________________
१२२
चन्द्रप्रमचरितम्
अथ तत्र शक्त्युपचयानुगतो नृपशेखरीकृतपदाम्बुरुहः । नयविक्रमार्जितजगजयवानजितंजयोऽजनि नराधिपतिः ।।२३।। बिसतन्तुनिर्मलतमैर्जनतापरितापनोदिभिरतीततुलैः । करणैरिवोडुपतिनात्मगुणैर्धवलीकृता जगति येन दिशः ॥२४॥ मम कः प्रतापमवजेतुमलं जगतीत्युदेति समदः प्रथमम् । प्रविलोक्य धाम पृथु यस्य पुना रविरेति लजित इवास्तमयम् ॥२५॥ महिमा निसर्गविनयेन यथा न तथा श्रियाप्यजनि यस्य सतः ।
न निमित्तमत्र विभवः पुरुषं गुणसंपदेव गुरुतां नयते ।।२६।। अयं महान् । परं केवलम् । अगुणः दोषः । समस्ति वर्तते । भ्रान्तिमान् ॥२२॥ अथेति । अथ अनन्तरम् । तत्र पुर्याम् । शक्त्युपचयानुगतः शक्तीनां प्रभुमन्त्रोत्साहशक्तीनामुपचयं वृद्धि मनुगतः । नृपशेखरीकृतपदाम्बुरुहः नृागां भूपतीनां शेखरीकृतं प्रागशेखरइदानों शे वरः क्रियते स्म तयोक्तं पादावेवाम्बुरुहं तथोक्तं नृपशेखरीकृत पदाम्बुरुहं येन सः । नयविक्रमाजितजगज्जयवान् नयविक्रमाभ्यां नोतिपराक्रमाभ्यामजितः संपादितो जगतां जयस्तथोक्तः, नयविक्रमाजितश्चासो जगज्जयः सोऽस्यास्तीति तथोक्तः । अजितंजय इति । जनाधिपतिः राजा। अजनि अजायत । जनैङ् प्रादुर्भावे लङ ॥२३॥ बिसेति । उडुपतिना चन्द्रेण । बिसतन्तुनिमलतमैः बिसस्य कमलस्य तन्तव इव निर्मलतमैरत्यन्तनिर्मलैः । जनतापरितापनोदिभिः जनताया जनसमूहस्य । 'ग्राम जनबन्धुगजसहायात्तल' इति समूहाथै तल । परितापनोदिभिः संतापहारिभिः । अतीततुलै: अतिक्रान्ततुलाराशिभिः, पक्षे उपमातीतैः । किरणैरिव कान्तिभिरिव । येन अजितं जयेन । आत्मगुणैः स्वकीयगुणैः । जगति लोके । दिशः ककुभः । विमली कृताः प्रागविमला इद.नों विमला: क्रियन्तेस्म तथोक्ताः । 'कर्मकर्तृभ्यां प्रागतत्तत्त्वेच्चिः' इति च्विः । 'चौ चा नव्ययस्य' इति-अकारस्य ईकारः। श्लेषोपमातिशयो ।॥२४॥ ममेति । जगति लोके । मम मे। प्रतापं विक्रमं तेजश्च । अवजेतं जयनाय। कः को वा। अलं समर्थः । इति प्रकारेण । प्रथमं समदः गर्वसहितः । रवि : सूर्यः । उदेति उद्भवति । पुन: पश्चात् । यस्य राज्ञः। पृथ महत् । धाम तेजः । प्रविलोक्य प्रवीध। लज्जित इव अपित इव । अस्तमयम् अस्ताद्रिम् । एति गच्छति । इण गतौ लट् । उत्प्रेक्षा ॥२५।। महिमेति । सतः सत्पुरुषस्य । मुखको कमल समझकर भौंरे उन्हें सताया करते हैं ॥२२॥ यहाँसे, वहाँके राजा अजितंजयका वर्णन प्रारम्भ होता है। उस कोशलापुरीमें अजितंजय नामका राजा राज्य करता था। उत्साह शक्ति, मन्त्रशक्ति और प्रभुशक्ति ये तीनों शक्तियां खूब विकसित होकर उसका अनुगमन करती थीं। सभी राजे-महाराजे मस्तक नवाकर उसे नमन करते थे। उसने नोति और पराक्रमसे सारे जगत्पर 'वजय पा ली थी ॥२३।। जिस प्रकार चन्द्रमा मृणाल तन्तुओंके समान अत्यन्त निर्मल, जनताके सन्तापको मिटानेवाली और तुलाराशिको पार करनेवाली अपनी किरणोंसे संसारकी सभी दिशाओंको उज्ज्वल कर देता है, इसी प्रकार उस राजाने भी मृणालतंतुओंके समान अत्यन्त निर्मल एवं प्रजाजनके सन्तापको मिटानेवाले अपने अनुपम गुणोंसे विश्वके कोने-कोनेको उज्ज्वल कर दिया था ॥२४॥ 'इस संसार में मेरे प्रताप ( तेज, पराक्रम ) को जीत ही कोन सकता है' यह सोचकर जो सूर्य सबेरे सगर्व होकर उदित होता है, वही उस राजाके सर्वत्र फैले हुए प्रबल प्रतापको देखकर मानो लज्जित होकर शामको फिर डूब जाता है ॥२५।। उसको जो महिमा विनयसे थी वह लक्ष्मीसे नहीं थी। लक्ष्मी तो
१. अ आ मयः । २. श स क्रियन्ते स्म । ३. = कमलदण्डस्य तन्तुभिरिव । ४. श स स्वस्तिका. न्तर्गतः पाठो न नोपलभ्यते । ५ = इत्थं विचार्येति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |