________________
-१, ६९].
चतुर्थः सर्गः मनोहरैः संहतकच्छवाटेबहिर्भुयां श्यामरुचः प्रदेशान् । विलोकयनराजगजाधिरूढः स गोपुरस्याभिमुखो बभूव ॥७॥ भरक्षमदमारुहमूलबद्धस्कन्धान्मदान्धानलिशोभिकुम्भान् । व्यलोकतासौ धुनतः शिरोधोन्कृतप्रणामानिव वारणेन्द्रान् ।।७।। कलं नदन्ती परिखातटेषु निषेदुषी शङ्खसिता समन्तात् । हंसावलिस्तस्य जहार चित्तं सहैव गत्या गमनोत्सुकस्य ।।७२।। स खातिकायाः पयसो विनियंत्कुतूहलेनेव विलोकनस्य ।
ददर्श पाठीनकुलं समन्तात्सरोजजैः पिञ्जरितं रजोभिः ।।७३।। निर्जग्मुः । इण गतौ लिट् । श्लेषोपमा ॥६९।। मनोहरैरिति । बहिर्भुवां २बाह्यभूमीनाम् । मनोहरैः सुन्दरैः । संहतकच्छवाटैः संहतैः कच्छवाटैः शाकवाटैः । श्यामरुच: श्यामा हरिद् रुक्कान्तिर्येषां तान् । प्रदेशान् । विलोकयन् पश्यन् । राजगजाधिरूढः राजगजं गन्धहस्तिनमारूढः। सः श्रीवर्मभूपः । गोपुरस्य बहिर्द्वारस्य । अभिमुखः संमुखः । बभूव भवतिस्म । भू सत्तायां लिट् । सामान्यालङ्कारः । ७०। भरेति । भरक्षमक्ष्मारुहमूलबद्धस्कन्धान् भरस्य भारस्य क्षमस्य' मारहाणां मूलेषु बुध्नेषु बद्धाः स्कन्धा येषां तान् । मदान्धान मदेनान्धान्। अलिशोभिकुम्भान् अलिभिभ्रंमरैः शोभिनो मनोहराः कुम्भा येषां तान्। शिरोधीन् कन्धरान् (?) । 'शिरोधिः कन्धरेत्यपि' इत्यमरः । धुनतः कम्पमानान् (कम्पयमानान् ) कृतप्रणामानिव कृतनमस्कारानिव । वारणेन्द्रान् गजेन्द्रान् । असौ भूपः । व्यलोकत अपश्यत् । लोकृञ् दर्शने लङ् ।।७१।। कलमिति । परिखातटेषु खातिकातीरेषु । समन्तात सर्वतः । निषेदुषी स्थितवती। कलं मनोहरम् । नदन्ती ध्वनन्ती । शत-प्रत्ययः । शङ्खसिता शङ्ख इव सिता शुभ्रा। हंसावलि: हंसानां हंस रक्षिणामावलिः५ समूहः। आगमनोत्सुकस्य आगमने उत्सुकस्योद्युक्तस्य तस्य श्रीवर्मभूपस्य । गत्या गमनेन । सहैव चित्तं मानसम् । जहार हरति स्म । उपमा [ सहोक्तिः ] ॥७२॥ स इति । सः श्रीवर्मभूमः । विलोकनस्य दर्शनस्य । कुतूहलेनेव कौतुकेनेव । खातिकायाः परिखायाः । पयपः जलात् । विनिर्यत् विनिर्गच्छत् । सरोजे कमले जायन्त इति सरोजजानि तैः । रजोभिः धूलिभिः। समन्तात् परितः । पिजरितं सुवर्णवर्णम् । पाठीनकुलं पाठोनानां मानीनां कुलं समूहम् । 'मोन पाठोन एव च' इत्यभिधानात् । ददर्श व्यलोकत । दृश प्रेक्षणे लिट् । उपमा [ उत्प्रेक्षा ] लिए अपने-अपने हाथोंमें अर्घ सामग्री लेकर घरोंसे निकल पड़े ॥६९॥ श्रीपुरके बाहर पासपासमें अनेक कछबाड़े थे। उनमें शाक-भाजी लगी हुई थी। उनके कारण सभी ओरकी भूमि हरी-भरी दृष्टिगोचर हो रही थी। श्रीवर्मा गजराजपर आरूढ होकर उसे देखते हुए पुरद्वारकी
ओर चले जा रहे थे ॥७०॥ कुछ आगे जाकर श्रीवर्माने उन हाथियोंको देखा, जिनके गलेकी सांकलें बहुत मजबूत पेड़ोंके तनोंसे बंधी हुई थीं; जो मदान्ध थे; जिनके गण्डस्थलोंपर भौंरे बैठे हुए थे और जो गर्दन हिला रहे थे। उन्हें देखकर श्रीवर्माको लगा कि वे उसे नमस्कार कर रहे हैं ॥७१॥ इनके बाद श्रीवर्माने खाईके किनारोंपर मनोहर शब्द करनेवाली, सभी ओर बैठी हुई, शङ्खकी भाँति सफेद हंस-पंक्ति देखी। वह आगे जानेको उत्सुक था, किन्तु उसके मन और गमन दोनोंको एक ही साथ उस ( हंस-पंक्ति ) ने हर लिया ॥७२॥ उस समय श्रीवर्माने पद्म-परागसे रंगकर सुनहले रंगका प्रतीत होने वाला एक मछलियोंका झुण्ड देखो । वह खाईके जलको सतहसे कुछ ऊपर उछल रहा था। अतः ऐसा प्रतीत
१. भ सदैव । २. श स बाह्य भुवाम् । ३. = भरे भारवहने क्षमाणां । ४. आ प्रतो केवलं, 'गजेन्द्रान्' इति समुपलभ्यते । ५. = पंक्तिः । ६. साकमेव । ७. श स व्यलोकयत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org