________________
-५, ६९ ]
पञ्चमः सर्गः
ललितभ्रु लोचनयुगं वदनं तुहिनद्युतिद्युति वचो मधुरम् | भवदीयमङ्ग तदशेषमगान्मम पाप्मभिः स्मरणगोचरताम् ||६६|| अपि तद्भवेद्दिनमपुण्यवतः परमोत्सवं पुनरपीह मम । विषयत्वमेष्यति विलोचनयोस्तव वत्स यत्र मुखपङ्करुहम् ||६७॥ किमभूदमोष्वपि न वत्सलता स्वसुहृत्सु काचन कठोरधिया । गमनोत्सुकेन सहपांसुरता यदि मे त्वया दयित नालपिताः ||६८|| निजभर्तृदुर्व्यसनदुःखचितं शरणोज्झितं प्रविलपन्तमिमम् । सपदि प्रदर्शितपदाम्बुरुहः सुखिनं कुरुष्व नृपभृङ्गचयम् ॥६६ ॥
१३३
तत्सकलं तत्सर्वम् । व्यहस्तितं । निराकृतम् ॥। ६५ ।। ललितेति । अङ्ग भोः पुत्र । ललितभ्रु ललिते मनोहरे भ्रुवौ नयनपताके यस्य तत् । लोचनयुगं लोचनयोर्युगं युगलम् । तुहिनद्युतिद्युति तुहिनद्युतेश्चन्द्रस्येव द्युति: कान्ति र्यस्य तस्य संबोधनम् । वदनं मुखम् । मधुरं माधुर्यम् । वचः वचनम् । तदशेषं तत्सकलम् । मम मे । पाप्मभिः पापैः । स्मरणगोचरतां स्मरणस्य चिन्ताया गोचरतां विषयताम् । अगात् अगमत् । इण् गतौ लुङ् । उनमा ।। ६६ ।। अरीति । भो वत्स भोः पुत्र । यस्मिन् दिवसे । तव भवतः । मुखपङ्करुहं मुखमेव पङ्करुहं कमलम् । मम मे । विलोचनयोर्नयनयोः । विषयत्वं गोचरत्वम् । एष्यति यास्यति । पुनरपि पश्चादपि । इह प्रदेशे । अपुण्यवतोऽपि पुण्यरहितस्यापि । तद्दिनं तदहः । परमोत्सवं परमोत्सवेन युक्तम् । भवेत् स्यात् । भू सत्तायां लुङ् ||६७॥ किमिति । यदि यत् यस्मात् कारणात् । कठोरधिया कठोरा निष्ठुरा धीर्यस्य तेन । गमनोत्सुकेन गमने प्रयाणे उत्सुकस्तेन । त्वया भवता । सहपांसुरताः सहपांसुक्रीडिताः । इमे एते । नालपिताः नाभाषिताः । दयित भोः पुत्र । अमीषु एतेषु । स्वसुहृत्स्वपि स्वस्य तव सुहृत्स्वपि मित्रेष्वपि । काचन वत्सलता वात्सल्यम् । किं नाभूत् किं निमित्तं नाभवत् । भू सत्तायां लुङ् ||६८|| निजेति । निजभर्तृदुर्व्यसन दुःखचितं निजानां स्वेषां भर्तुः प्रभोदुर्व्यसनेन दुःसहेन व्यसनेन विपत्त्या दुःखेन कष्टेन चितं युक्तम् । शरणोज्झितं शरणेन रक्षणेनोज्झितं रहितम् । प्रविलपन्तं प्रलापं कुर्वन्तम् । इमम् एनम् । नृपभृङ्गचयं नृपा एव भृङ्गास्तथोक्तास्तेषां चयं समूहम् । सपदि शीघ्रम् । प्रदर्शित पदाम्बुरुहः प्रदर्शितं पदमेवाम्बुरुहं कमलं येन सः । सुखिनं सुखयुक्तम् । कुरुष्व विधत्स्व । डुकृञ् करणे लोट् । रूपकम् || ६९ ॥
भी एकदम चले गये ||६५ || बेटे ! तुम्हारे सुन्दर भौंवाले नेत्र, चाँद सा चमकता हुआ चेहरा और मधुर वचन – ये सब मेरे प्रचुर पापकर्मके उदयसे अब केवल स्मृतिके विषय बनकर रह गये हैं-- अब केवल उनकी स्मृति ही शेष रही है || ६६ || बेटे ! मुझ पापीको क्या फिर भी कभी वह उत्सवका दिन आयगा, जब मैं तेरे मुखकमलको इन आँखोंसे देखूंगा ? || ६७ ॥ प्यारे बेटे ! अच्छा, हम लोगोंकी बात जाने दो, पर जिनके साथ तुम बचपन में धूलि में खेलते रहे, क्या उन मित्रोंसे भी तुम्हें स्नेह नहीं था, जो तुमने अपनी बुद्धिको इतना कठोर कर लिया कि जानेके लिए उत्सुक होकर उनसे भी कुछ नहीं कह गये | ||६८ || यह राज-वर्गरूपी भ्रमरमण्डल अपने स्वामी ( तुम्हारे ) के इस संङ्कट से अत्यन्त दुःखी हो रहा है और अपनेको अशरण समझकर विलापकर रहा है । इसे अपने चरण कमलोंका दर्शन देकर सुखी करो ॥ ६६ ॥
१. म भ्रुलोचन । २. अ अयि । ३ अ सहपांशु । म सह पांशु । ४ = तुहिनद्युतिश्चन्द्रस्तस्य द्युतिरिव द्युतिर्यस्य तत् । ५ = माधुर्योपेतम् । ६. आ मनिता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org