SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १२० चन्द्रप्रमचरितम् विविधासु धन्यजनहर्म्यततेर्मणिभूमिषु प्रतिमया निपतन् । निशि यत्र कुन्दसदृशः कुसुमप्रकरायते ग्रहगणो निखिलः ॥१५॥ असतीजनं जिगमिj बहुलक्षणदामुखेषु दयितावसथम् । निज एव विघ्नयति यत्र मुहुर्मुखचन्द्रमाः स्मितविभिन्नतमाः ॥१६।। रजनीषु यत्र गुरुहर्म्यशिखागतनीलरत्नरुचिविच्छुरितः। हिमदीधितिर्भवति कृष्णवपुः पुरयोषितामिव मुखैर्विजितः ।।१७।। शिखराणि यत्र परिधेः परितः परिवारितानि शरदभ्रलवैः। रविवाजिनामिव विलङ्घयतां श्रमजैविभान्ति मुखफेनचयैः ।।१८।। पती' । त्रपया लज्जया। नतसुखो विनतानना। नवमुग्धवधूः नवा नूतना मुग्धा अप्रौढा वधूः वनिता। दयितेन पुरुषेण । अपहस्यते परिहास्यते । हसे हसने कर्मणि लट् ॥१४॥ विविधेति । यत्र पुर्याम् । धन्यजनहर्म्यतते: धन्यानां पुण्यवतां जनानां हागा सोधानां ततः पंक्तेः । विविधासु नानाविधासु । मणिभूमिषु रत्नभूमिषु । निशि निशायाम् । 'पदन्-' इत्यादिना निशाशब्दस्य निश् इत्यादेशः । प्रतिमया प्रतिबिम्बेन । निपतन संक्रममाणः । कुन्दसदृशः कुन्दस्य सदृशः । निखिल: सकलः । ग्रहगणः ग्रहाणां नक्षत्राणां गणः समूहः । कुसुमप्रकरायते कुसुम प्रकर इवाचरतीति कुसुमप्रकरायते । उपमा ।।१५।। असतीति । यत्र पुर्याम् । बहुलक्षणदामुखेषु बहुलस्य कृष्णपक्षस्य क्षणदानां रात्रीणां मुखेषु प्रारम्भेषु । दयितावसथं दयितस्योपपतेरावसथमावासम् । जिगमिषु गन्तुमिच्छम् । असतीजनम् असत्येव (असतोनां) जनस्तम्-जारस्त्रोजनम् । स्मितविभिन्नतमाः स्मितेनेषद्धसनेन विभिन्नं निराकृतं तमो यस्य ( येन ) सः । निज एव स्वकीय एव । मुखचन्द्रमाः मुखमेव चन्द्रमाश्चन्द्रः। मुहुः पश्चात् । विघ्नयति प्रत्यूहं करोति । विघ्न इति सुब्धातोः 'णिज्बहुलं कृत्रादिषु' इति णिच् ॥१६॥ रजनीष्विति ! यत्र पुर्याम् । रजनीषु रात्रिषु । गुरुहर्म्यशिखागतनीलरत्नरुचिविच्छरितः गुरूणां महतां हर्याणां सौवानां शिखाः शिखराणि गतानां नीलरत्नानां रुचिभिः कान्तिभिर्विच्छरितो मिश्रितः । हिमदीधितिः चन्द्रः । सामान्यालङ्कारः (तद्गुणालङ्कारः) पुरयोषितां पुरस्त्रीणाम् । मुखैः वदनैः। विजित इव निराकृत इव । कृष्णवपुः कृष्णशरीरः । भवति । उपमा [उत्प्रेक्षा] ॥१७॥ शिखरेति । यत्र पुर्याम् । शरदभ्रलवैः शरदः शरत्कालस्याभ्रस्य मेघस्य लवैः खण्डः । परितः सर्वतः । परिवारितानि व्याप्तानि । परिधेः सालस्य । शिखराणि शृङ्गाणि । विलङ्घयतां लङ्घनं कुर्वताम् । रविवाजिनां सूर्यतुरङ्गाणाम् । श्रमजै: आयासजनितैः । हैं। यह देखकर उनके पति हँसने लगते हैं और वे लज्जित होकर अपना सिर नीचेको ओर झुका लेती हैं ॥१४॥ वहाँ धनिक लोगोंके महलोंमें जो फर्श हैं, उनमें मणि जड़े हुए हैं। रात्रिके समय उनमें ग्रह-नक्षत्र आदि जो दूरसे कुन्द-पुष्प सरीखे जान पड़ते हैं - प्रतिबिम्बित होकर पुष्प-पुञ्ज सरीखे प्रतीत होते हैं ॥१५॥ वहाँ जो अभिसारकाएँ कृष्ण पक्षकी रात्रिके प्रारम्भमें अपने उपतियों (यारों) के घर जाना चाहती हैं, उन्हें उन्हींका मुख-चन्द्र अपनी मुसकानको चाँदनीसे अन्धकार मिटाकर विघ्न डाल देता है ॥१६॥ वहाँके महलोंके ऊपरी भागोंमें नीलरत्न जड़े हुए हैं। रात्रिके समय उनको प्रभासे चन्द्रमा काला पड़ जाता है। मानो उस नगरीकी स्त्रियोंके मुखसे पराजित हो जानेसे वह ऐसा ( काला ) हो गया है ॥१७॥ उस नगरीको चहार दोवारीपर जब चारों ओरसे शरत्कालीन मेघोंके छोटे-छोटे टुकड़े छा जाते हैं, तब ऐसा जान पड़ता है मानो उस ( चहार दीवारी ) को लाँघनेवाले सूर्यके घोड़ोंके मुखसे १. = पातयन्ती। २. श स अजनिष्टेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy