________________
-१,७८]
चतुर्थः सर्गः दृष्टा कदाचिदथ शारदमभ्रवृन्दमुत्पत्त्यनन्तरविनाशि विनाशितारिः। निर्वेदमाप सहसा स भवस्थितिज्ञः सन्तः प्रयान्ति विषयेषु हि नातिसक्तिम् ॥७७।। श्रीकान्ताय समप्य राज्यमखिलं नत्वा मुनि श्रीप्रभं प्रव्रज्य प्रशमानुरक्तहृदयस्तप्त्वा तपो दुश्चरम्। सौधर्मे परमोदयः प्रमुदितो द्वयब्धिप्रमायुःस्थितिदेवः श्रीधर इत्यभूत्स विबुधस्त्रीनेत्रनित्योत्सवः ।।८।।
॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये चतुर्थः सर्गः ॥४॥ तत्र श्रोपुरे । राज्यम् अकृत अकुरुत । डुकृञ्' करणे लुङ् । उपमा ॥७६॥ दृष्लेति । विनाशितारिः विनाशिता विहता अरयः शत्रवो येन सः। स: श्रीवर्मभूपः । अथ भोगानुभवानन्तरम् । कद चित् एकदा। उत्पत्त्यनन्तरविनाशि उत्पत्तेरनन्तरमुत्तरसमये विनाशि नाशि । शारदं शरत्कालसंबन्धम् । अभ्रवृन्दम् अभ्राणां मेघानां वृन्दं निवहम् । दृष्ट्वा । भवस्थितिज्ञः भवस्य संसारस्य स्थितिज्ञः स्थिति जानन् । सहसा शीघ्रण (शोघ्रम्)। निर्वेदं विरागम् । आप ययो । आप्लु व्याप्ती लिट् । तथा हि-सन्त. सत्पुरुषाः । विषयेषु पञ्चेन्द्रियविषयेषु । अतिसक्तिम् अतिप्रीतिम् । न प्रयान्ति हि न गच्छन्ति हि । अर्थान्तरन्यासः ।।७७।। श्रीति । सः श्रीवर्मभूपः । श्रीकान्ताय श्रीकान्ताभिधानसुताय । अखिलं निखिलम् । राज्यं समर्प्य दत्वा । श्रोप्रभं श्रोप्रभाख्यम् । मुनि मुनीन्द्रम् । नत्वा नमस्कृत्य । प्रवृज्य तपः स्वीकृत्य । प्रशमानुरक्तहृदयः सन् प्रशमेन रागद्वेषोपशम हृदयं यस्य स: । दुश्चरम् आचरितुमशक्यम् । तपः बाह्याभ्यन्तररूपम् । तप्त्वा । सौधर्मे प्रथमस्वर्गे। परमोदयप्रमदित: परमेणोत्कृष्टेनोदयेनैश्वर्येण प्रमदितः संतुष्टः । द्वयब्धिप्रमायुःस्थितिः द्वौ अब्धी प्रमाणं यस्याः सा चायुष्यस्य [चायुषः] स्थितिर्यस्य सः । विबुधस्त्रीने त्रनित्योत्सवः विबुधस्त्रीणां देवस्त्रीणां नेत्राणां नयनानां नित्योत्सवः । श्रोधर इति देवः सुरः । अभूत् अभवत् । भू सत्तायां लुङ ।।७८।। इति वीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये तयाख्याने च
विद्वन्मनोवल्लभाख्ये चतुर्थः सर्गः ।।४।। राज्य करने लगे ॥७६। इसके पश्चात् शत्रु-विजेता श्रीवर्माने किसी समय शरत्कालीन मेघ देखा, जो उत्पन्न होते ही नष्ट हो गया। उसके देखते ही उसने संसारको स्थिति जान ली कि संसार शरत्कालीन मेघके समान क्षणभंगुर है। फलतः उसे वैराग्य हो गया। सच है अच्छे मनुष्य पञ्चेन्द्रियके विषयों में अधिक आसक्त नहीं होते ॥७७। इसके पश्चात उसने अपना सारा राज्य अपने पुत्र श्रीकान्तको सौंप दिया और श्रीप्रभ नामके मुनिराजको नमस्कारकर उनसे जिन दीक्षा ले ली। दीक्षा लेनेके बाद उसका मन केवल राग-द्वेष आदिको शान्त करने में लग गया। रागादिको जीतकर उसने घोर तपश्चरण किया। फलतः वह सौधर्म स्वर्गमें श्रीधर नामका देव हुआ। वहाँ उसका ऐश्वर्य अन्य देवोंसे कहीं अच्छा था। उसकी आयु दो सागर प्रमाण थी। देवांगनाएं उसकी सेवामें उपस्थित रहती थीं । उसे देखकर देवांगनाओंके नेत्रोंको बड़ा आनन्द होता था। उनके साथ वह आनन्दस रहन लग
॥७८|| इस प्रकार महाकवि वोरनन्दी विरचित उदयांक चन्द्रप्रम
चरित महाकाव्यमें चौथा सगं समाप्त हआ ॥४॥
१. श स कृञ् । २. = अवलोक्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org