________________
- ५, ६१ ]
पञ्चमः सर्गः प्रविधाय मामशरणं सहसा क्व मदङ्कदोर्ललित हासि गतः । लघु देहि दर्शनमहं हि विना भवतावलम्बितुमसूननलम् ॥३८॥ अधिसूनु लालनविधावहितेऽप्यमनोहरं तव मयाभिहितम् । न कदाचिदत्यसदृशप्रणये किमकारणं मयि विरक्तिमगाः || ५९ || वचनामृतैः सुखरसज्ञमिदं कुरु पूर्ववच्छ्रवणयोर्युगलम् । अनिबन्धनाकुशलशङ्कितया किमुपेक्षसे पितरमाकुलितम् ||६०| यदि वा कुतश्चिदपि कारणतो मयि वत्स तेऽजनि निरादरता । अनिमित्तमेव रहिता किमिमां जननीं प्रति प्रकृतिवत्सलता ॥ ६१ ॥
कर्मणि तत् । प्रलाप शुशोच । ला व्यक्तायां वाचि लिट् ॥ ५७॥ प्रवीति । भोमदङ्कदोर्ललित ममाङ्कदोष्णोः - ऊरुभुजयोः ललित मनोहर । सहसा शीघ्रम् । मामशरणं शरणरहितम् । प्रविधाय कृत्वा । क्व कस्मिन् । गतोऽसि यातोऽसि । हा हन्त । लघु शीघ्रम् । दर्शनं देहि प्रयच्छ । डुदाञ् दाने लोट्" । अहं हि भवता त्वया विना | असून् प्राणान् । अवलम्बितुं घर्तुम् । अनलम् असमर्थो भवामि ।। ५८ ।। अधीति । अधिसू सूनुपधिकृत्य अधिसूनु तस्मिन् पुत्रविषये । लालनवित्री लालनस्य बालकेल्या विधौ । अ हित रहितेऽपि । मया कदाचिदपि एकदापि । तव भवतः । अमनोहरम् अमङ्गलवचनम् । अभिहितं न भाषितं न । असदृशप्रणये असदृशोऽसाधारणः प्रणयः प्रीतिर्यस्मिन् तस्मिन् । मयि । अकारणं कारणं विना । विरक्तिम् अप्रीतिम् । किम् अगाः किम् अयासो : ६ ।। ५९ ।। वचनेति । वचनामृतैः वचनान्येवामृतानि तैः । इदम् एतत् । श्रवणयोः कर्णयोः । युगलं द्वयम् । पूर्ववत् प्रथममिव । सुखरसज्ञं सुखस्यानन्दस्य रसज्ञम् । कुरु विधेहि । अनिबन्धनाकुशलशङ्कितया अनिबन्धनम कारणमकुशलं कष्टं शङ्कितता" शङ्कनशीलत्वेन । आकुलितं पोडितम् । पितरं जनकम् । किमुपेक्षसे किं कारणमुदासीनं करोषि । ईक्षि१२ दर्शने लट् । रूपकम् ||६० ॥ यदीति । वत्स भोः पुत्र । यदि वा कुतश्चिदपि कस्मादपि । कारणतः हेतोः मयि, ते तव । निरादरता अप्रोतिता । अजनि अजायत । इम म् एताम् । जननीं मातरं प्रति । प्रकृतिवत्सलता प्रकृत्या स्वभावेन
१३१
खूब जोर-जोर से यों विलाप करने लगा - ||५७ || हे मेरी गोद और हाथोंके आभूषण; हाय; तुम मुझे अशरण बनाकर अचानक ही कहाँ चले गये ? मुझे शीघ्र ही दर्शन दो । तुम्हारे बिना अब मैं अपने प्राणोंको धारण करनेमें असमर्थ हूँ ||५८ || बचपन में जब तुम स्वयं अपने लिए ही अहित करनेवाले खेल खेलने लगते थे, तब भी मैंने तुमसे कोई अप्रिय बात नहीं कही । मैं तो तुमसे सदा असाधारण स्नेह करता आ रहा हूँ, फिर तुम अकारण ही मुझसे क्यों रूठ गये हो ? || ५९|| तुम अपने वचनामृत से मेरे इन दोनों कानोंको पहले की भाँति सुखी करो । तुम्हारे बारे में अकारण ही अकुशलकी आशङ्कासे तुम्हारा यह पिता व्याकुल हो रहा है । तुम इसकी उपेक्षा क्यों कर रहे हो ? ॥६०॥ हे बेटे ! यदि किसी कारण से मेरे प्रति निरादरका भाव हो गया था, तो इस माँ से जो तुम्हारा स्वाभाविक वात्सल्य रहा, उसे यों ही क्यों छोड़
१. क ख ग घ म प्रनिहाय । २. अ अयि सूनु । ३. एष टीकाकृदभिमतः पाठः, प्रतिषु तु 'मदङ्कदुर्ललित' इत्येव दृश्यते । = कुत्र । ५. आ लिट् ! ६. आ अयासि श स आयासि । ७. = अमङ्गलम् । ८. = • तच्छङ्कितया । ९ = तच्छङ्कनशीलत्वेन । १०. = व्याकुलम् । ११. = करोषि । १२. श स ईक्ष ।
४.
= किमुपेक्षां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org