________________
२९]
पञ्चमः सर्गः
भुवनातिगेन यशसा कथितं प्रविधार्य यस्य गुरु धैर्यगुणम् । लव गोदधिर्निजयशोभिभवादिव कालिमानमवहद्वपुषि ॥२७॥ दहनेन येन रिपुवंशततेः सुहृदाननाम्बुजविकासकृता । न जितः परं दिनमणिर्महसा शशलाञ्नोऽपि कमनीयतया ||२८|| गुरुरीश्वरो नरकभिद्धनदः कमलालयः शिशिरगुश्च बुधः । सुगतश्च सन्सकलदेवमयः समपादि यो वसुमतीवलये ॥२९॥
यस्य राज्ञः । निसर्गविनयेन सहज विनयेन । यथा येन । महिमा महत्त्वम् । 'पृथ्वादेवमन्' इति भावे इमन्प्रत्ययः । अजनि अजायत । तथा तेन । श्रियापि संपत्त्यापि । नाजनि । अत्र जगति । विभवः संपत् । निमित्तं कारणम् । न भवति । गुणसंपदेव गुणसंपत्तिरेव । पुरुषम् आत्मानम् । गुरुतां महत्त्वम् । नयते प्रापयति । प्रापणे लट् । अर्थान्तरन्यासः ||२६|| भुवनेति । यस्य राज्ञः । भुवनातिगेन भुवनमतिगच्छतीति भुवनः तिगं तेन । यशसा कीर्त्या । कथितं प्रोक्तम् । रुधैर्यगुणं गुरोर्महतो धैर्यस्य गुणं धैर्यमेव गुणं वा । प्रविधार्य निश्चयित्वा (निश्चित्य ) । लवणोदधिः लवणरूपाण्युदकानि धीयन्तेऽस्मिन्निति तथोक्तः लवणसमुद्रः । विजयशोऽभिभवादिव निजस्य स्वकीयस्य यशसः कीर्तेरभिभवादिव तिरस्करणादिव । वपुषि अवयवे । कालिमानं कृष्णत्वम् । ‘वर्णंदृढादिभ्यः' इति इमन् । अवहत् अवरत् । वहीँ प्रापणे लङ् । उत्प्रेक्षा ॥ २७ ॥ दहनेनेति । रिपुवंशततेः रिपूणां शत्रूणां वंशानामन्वयानां ततेनिकरस्य । दहनेन वह्निना । सुहृदाननाम्बुजविकासकृता सुहृदां मित्राणामाननान्येवाम्बुजानि कमलानि तेषां विकासकृता । रूपकम् । ये । महा तेजसा । परं केवलम् । दिनमणिः सूर्यः । न जितः न जीयते स्म । पुनः । कमनीयतया मनोहरतया । शशलाञ्छनोऽपि चन्द्रोऽपि, जित इत्यर्थः । दीपकम् ||२८|| गुरुरिति । यः राजा । गुरुः " बृहस्पतिः । ईश्वरः द्रव्यपती रुद्रश्च । नरकभित् नरकगतिनामकर्मच्छेदको विष्णुश्च । धनदः धनं प्रदाता कुबेरश्च । कमलालयः कमलाया लक्ष्म्या आलयो निलयो ब्रह्मा च । शिशिरगुः शिशिरा गौर्यस्य शीतलवचन इत्यर्थः,
१०
१२३
उसका यश इस लोक में
औरों के पास भी थी, पर उस जैसी विनय किसी में नहीं थी । वह सज्जन जो था । पुरुषके बड़प्पनमें वैभव उतना कारण नहीं जितनी गुणोंकी सम्पत्ति होती है । पुरुषको गौरव, गुणों से ही मिलता है । गुण-सम्पत्ति ही उसे गौरवकी ओर ले जाती है ||२६|| समा नहीं रहा था । वह (यश) उस (राजा) के महान् धैर्यगुणको व्यक्त कर रहा था । उसके धैर्य समुद्र धैर्यगुण से उत्पन्न हुए यशको भी फीका कर दिया । मानो इसी कारण से लवण समुद्र चारों ओरसे काला पड़ गया ||२७|| शत्रु वंशको जलानेके लिए वह अग्नि था और मित्रोंके मुखकमलको विकसित करनेके लिए सूर्य । यों सूर्य भी बाँसोंको जलाता है और अपने मित्र-कमलों को विकसित करता हैं । अतः वह उस राजा के समान माना जा सकता है, किन्तु राजाने अपने तेजसे उसे जीत लिया था, तथा चन्द्रमाको अपनी सुन्दरतासे ॥ २८ ॥ प्रजाको शिक्षा देनेसे वह उसका गुरु ( बृहस्पति ) था; सब कुछ करने में समर्थ होनेसे ईश्वर (शंकर) था; नरकगति में ले जानेवाले पापोंका भेदन करनेसे नरकभित् ( विष्णु ) था; धन देनेसे धनद ( कुबेर ) था; सम्पन्न होनेसे कमला- लक्ष्मीका निवास स्थान ( कमलालय ब्रह्मा ) था;
१. अ आ इ क ख ग घ म 'कविद्धनदः । २ = येन प्रकारेण । ३. = तेन प्रकारेण | ४. श स अजनि । ५. आ नायते प्रायते । श स नायते । ६. आ णिन् । ७. आ वहि । श स वह | = विकासकारिणा । ९. राज्ञा । १०. श स न जयति स्म । ११. = महान् बृहस्पतिश्च ।
८.
१२. = धनप्रदाता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org