________________
११४
[१,७१
चन्द्रप्रमचरितम् गवाक्षनिक्षिप्तमुखारविन्दाः पौराङ्गनास्तं नयनाभिरामम् । संभूय नेत्राञ्जलिभिः पिबन्त्यो न सस्मरुः स्वं श्लथनीविबन्धम् ।।७४।। समधिकनवयौवनोदयश्रीविदधदधः शशिनं शरीरकान्त्या । स नृपतिरविशत्पुरं पुरान्तर्गतवनिताहृदयं च पञ्चबाणः ॥७५।। सह शशिसमकान्त्या शीलसौभाग्यवत्या 'विधृतविमलमूर्त्या कामशक्त्येव देव्या । रतिसुखमसमानं मानयन्स्वैर्विलासैरकृत निकृतशत्रस्तत्र राज्यं स भूपः ॥७६॥
॥७३॥ गवाक्षेति । गवाक्षनिक्षिप्तमुखारविन्दाः गवाक्षेषु वातायनेषु निक्षिप्तानि मुख्यान्येव वदनान्येवारविन्दानि यासां ताः। पोराङ्गना:२ पुरे विद्य नाना अङ्गनाः तथोक्ताः। संभूय संमिलित्वा । नयनाभिरामं नयनानां लोचनानामभिरामं मनोहरम् । तं भूपम् । नेत्रामलिभिः । नेत्राण्येव नयनान्येवाञ्जलयस्तैः । पिबन्त्यः पानं कुर्वन्त्यः । स्वं स्वकीयम् । श्लथनीविबन्धं श्लथं विश्लिष्टं नीविबन्धम् ( वस्त्रग्रन्थिम् )। न सस्मरुः न स्मरन्ति स्म । ध्यै स्मृचिन्तायां लिट । रूपकम् ।।७४।। समेति । समधिकनवयौवनोदयश्री: समधिका नवस्य यौवनस्योदयस्य श्रीः शोभा यस्य सः । शरीरकान्त्या ग!त्रस्य शोभया। शशिनं चन्द्रम् । अधः तिरस्कारं विदधत् कुर्वन् ( अधोविदधत् तिरस्कुर्वन् )। सः नृपतिः श्रीवर्मभूपः । पुरं श्री पुरम् । पञ्चबाणः काम इव । पुरान्तर्गतवनिताहृदयं च पुरस्य पत्तनस्यान्तर्गतानां वनितानां कान्तानां हृदयं मानसं च । अविशत् प्राविशत् । विश् प्रवेशने लङ् । उपमा तुल्ययोगिता ॥७५।। सहेति । शशिसमकान्त्या शशिनश्चन्द्रस्य समा समाना कान्तिः शोभा यस्यास्तया। शोलसौभाग्यवत्या शीलसौभाग्याभ्यां युक्तया । विधृतविमलमूर्त्या विधृता भृता विमला निर्मला मूर्तिर्यस्याः (यया) तया। कामशत्स्येव मन्मथशत्क्येव । देव्या महिष्या प्रभावतीनामधेयया। असमानं समान [ता ] रहितम् । रतिसुखं कामसुखम् । स्वैः स्वकीयैः । विलासैः विनोदैः । मानयन् अनुभवन् । निकृतशत्रुः निकृता निराकृताः शत्रवो येन सः । स भूपः श्रीवर्मनृपतिः
हो रहा था, मानो वह भी उस ( श्रीवर्मा) को देखनेके लिए उत्कण्ठित हो ॥७३॥ श्रीवर्मा इसके पश्चात् कुछ और आगे बढ़ा। उसे देखने के लिए श्रीपुरकी स्त्रियाँ सम्मिलित होकर अपने-अपने मकानोंकी खिड़कियों में अपने-अपने मुख कमलोंको लगाकर खड़ी हो गयीं। वे अपनी-अपनी नेत्र रूपी अंजलियोंसे अत्यन्त सुन्दर उस ( श्रीवर्मा ) को पीने (प्रेम पूर्वक देखने) में इतनी तल्लीन हो गयीं कि उन्हें अपने ढीले नाड़े या धोतीको गाँठको बाँधनेका कोई खयाल ही नहीं रहा ॥७४॥ श्रीवर्माके ऊपर नवयौवनकी पूर्ण सुषमा व्याप्त थी। उसने अपने शरीरकी कान्तिसे चन्द्रमाको तिरस्कृत कर दिया था। उसने ज्यों ही श्रीपुर में प्रवेश किया, त्यों ही कामदेवने वहाँकी स्त्रियोंके हृदयमें प्रवेश किया ॥७५॥ श्रीवर्मा अपने सभी शत्रुओंको जीत
तः निश्चिन्त होकर अपनी रानी प्रभावतीके साथ - जिसकी कान्ति चन्द्रमाके समान थी; जो शील और सौभाग्यसे सम्पन्न थी और जो कामदेव की निर्मल मूर्तिको धारण करके आयी हुई साक्षात् शक्ति थी - नाना दिलासोंके साथ अनुपम सम्भोग-सुख भोगते हुए
चक
१. अ विवृत । २. आ श स पुराङ्गनाः । ३. श स संमेल्य । ४. भा विक्लिष्टं । ५. आ °दयश्रीः । ६. भा प्रविशति स्म । ७. आ श्रीवर्मशोभा। ८. = अनुपममित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org