SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १३५ - ५, ७८ ] पञ्चमः सगः प्रलापिनीशे करुणाद्रभावं बिम्बं किमेतद्गतमुष्णरश्मेः । वितर्कमेवं जनयञ्जनानां जवेन जज्ञे स नृपान्तवर्ती ।।७४॥ संदर्शनादेव तदा महर्षेस्तपोमयेन ज्वलतोऽङ्गधाम्ना। स भूभृतः पुत्रवियोगजन्मा जगाम शोकः सहसा कृशत्वम् ।।७।। न यावदद्यापि पवित्रपांसू निषीदतस्तच्चरणौ धरण्याम् । ससंभ्रमं तावदुपेत्य भूपः प्रसारयामास निजोत्तरीयम् ।।७६॥ श्रादिकां सम्यगवोप्य पूजां ससंभ्रमेणोपहितां जनेन । स्वहस्तदत्तं नृवरेण पश्चादलंचकारोन्नतमासनं सः ।।७।। न तस्य तावानसुसंनिभस्य सूनोवियोगेन बभूव शोकः । यावान्भुवो भर्तुरभूतपूर्वो मुनीश्वराभ्यागमनेन तोषः ॥७८।। उपमा । ७३॥ प्रजापनीति । ईशे राज्ञि । प्रलापिनि प्रलापयुक्ते सति । करुणा भावं करुणया दययार्द्रभावं मृदुभावम् । उष्णरश्मेः सूर्यस्य । गतं यातम् । एतद् इदम् । बिम्बं मण्डलं किम् । एवं प्रकारेण । जनानां लोकानाम् । वितर्क विचारम् । जनयन उत्पादयन । सः मनिः। जवेन शीघ्रम् । नपान्तवर्ती नपस्य राज्ञोऽन्तवर्ती समीपवर्ती। जज्ञे जायते स्म । जनैङ् प्रादुर्भावे लट् । संशयः ।।७४॥ संदर्शनादिति । तमोमयेन त गोरूपेण । अङ्गधाम्ना देहकान्त्या । उज्वलतः [ ज्वलत. ] प्रकाशमानस्य । महर्षेः महामुनेः । संदर्शनादेव समीक्षणादेव । तदा तत्समये । भूभृतः भूपस्य। पुत्रवियोगजन्मा पुत्रस्य सूनो वियोगेन जन्मा ( जन्म यस्य ) जातः । सः शोकः दुखम् । सहसा शीघ्रम् । कृशत्वं कार्यम् । जगाम ।।७५॥ नेति । अद्यापि इदानीमपि । पवित्रपांसू पवित्रः पांसु धूलि र्ययोस्तो। तच्चरणौ तस्य मुनेश्चरणी पादौ । धरण्यां भूमौ । यावत् पर्यन्तं न निषोदतः न तिष्ठतः। तावत्पर्यन्तं ससंभ्रमं संभ्रमसहितं यथा तथा। भूपः भूपतिः। उपेत्य समोपं गत्वा । निजोत्तरीयम् उपरिधृतदुकूलवस्त्रम् । प्रसारयामास प्रस्तारयामास ।।७६।। अयेति । ससंभ्रमेण संभ्रमयुक्तेन । जनेन परिजनेन । उपहिताम् आनीताम् । अयादिकां सत्कारपूर्विकाम् । पूजाम् अर्चनाम् । सम्यगवाप्य प्राप्य । पश्चात् पुनः । नृवरेण नरपतिना। स्वहस्तदत्तं स्वस्य हस्तेन पाणिना दत्तं वितीर्णम् । उन्नतं प्रांशुः । आसनं विष्टरम् । स: चारणमुनिः । अलंचकार अलंकरोति स्म ॥७७॥ नेति । भुवः भूमेः । भर्तुः प्रभोः। मुनीश्वराभ्यागमनेन मुनीन्द्राभ्यागमनेन । अभूतपूर्वः पूर्वमभूतोऽभूतपूर्वः । यावान् यन्मानमस्य यावान् । 'यत्तदः' इति चतु-प्रत्ययः । तोषः संतोषः । बभूव भवति स्म । तस्य असुसंनिभस्य असूनां प्राणानां हुआ ।।७३। उन्हें बड़े वेगसे राजाके निकट आते देखकर लोगोंके मन में यह तर्क उत्पन्न हो रहा था कि इसके विलापसे दयार्द्र होकर कहीं सूर्यका बिम्ब तो नहीं उतरता चला आ रहा हैं ? कुछ ही क्षणोंमें वे राजाके निकट जा पहुँचे ॥७४।। महर्षिके शरीरपर तपका तेज था । उससे वे प्रज्वलित अग्नि सरीखे प्रकाशमान हो रहे थे। उनके दर्शन पाते ही राजाका पुत्रवियोगसे उत्पन्न हुआ शोक एका-एक कम हो गया ॥७॥ धूलि को भी पवित्र कर देनेवाले उनके चरण अभी पृथ्वीपर पहुँच हो नहीं पाये थे कि राजाने शीघ्र ही उनके निकट जाकर अपना दुपट्टा बिछा दिया ॥७६॥ राजाके पास उस समय जो लोग उपस्थित थे, वे शीघ्र ही अर्घ आदि सामग्री ले आये। इसके पश्चात् मुनिराजके विराजने के लिए राजाने स्वयं अपने हाथसे ऊंचा आसन दिया। उसे उन्होंने अलङ्कृत किया--वे उसपर बैठ गये ॥७७॥ अपने प्राणप्रिय पुत्रके वियोगसे राजाको उतना शोक नहीं हुआ, जितना मुनिराजके पधारनेसे सन्तोष १. म धारित्र्याम् । २. श स प्रलापेति । ३. श स प्रलापे विप्रलापयुक्त। ४. आ पवित्रपांसुः । ५. भा श स मानिताम् । ६. = अर्घादिसामग्रोसमेताम् । ७. श स प्रांशुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy