SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ११९ पञ्चमः सर्गः तरुराजयः सकुसुमाः कुसुमं फलवत्फलं मधुरतानुगतम् । नहि तत्र किंचिदपि वस्तु न यजनतामुदं प्रविधात्यथवा ।।११।। अथ कोशलेति भवनत्रितयप्रथितास्ति तत्र विषये नगरी। अलकेव भूरिविभवानुगतैः परिवारिता प्रचुरपुण्यजनैः ।।१२॥ 'तनुकुक्षयोऽप्यतनुधारमपो विसृजन्ति यत्र शरदागमने । अतितुङ्गसौधशिखरावततिप्रविदारितोदरभुवोऽम्बुधराः ॥१३॥ मणिदीपकप्रकटनिवृतये क्षिपती शिखासु निजमाल्यरजः। दयितेन यत्र नवमुग्धवधूरपहस्यते नतमुखी त्रपया ॥१४॥ विदधाति । तनू ञ् विस्तारे लट् । उपमा ॥१०॥ तरुराजय इति । तत्र देशे। तरुराजयः तरूणां वृक्षाणां राजयः श्रेणयः । सकुसुमाः कुसुमसहिताः । कुसुमं पुष्पम् । फलवत् फलयुक्तम् । फलं मधुरतां मधुरत्वम् । अनुगतं स्वीकृतम् ( प्रप्तम् ) । यत् वस्तु । जनतामुदं जनतायाः जनसमूहस्य मुदं संतोषम् । न प्रविदधाति न करोति । अथवा तद्वस्तु किञ्चिदपि नहि नास्ति। तस्मिन देशे सर्व वस्तू सर्वजनानां संतोषप्रदमेव, प्रमोदप्रद ( त्व) रहितं नास्तीत्यभिप्रायः । एकावलिः ॥११॥ अथेति । अथ अनन्तरम् तत्र विषये अलकाविषये । भूरिविभवानुगतैः भूरि बहुलंविभवमैश्वर्यमनुगतैः । प्रचुरपुण्यजनैः प्रचुरैर्बहुभिः पुण्यजनैर्यक्षैश्च पुण्योपलक्षितजनैश्च । परिवारिता संकीर्णा । अलकेव कुबेरपुरमिव । कोशलेति । भुवनत्रितयप्रथिता भुवनानां लोकानां त्रितयं तस्मिन् प्रथिता प्रसिद्धा । नगरो पुरी। अस्ति वर्तते। अस भुवि लट् । श्लेषोपमा ।१२।। तन्विति । यत्र कोशलायाम् । शरदागमने शरदः शरत्कालस्यागमने । अतितुङ्गसौधशिखरावततिप्रविदारितोदरभुवः अतितुङ्गानामत्युन्नतानां सौधानां हाणां शिखराणां शृङ्गाणामवतत्या समूहेन प्रविदारिता विभिन्ना भूःप्रदेशो येषां ते । अम्बुधराः मेघाः । तनुकुक्षयः तनुः कृशः कुक्षिर्येषां ते। अतनुधारम् अतन्वी महती धारा प्रवाहो यथा तथा। अप: जलानि । विसजन्ति वर्षन्ति । सज विसर्जने लट् । अतिशयः ॥१३।। मणीति । यत्र कोशलायाम् । मणिदीपकप्रकर निवृतये मणीनां रत्नानां दीपकानां प्रकरं निवहं' निवृतये विनाशाय । शिखासु ज्वालासु । निजमाल्यरजः निजायाः स्वकीयाया माल्यस्य रजो रेणम्। क्षिपती निक्षिनेत्रोंको आनन्द देने वाला है ॥१०॥ वहाँ बाग-बगीचे बहुत हैं। उनमें पंक्तिके अनुसार वृक्ष लगाये गये हैं। उनमें फूल लगे हुए हैं, फूलोंमें फल लगे हुए हैं और फलोंमें मधुरता भरी हुई है । वहाँ ऐसी कोई भी वस्तु नहीं जो जनताको आनन्दजनक न हो ॥११॥ यहाँ तक 'अलका' देशका वर्णन हुआ, अब यहाँसे उसकी 'कोशला' नगरीका वर्णन प्रारम्भ होता है। उस देशमें कोशला नामको एक नगरी है। उसका नाम तीनों लोकोंमें प्रसिद्ध है । वह कुबेरकी अलका पुरीके समान है। जिस प्रकार अलका पुरीमें वैभवशाली पुण्यजन-यक्ष निवास करते हैं, उसी प्रकार कोशला नगरीमें वैभवशाली पुण्यजन-सज्जन निवास करते हैं ॥१२॥ बरसातमें मेघ सजल होनेसे तुन्दिल हो जाते हैं और शरद् ऋतुमें निर्जल होनेसे वे तुन्दिल नहीं रहते, किन्तु उस नगरीके महलोंके शिखरोंसे आहत होकर वे शरद् ऋतु में क्षीणकोष होकर भी अपने मध्यभागसे मूसलाधार जल बरसा देते हैं ॥१३॥ वहाँ प्रथम मिलनको वेलामें भोली-भाली नव-वधुएं मणि-दीपोंको बुझानेके लिए उनके ऊपर अपनी मालासे पराग निकालकर फेंक देती १. अ आ इ त्रितये। २. अ परितश्चरत्प्रव। ३. अ स्वतनक्षये। ४. इक ख ग घ मरवहस्यते । ५. आ सुकुसु। ६. आ श स न विदधाति । ७. = 'कोशला' इति नामवती। ८. श स धरभुवः । ९. = उदरभू मध्यप्रदेशः । १०. = मणिदीपकानाम् । ११. = प्रकरो निवहः, तस्य । १२.= निजमाल्यस्य स्वमालाया रजो रेणुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy