________________
- ५, ४३ ]
पञ्चमः सर्गः
गुणनिर्मितैः सुरभिभिः कुमुदैरिव यद्यशोभिरनुरागकरैः । प्रविभासिते जगति शीतरुचेरुदयो जनैरववये विफलः ||४२ || ध्रुवमस्य रूपविभवेन जितस्त्रपया विलीय समभूदतनुः । मदनस्तदीयतनुदाहकरी हरलोचनाचिरिति वर्तमदः ||४३|| नयमिन्द्रलाघवकरो विभवो विभवं च यस्य सहजो विनयः । तमलंचकार परमः प्रशमः प्रशमं पराक्रमगुणो गुणिनः ||४४|| गुणसंपदा सकलमेव जगल्लघयन्तमात्मतनयं तमसौ ।
मुमुदे महीपतिरुदीक्ष्य भृशं शशिनं समग्रकलमब्धिरिव ॥४५॥
उपचिकाय उपचिनोतिस्म ! 'चेर्चा' इति चिञ् चपने इति धातोलिट्. कवर्गादेशः । श्लेषोपमा ॥ ४१ ॥ गुणेति । गुणनिर्मितैः गुणैरीदार्यादिभि निमितैः कृतैः, पक्षे तन्तुभिः कृतैः । सुरभिमिः शुभैः सुगन्धिभिश्व | अनुरागकरैः प्रीतिकरैः । कुसुदैरिव कैरवैरिव । यद्य शोभिः यस्य कुमारस्य यशोभिः कीर्तिभिः । जगति लोके । प्रतिभासिते प्रकाशिते सति । जनैः लोकैः । शीतरुचेः चन्द्रस्य । उदयः उत्पत्तिः । विफलः निष्फलः । इति अवयवे जज्ञे । या प्रायणे कर्मणि लिट् । इष ||४२ || ध्रुवमिति । यस्य कुमारस्य । रूपविभवेन रूपस्य लावण्यस्य विभवेन संपदा । जितः निराकृतः । मदनः स्मरः । त्रपया लज्जया । विलीय विशीर्य । अतनुः तनुरहितः। समभूत् समभवत् । भू सत्तायां लुङ् । ध्रुवं निश्चयं हरलोचनाचिः हरस्य रुद्रस्य लोचनस्य नयनस्याचिज्वला । तदीयतनुदाहकरी इति तदीयायाः मदनसंबन्धायास्तनोः शरीरस्य दाहकरी भस्मकरी इति अदो लोकवचनम् । वातंम् असत्यम् । अपहनुतिः ||४३|| नयमिति । गुणिनः औदार्यादिगुणयुक्तस्य । यस्य कुमारस्य । इन्द्रलाघत्रकरः इन्द्रस्य लाघव करो लघुत्वकरः । विभवः संपत् । नयं नीतिम् । सहजः सहजातः । विनयः विनयगुणः । विभवं संपदम् । परमः महान् । प्रशमः क्षमागुणः । तं पराक्रमगुणम् । विक्रमगुणः प्रशमं क्षमागुणम् । अलंचकार अलंकरोतिस्म ||४४ ॥ गुणेति । असो अयम् । महीपतिः अजितंजयः । गुणसंपदा गुणसंपत्त्या । सकलमेव विश्वमेव । जगत् लोकम् । लघयन्तं लघूकुर्वन्तम् । आत्मतनयम् आत्मनः स्वस्यतनयं नन्दनम् । उदीक्ष्य आलोक्य । समग्रकलं संपूर्णकलावन्तम् । शशिनं चन्द्रम् । अब्धिरिव समुद्र इव ।
मण्डन था । उसने बाल्यकाल में ही सब कलाओं में पूर्णता प्राप्त कर ली थी। जैसे चन्द्रमा शुक्लपक्ष में अपनी कलाओं में पूर्णता पा लेता है ॥ ४१ ॥ जिस प्रकार कुमुद मृणाल तन्तुओंसे रचित, सुगन्धित और सबके अनुरागको उत्पन्न करनेवाला होता है, उसी प्रकार उस राजकुमारका यश उसके गुणोंसे उत्पन्न, मनोज्ञ और प्रजाजनोंके अनुरागको उत्पन्न करने वाला था । उसके यशसे सारे संसारके प्रकाशित हो जानेपर लोगोंने चन्द्रमाके उदयको निरर्थक समझ लिया ॥ ४२ ॥ जान पड़ता है इस राजकुमारके उत्कृष्ट रूप से पराजित होकर कामदेव लज्जावश घुल-घुलकर अनंग हो गया है—अपना शरीर खो बैठा है । 'शिवजीकी नेत्राग्निकी ज्वालासे कामदेवका शरीर भस्म हुआ था यह तो कोरी गप्प है ||४३|| वह बड़ा गुणी था । उसका वैभव इन्द्रसे भी कहीं अधिक था । उसको नीतिको शोभा वैभवसे, वैभवकी सहज विनयसे, विनयको प्रशम क्षमासे और प्रशमकी पराक्रमसे थी ||४४ ॥ गुणोंकी सम्पत्ति से उसने समस्त जगत्को मात कर दिया था । उसे देखकर उसके पिता बहुत प्रसन्न हुए । जैसे पूर्णचन्द्रको देख
१. क ख परमप्रशमः । म परमप्रशमम् । २. श स शौर्यादि । ३. = बुबुधे । ४.
Jain Education International
१२७
For Private & Personal Use Only
=
निश्चयेन |
www.jainelibrary.org