________________
चन्द्रप्रभचरितम्
रतिरूपसंपदभिभूतिकर लेलितैर्निजस्य वपुषोऽवयवैः । शुभलक्षणैः परिविभूषितया विभवाय भूषणमभारि यया ||३८|| शशलाञ्छने ऽस्तमितवत्यपि सत्यगमद्यदीयमुखचन्द्रमसा । स्मितचन्द्रिकोज्ज्वलत रद्युतिना जगतीतलं सरजनीकरताम् ||३६|| स तयोर्गुणाभरणभूषितयोर्विबुधः समेत्य सुरलोकभुवः । भुवनातिशायिकमनीयतनुस्तनुभूरभूदजित सेन इति ॥ ४० ॥ जनतानुरागपरिवृद्धिकरः सुभगाकृतिर्वयसि यः प्रथमे । शरदौषधीपतिरिवामलिनेस्तिलकः क्षितेरुपचिकाय कलाः ||४१ ||
१२६
I
निजकार्यकौशलं निजस्य स्वस्य कार्यस्य क्रियायाः कौशलं प्रौढत्वम् । अभूत् अभवत् । लुङ । तत् प्रकटं प्रकाशम् । विधातुमित्र कर्तुमिव । विधिना ब्राह्मणा । या देवी । अजन्यत जन्यते स्म । जनैङ प्रादुर्भावे णिजन्तात् कर्मणि लुङ् | उत्प्रेक्षा ॥ ३७॥ रतीति । रतिरूपसंपदभिभूतिकरैः रते रतिदेव्या रूपस्य लावण्यस्य संपदः समृद्धेरभिभूतिकरैस्तिरस्कारकरैः । ललितैः मनोहरैः । शुभलक्षणैः शुभैर्लक्षणैर्युक्तैः । निजस्य स्वस्य । वपुषः गात्रस्य । अवयवैः परिभूषितया अलङ्कृतया । यया देव्या । भूषणं मण्डनम् । विभवाय संपदे । अभारि अधात् । भृञ् भरणे कर्मणि लुङ् । अतिशयः ||३८|| शशेति । शशलाञ्छने चन्द्रे । अस्तमितवत अस्तमेति स्म अस्तमितवान् तस्मिन् अस्तंगते सत्यपि । स्मितचन्द्रिकोज्ज्वलत रद्युतिना स्मितमीषद्धसनमेव चन्द्रिका ज्योत्स्ना तयोज्ज्वलतरा निर्मलतरा [ द्युतिः ] कान्तिर्यस्य तेन । यदीयमुखचन्द्रमसा यदीयं यस्याः संबन्धं" मुखमेव चन्द्रमाः चन्द्रस्तेन । रूपकम् । जगतीतलं जगत्या भूमेस्तलम् । सरजनीकरतां रजनीकरेण चन्द्रेण सह विद्यमानत्वम् । अगमत् अगच्छत् । गम्लृ गतौ लुङ् । अतिशयः ।। ३९ ।। स इति । गुणाभरणभूषितयोः गुणा एवाभरणानि मण्डनानि ते भूषितयोरलंकृतयो: । अजितंजयाजितसेनयोः । स विबुधः श्रीधरदेवः । सुरलोकभुवः स्वर्गलोकात् । समेत्य आगत्य । भुवनातिशायिकमनीयतनुः भुवने भुवनस्य वातिशायिनी अतिशयकारिणी कमनीया मनोहरा तनुः शरीरं यस्य सः । अजितसेन इनि तनुभूः तनौ भवतीति तनुभूः पुत्रः । अभूत् अभवत् । भू सत्तायां लुङ् ||४०|| जनतेति । शरदोषधीपतिरिव शरद: शरत्कालस्योपधीपतिरिव चन्द्र इव । अमलिनः निर्मलः | 'मलादिमसरच' इति च शब्देन मत्वर्थीय इन-प्रत्ययः । क्षितेः भूमेः । तिलकः मण्डनः । जनतानुरागपरिवृद्धिकरः जनताया जनसमूहस्य रागस्य प्रोतेः परिवृद्धिकरः । सुभगःकृतिः सुभगा मनोहरा आकृतिराकारो यस्य सः । यः कुमारः । प्रयमे आद्ये । वयसि । कलाः चतुःषष्टिकलाः षोडशभागांश्व । ज्योतिषी देवोंकी समस्त देवियोंके निर्माण में ब्रह्माने जो अत्यधिक कुशलता प्राप्त को थी, मानो उसीके प्रदर्शन के लिए उसने अजित सेनाको बनाया ||३७|| उसके शरीरके सभी अवयव सुन्दर और शुभ चिह्नोंसे विभूषित थे और इसीलिए वे रतिकी सौन्दर्य-सम्पत्तिको मात करने वाले थे, फिर भी उस ( अजितसेना ) ने केवल वैभव या लोकमर्यादाके खयालसे आभूषण धारण किये थे ||३८|| चन्द्रमाके अस्त होने पर भी मुसकानकी चाँदनीसे उज्ज्वल कान्ति फैलाकर उसका मुखचन्द्र ही उस ( चन्द्र ) की पूर्ति कर देता था || ३९ || वे दोनों - अजितंजय और अजितसेना गुणों के आभूषणोंसे विभूषित थे गुणी थे । वह श्रीधरदेव ( जिसका वर्णन चौथे सर्गमें कर आये हैं ) सौधर्म स्वर्गसे चयकर उनके यहाँ पुत्र हुआ । उसके शरीरका सौन्दर्य लोकातिशायी था । उसका नाम अजितसेन रखा गया ॥ ४० ॥ ! वह ( अजितसेन ) शरत्कालके चन्द्रमाके समान जनताके अनुरागको बढ़ानेवाला, सुन्दर, निर्मल और पृथ्वीका
-
-
Jain Education International
[ ५, ३८
१. अ आ इ क ख ग घ म 'नास्तिलकः । २. श स शौर्यस्य । आ प्रतौ 'शौर्यस्य' 'कार्यस्य' इति द्वे अपि पदे नोपलभ्येते । ३. = अधारि । ४. आ शशीति । ५. = यत्संबन्धि |
For Private & Personal Use Only
www.jainelibrary.org