SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [५, ७.'यदसाशोकघन कालबलप्रविवृद्धमस्य समुपेत्य पुनः । भव वत्स बान्धवजनाश्रुधुनीपयसो निदाघसमयः सहसा ॥७०।। सुतशोकशङ्कपरिविद्धमनाः प्रलपन्निति प्रबलबाष्पजलः। क्षणमाधिमन्तरयितुं जगृहे परिमूर्च्छया स कृपयेव नृपः ।।७१।। अथेश्वरश्चन्दनसेचनाद्यैः क्षणादुपायरपनीतमूर्छः। व्यलोकयच्चारणमन्तरिक्षे यति तपोभूषणनामधेयम् ।।७२।। दधानमिन्दोः परिवेषभाजस्तुलामतुल्याङ्गरुचा परीतम् । तदा तमुद्ग्रीवमुदीक्षमाणा सर्वा सभा विस्मयमाजगाम ।।७३॥ यदिति । वत्स भोः पुत्र । यत् । असह्यशोकघनकालबलप्रविवृद्धम् असह्य. सोढुमशक्यः शोको दुःखं स एव घनकालो वर्षा कालस्तस्य जलेन सलिलेन प्रविवृद्धमेधितम् । अस्य एतस्य। बान्धवजनाश्रु. धुनीपयसः बान्धवा एव जनास्तेषामश्रणां धुनी नदो तस्याः पयस्तस्य। पुन: पश्चात् । सहसा शीघ्रम् । समुपेत्य समीपमागत्य । निदाघसमयः ग्रीष्मकालः । भव भूयाः । भू सत्तायां लोट् । रूपकम् ।।७०।। सुतेति सुतशोकशङ्कपरिविद्धमनाः सुतस्य पुत्रस्य शोकः स एव शङ्कः शल्यं तेन परिविद्धं भिन्नं मनो यस्य सः । [ सः ] नृप. अजितंजयः । क्षणम् अल्पकालपर्यन्तम् । 'कालावनो व्याप्ती' इति द्वितीया । आधि मनःपीडाम् । अन्तरयितुं निवारयितुम् । सकृपयेव' कृपया युक्तयेव । परि मूर्छया महामूर्च्छया। जगृहे गृहीतः । गृह उपादाने कर्मणि लिट् । रूपकम् ।।७१।। अथेति । अथ मूर्छानन्तरम् । चन्दनसेचनाद्यैः चन्दनस्य श्रीगन्धजलस्य सेचनाद्यः सेचनादिभिः। उपाय: कारणः । क्षणात् अल्पकालात् । अपनोतमूर्छः अपनीता मूर्छा यस्य सः । ईश्वरः भूपतिः। तमोभूषण नामधेयं तपोभूषणमिति ( तपोभूषण इति ) नामधेयमभिधानं यस्य तम् । चारणं चारणद्धिप्राप्तम् । यति मुनिम् । अन्तरिक्षे आकाशे। व्यलोकयत् अपश्यत् । लोकृञ् दर्शने णिजन्ताल्लङ् ॥७२॥ दधानमिति । परिवेषभाजः परिवेषमाश्रितस्य । इन्दोश्चन्द्रस्य । तुलां समानं (समताम्)। दधानं धरन्तम। अतुल्याङ्गरुचा अतुल्यया निरुपमया अङ्गस्य देहस्य रुचा कान्त्या। परिवेष्टितं तं चारणमुनिम् । तथा नरपतिवीक्षणप्रकारेण । उग्रीवम् उद्गता-ग्रीवा यस्मिन् कर्मणि तत् ( तथा )। उदीक्षमाणा विलोकमाना । सर्वा सकला। सभा संसत् । विस्मयम् आश्चर्यम् । आजगाम आययौ। गम्लु गती लिट् । बेटे ! तुम्हारे जानेसे बन्धुओंके जार असह्य शोकके बादल छा गये हैं, शोकके बादलोंके छा जानेके इस अवसर (बरसात)पर उन (बन्धुओं) की अश्रुनदो में बाढ़ आगई है । उसे सुखाने के लिए तुम शीघ्र हो आकर ग्रीष्म ऋतु बन जाओ ॥७०॥ पुत्र विरहके शोक रूपी काँटेने चुभकर राजाके कोमल हृदयमें घाव कर दिया, जिससे वह इस तरह विलाप करते-करते रोने लगा और उसकी अश्रुजलकी धारा वेगसे बहने लगी। इस अवसरपर मानो मानसिक व्यथाको दूर करनेके लिए मूर्छाने दयासे उसे अपने अधीन कर लिया--वह मूच्छित हो गया ॥७१। इसके पश्चात् चन्दन-सेचन आदि शीतोपचारसे कुल ही क्षणोंमें मूर्छाके दूर होते ही उसने आकाश में तपोभूषण नामके चारण मुनिको देखा ॥७२॥ चारों ओर उनके शरीरको अनुपम प्रभा फैल रही थी, उसके बी वमें वे कान्तिमण्डलके बीचों-बीच पूर्णमासीके चन्द्रमाकी भाँति दृष्टिगोचर हो रहे थे। सारी सभा गर्दन उठाकर उनको ओर देखने लगी, जिससे उसे बड़ा आश्चर्य १. अ यदशोक शोक । २. अ रिक्षात् । ३. आ श स यदीति । ४. आ श स जलप्रवृद्धम् । ५. श स खिन्नं । ६. = स नृपः कृपयेव करुणयेव । .. आ गहि उपादाने । ८. श स लोकृ । ९. श सषयुतस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy