________________
५, २१] पञ्चमः सर्गः
१२१ सति मानसेऽप्यकलुषाम्भसि यद्गृहदीर्घिकानिरतहंसकुलैः । न विमुच्यते सततसंनिहितैरिव सुन्दरीगतिशिशिक्षिपया ॥१९॥ अतुलप्रतोलिशिखराग्रगतस्फटिकोपलांशुचयसंवलितः। भजते सहस्रकिरणत्वमुडुप्रकरोऽपि यत्र रजनीसमये ॥२०॥ सुरसुन्दरीसमशरीरलताः प्रविधाय यत्र युवतीर्विधिना । समपादि संकरभियेव भिदा सनिमेपलोचनयुगेन पुनः ।।२१।। त्रिदशाधिवासजिति यत्र सदाप्यगुणः समस्ति परमेष महान् ।
निपतन्मुखे कमलशङ्किमना यदुगद्रवत्यलिगणः सुमुखीः ।।२२।। मुखफेनचयः मुखस्य फेनानां चयरिव । विभान्ति बिरेजुः । भा दप्ती लट् । उत्प्रेक्षा ।।१८।। सतीति । या पुरी। अकलषाम्भसि अलर्ष निर्मलमम्भो यस्मिन तस्मिन । मानसे सरस्यपि सन्दरीगतिशि शशिषयेव सुन्दरीणां नारीणां गतेर्गमनस्य शिशिक्षिषयेव अभ्यासेच्छयेव । सततसंनिहितः सततमनवरतं संनिहितैः। गृहदीपिकानिरतहंसकुलः गृह्दोधिकासु क्रोडासरोवरेषु निरतैस्तत्परैः हंसानां मरालानां कुलः समूहः । न विमुच्यते न त्यज्यते । मुच्लञ् मोक्षणे कर्मणि लट् । उत्प्रेक्षा ।।१९।। अतुलेति । यत्र पुर्याम् । रजनीसमये रात्रिकाले। अतुलप्रतोलिशिखराग्रगतः अतुलायाः प्रमातीतायाः प्रतोल्या गोपुरस्य शिखराणामग्रं गतः । स्फटिकोपलांशु चयसंवलितः स्फटिकोपलानां स्फटिकपाषाणानामंशूनां किरणानां चयेन निवहेन संवलितो मिश्रितः । उडुप्रकरोऽपि उडूनां नक्षत्राणां प्रकरोऽपि समूहोऽपि । सहस्रकिरणत्वं प्रचुरकिरणत्वम् । भजते सेवते । भज सेवायां लट् । सामान्यालङ्कारः ॥२०॥ सुरेति । यत्र पुर्याम् । विधिना कर्मरूपेण । सुरसुन्दरीसमशरीरलताः सुरसुन्दरीणां दिविजस्त्रीणां समा समाना शरीरमेव लता यासां ताः । युवती: नारीः । प्रविधाय
। पुनः पश्चात् । संकरभियेव मिश्रणभयेनेव । सनिमेषलोचनयुगेन सनिमेषयोनिमेष सहितयोर्लोचन योनयनयोर्युगेन । भिदा भेदः । समादि अकारि । पदि गती कर्मणि लुङः ॥२१॥ त्रिदशेति । त्रिदशाधिवासजिति त्रिदशानां देवानामधिवासमावा जयतीति त्रिदशाधिवासजित् तस्मिन् । यत्र पुर्याम् । सदा सर्वदापि । कम शङ्किमना: कमलमिति शङ्कि शङ्कनशीलं मनो यस्य सः । मुखे वदने । निपतन् विनमन् । अलिगणः अलीनां भ्रमराणां गणः । सुमुखीः सु शोभनं मुखं यासां ताः । उपद्रवति बाधते । द्रु गतौ लट् । यत् यस्मात् ।
परिश्रमके कारण गिरे हुए फेन-पुञ्ज हों ॥१८॥ उस नगरीकी दीपिकाओंमें - जो घर-घर बनी हुई हैं - हंस इतने रम गये हैं, कि निर्मल जलवाले मानस सरोवरके पासमें होनेपर भी, वे उसमें नहीं जाते । मानो वे वहाँको स्त्रियों की सुन्दर चाल सोखनेके लिए निरन्तर वहीं रहना चाहते हैं - शिक्षामें व्यवधान न हो, मानो यह सोचकर उस नगरीको ( वर्षा ऋतुमें भी ) नहीं छोड़ना चाहते ॥१६॥ उस नगरीके प्रमुख दरवाजोंके ऊपरी शिखर अनुपम हैं । उनमें स्फटिक मणि जड़े हुए हैं। रात्रिके समय उनकी किरणें नक्षत्र मण्डलके ऊपर पड़ती हैं । फलतः वह ( नक्षत्रमण्डल ) भो हजार किरणोंवाला ( सूर्य ) हो जाता है ॥२०॥ ब्रह्मा ( नाम कर्म ) ने वहाँको युवतियोंको देवांगनाओंके समान सुकुमार और सुन्दर बनाकर, बादमें उनमें खुलने और बन्द होनेवाले ( सनिमेष ) लोचन लगा दिये। मानो इस भयसे कि वे देवांगनाओंमें मिलकर कहीं एक न हो जायें ॥२१॥ यों उस नगरीने अपनी सुषमासे स्वर्गको मात कर दिया है, किन्तु वहाँ यह एक बहुत बड़ा दोष सदा बना ही रहता है कि स्त्रियों के
१. = मानससरोवरे सत्यपि। २. श स मुच। ३. = सूर्यत्वमिति व्यज्यते । ४. = तस्याम् । ५. आ अलिनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org