, किन्तु फिर भी केवल शान्ति-जलके लिए हो राजाने उनका आदरपूर्वक जलसे प्रक्षाल किया। प्रक्षाल करते समय उसकी आँखोंसे हर्षाश्रु प्रवाहित हो रहे थे ॥७९॥ इसके बाद मुनिराजने राजाको आशीर्वाद दिया । आशीर्वाद पाकर वह कुन्दपुष्पोंके समान अपने दातोंको किरणोंसे मानो उनके चरणोंको अर्चना करता
आ विनम्र शब्दोंमें यों कहने लगा-11८०। मनिराज! आज मेरी चन्द्रमाके समान निर्मल कीति उत्पन्न हो गई है, मैं धन्य, कृतकृत्य और लोकमान्य हो गया हूँ; क्योंकि केवल मेरे ऊपर अनुग्रह करने के लिए आप यहाँ पधारे हैं। मैं तो कभी इसकी आशा भी नहीं कर सकता था; क्योंकि आपको ऐसा कोई मनोरथ नहीं हो सकता, जिसकी पूतिके लिए आप मेरे ऐसे व्यक्ति के घर पधारें ॥८१।। आपको अब कोई कामना नहीं; क्योंकि आप कृतकृत्य हो चुके हैं, और आपको किसीसे राग नहीं; क्योंकि आप सभीके प्रति समभाव रखते हैं। किन्तु फिर भी आप जैसे महर्षियों को यह भ्रमण करनेकी प्रवृत्ति केवल लोकहितके लिए ही हुआ करती
१. म शमत्व। २. = विहितादरः । ३. = पुण्यवान् । 'सुकृती पुण्यवान् धन्यः' इति हैमः । ४. आ श स जातेति । =संवृतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org