________________
चतुर्थः सर्गः
या तेन मुक्ता रविणेव साभूदङ्गारिणी शत्रुचिताभिराशा । प्रधूमितायां च चकाङ्क्ष यातुं पलायमानारिचमूरजोभिः ॥ ६४॥ कल्लोलहस्तैः स्फुरदंशुजालं मुक्ताफलौघं विकिरंस्तटेषु । वेलावनप्राप्तबलस्य तस्य भयादिवादात्करमर्णवोऽपि ॥ ६५||
पेषु दुर्गेष्वथ मण्डलेषु विदितु दिक्षु प्रतिकूलिताज्ञः । न कोऽपि तस्याजनि पुण्यराशेदैवेऽनुकूले किमु नानुकूलम् ||६६ ||
४, ६६ ]
भूपतिः । तुष्टिदानैः तुष्टेः सन्तोषकरस्य दनैः । संभावयामास सत्करोति स्म । भू कृपावकल्पने लिट् । प्रभूणां स्वामिनाम् । चेतः चित्तम् । नोचितज्ञं नहि अनुचितज्ञं नहि (उचितज्ञं नहि, इति न ) अपि तु उचितज्ञमेव ॥ ६३॥ येति । रविणेव सूर्येणेव । तेन श्रीवर्मभूपेन । मुक्ता त्यक्ता । या आशा दिक् । सा शत्रुचिताभिः शत्रुशवानां चिताभिः दाहकाष्ठैः । अङ्गारिणी हसतो, पक्षे सूर्यत्यक्ता । 'अङ्गारिणी हसन्त्यां च भास्कररत्यक्तदिश्यपि ' अभूत् अभवत् । सः भूपः । यां दिशम् । यातुं गन्तुम् । चकांक्ष ववाञ्छ | कांक्ष कांक्षायां लिट् । पलायमानारिचमूरजोभिः पलायमानानां धावतामरीणां शत्रूणां चमूनां सेनानां रजोभी रेणुभिः प्रधूमिता क्लेशिता, पक्षे सूर्येण गन्तव्या । प्रदूषिता [ प्रधूमिता ] क्लेशितायां सूर्यगन्तव्यदिश्यपि ।' अभूत् । श्लेषः ।।६४।। कल्लोलेति । अर्णवोऽपि सागरोऽपि । कल्लोलहस्तैः । कल्लोलास्तरङ्गा एव हस्ता पाणयस्तैः । रूपकम् । स्फुरदंशुजालं स्फुरत् प्रज्वलद् अंशूनां किरणानां जालं यस्य तम् । मुक्ताफलौघं मुक्ताफलानां मौक्तिकानामोघं समूहम् । तटेषु तीरेषु । विकिरन् विक्षिपन् । वेलावनप्राप्तबलस्य वेलायास्तटस्य वनमरण्यं प्राप्तं यातं बलं सैन्यं यस्य तस्य । [तस्य] भूपस्य भयादिव भीतेरिव । करं सिद्धायम् । आदात् आयच्छत् । डुदाञ् दाने लुङ् । उत्प्रेक्षा ॥ ६५ ॥ द्वीपेष्विति । पुण्यराशेः पुण्यानां सुकृतानां राशेरिव । तस्य श्रीवर्मणः । द्वीपेषु अन्तद्वषु । दुर्गेषु जलदुर्गवनदुर्गगिरिदुर्गेषु । अथ अनन्तरम् । मण्डलेषु देशेषु । विदिक्षु दिगन्तरेषु । दिक्षु आशासु । कोऽपि कोपि । प्रतिकूलिताज्ञः प्रतिकूलं गता आज्ञा यस्य सः । न अजनि नाजायत । जनैङ् प्रादुर्भावे लुङ् । अनुकूले अनुकूल रूपे । दैवे पुण्ये | नानुकूलम् अनुकूल (ता) रहितम् । किमु न किमतीत्यर्थः । अर्थान्तरन्यासः || ६६ ॥
११३
राजाओं का हृदय उचित व्यवहारको नहीं जानता, यह बात नहीं है- राजा उचित व्यवहार
खूब जानते हैं ||६३ || श्रीवर्मा सूर्य सरीखा था । सूर्य जिस दिशाको छोड़ता है वह अंगारिणी कहलाती है और वह जिस दिशा में जाता है वह प्रधूमिता । इसी प्रकार वह जिस दिशासे चला आता था वह शत्रुओं की चिताओंसे अंगारिणी - अंगारवाली हो जाती थी और जिस दिशा की ओर प्रस्थान करता था वह भागती हुई शत्रुसेनाओंकी धूलिसे प्रधूमिता - मलिनवर्णा हो जाती थी ॥ ६४ ॥ दिग्विजय करते-करते श्रीवर्मा समुद्रके तटपर जा पहुँचा । उसने अपनी सेना समुद्र तटके आस-पास के वनों में ठहरा दी । इस अवसर पर समुद्रको तरंगों, तरंगों क्या, उसके बाहुओंसे चमचमाते हुए मोती श्रीवर्मा की ओरके किनारे पर आ रहे थे, अतः ऐसा जान पड़ता था मानो समुद्र भी भयभीत होकर उसे टैक्स दे रहा हो || ६५|| श्रीवर्मा साक्षात् पुण्यकी राशि था वह जिन द्वीपों, अन्तर्द्वीपों, जलदुर्गों, वनदुर्गों, पहाड़ी दुर्गों, देशों, दिशाओं और विदिशाओं में पहुँचा, वहाँ कोई भी मनुष्य उसकी आज्ञाका उल्लंघन नहीं कर सका । दैवके
१. म° दिवारात् । २. श स कृपो । ३. आ प्रतावेत्र 'सागरोऽपि' इति दृश्यते । ४. श स अदात्
अयच्छत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org