________________
१३२
चन्द्रप्रमचरितम्
[ ५, ६२ -
गुणिनं मनोरथशताधिगतं निजवंशवारिधिविधुं विधिना । हरता भवन्तमकृपेण मम क्षतमक्षियुग्ममुपदर्श्य निधिम् ।।६२।। पदवीमतीत्य तमसां तपता भुवनोदयाचलशिखामणिना। रहितास्त्वया स्वजनवत्सल मे तिमिरावृता इव विभान्ति दिशः ॥६३।। दिनमद्य मे गतमनुत्सवतां शरणोज्झितोऽद्य मम बन्धुजनः । भवदीयदुःसहवियोगभवत्तनुदेहयष्टिरहमद्य मृतः ॥६॥ यशसः सुखस्य विभवस्य तथा महसस्त्वमेव मम हेतुरभूः।
बजता त्वया भुवनभूषण तद्वयपहस्तितं सकलमेकपदे ॥६५।। वत्सलता वात्सल्यम् । अनिमित्तमेव कारणरहितमेव । किं किंनिमित्तम् । रहिता त्यक्ता ॥६१।। गुणिनमिति । गुणिनं गुणवन्तम् । मनोरथशताधिगतं मनोरथानां मनोऽभीष्टानां शतम् अनेकम् [तेन] अधिगतमागतम् । निजवंशवारिधिविधुं निजस्य स्वस्य वंश एव वारिधिस्तस्य विधुरिव तम् । विधिना दैवेन । भवन्तं पूज्यं त्वाम् । हरता अपहरता। अकृपेण दयारहितेन । निधि पद्मशङ्खादिकम् । उपदर्य दर्शयित्वा । अक्षियुग्मम् अक्षणोनयनयो युग्मं युगलम् । क्षतम् अपकृतम् ॥६२।। पदवीमिति । स्वजनवत्सल ! स्वस्य स्वकीयस्य जनेषु बन्धुषु वत्सलो वात्सल्ययुक्तः ( तत्संबुद्धो हे स्वजनवत्सल )। तमसाम् अज्ञानानाम् । पदवी मार्गम् । अतीत्य बधा। तपता प्रज्वलता। भवनोदयाचलशिखामणिना भवनमेवोदयाचलस्तस्य शिखामणिश्चडामणिः तेन । रूपकम् । त्वया भवता। रहिताः त्यक्ताः। दिशः ककुभः । मे मम । तिमिरावृता इव तिमिरेणान्धकारेणावता व्याप्ता इव । विभान्ति विराजन्ते । भा दीप्तो लट् । उपमा ||६३।। दिनमिति । मे मम । अद्य इदानीम् । दिनं दिवसः । अनत्सवताम् । उत्सवरहितत्वम् । गतं प्राप्तम् । अद्य इदानीम् । मम मे। बन्धुजनः बन्धुरेव जनस्तथोक्तः । शरणोज्झित: शरणेन रक्षणेनोज्झितो रहितः। भवदीयदुःसहवियोगभवत्तनुदेहयष्टिः भवदीयेन भवता जनितेन दुःसहेन सोढमशक्येन वियोगेन वियोजनेन भवन्ती जायमाना तन्वी कृशा देहयष्टिः शरीरयष्टिर्यस्य सः - भवज्जनितातिदुःसहेन वियोगेन कृशीभूतशरीरवानित्यर्थः । अहम् अद्य इदानीम् । मृतः म्रियते स्म ॥६४॥ यशस इति । भुवनभूषण । भुवनस्य लोकस्य भूषणमलङ्कार (स्तत्संबुद्धी हे भुवनभूषण )। मम मे । यशसः कीर्तेः । सुखस्य । विभवस्य संपदः । तथा तेन प्रकारेण । महसः तेजसः । त्वमेव भवानेव । हेतुः कारणम् । अभूः अभवः । व्रजता गच्छता । त्वया । एकपदे एकक्षणे । दिया ? ॥६१॥ बेटे; तुम गुणवान् हो; सैकड़ों मनोरथोंके बाद तुम मुझे प्राप्त हुए; और इस वंश रूपी समुद्रके लिए तुम साक्षात् चन्द्रमा हो । निर्दय विधाताने तुम्हारा हरण करके तो जैसे निधि दिखलाकर मेरी दोनों आँखें ही फोड़ डाली हैं ॥६२॥ जैसे अन्धकारको हटाकर तपनेवाले और उदयाचलके शिखरपर उसके चूडामणि सरीखे प्रतीत होने वाले सूर्यके बिना समस्त दिशाओंमें अन्धकार फैल जाता है, वैसे ही अज्ञानके अन्धकारको दूरकर ज्ञानका प्रकाश फैलाने वाले, शत्रुओंको सन्ताप देने वाले और उदयाचलकी भांति उन्नत संसार (मानव समाज)के मस्तकपर चूडामणिका स्थान पानेवाले तुम्हारे बिना सभी दिशाओं में अन्धकार दिखाई दे रहा है ॥६३॥ आजसे मेरे दिन उत्सव रहित हो गये हैं, आजसे मेरे परिवारके लोग अशरण हो गये हैं और हे बेटे ! तेरे असह्य वियोगसे मेरा शरीर सूखकर लकड़ी हुआ जा रहा है । ऐसी अवस्थामें मैं अब मरा ॥६४॥ हे बेटे ! तुमसे संसारकी शोभा रही, इसलिए तुम उसके भूषण थे, और मेरे यश, सुख, ऐश्वर्य तथा तेजके तुमही एक कारण थे । तुम्हारे चले जानेसे वे सब
१. = प्राप्तम् । २. = विधुश्चन्द्रः। ३. आ °वत्सलम् । श स वत्सलः । ४. = उल्लङ्घ्य । ५. श स भवनों । ६. श स भवन । ७. आ श स मणिरिव । ८. = हतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org