________________
११०
चन्द्रप्रभचरितम्
गतावलेपैः प्रविशद्भिरेत्य दत्ताभयैर्मण्डलिनां समूहैः । दिने दिने तत्कटकः समन्तादवर्धताम्भोधिजिगीषयेव ॥ ६० ॥ गण्डस्थलामोदहृतद्विरेफैर्मदाम्बुविक्लेदितभूर जोभिः । तत्तोरणद्वारमभूदुदारैर्न जातुचिच्छ्रन्यमुपायनेभैः ॥ ६१॥ गजेन्द्रदन्तैश्चमरीकचौघैर्मृगेन्द्रशावैरपि पञ्जरस्थैः । तं पार्वतीयाः समुपेत्य भीताः सिषेविरे सेवकवृत्त्यभिज्ञाः ॥६२॥ वस्तूपदी कृत्य विचित्ररूपं द्वीपोद्भवं द्वीपपतीनुपेतान् । संभावयामास स तुष्टिदानैश्चेतः प्रभूणां नहि नोचितज्ञम् ||६३||
दषु अनाथेषु । कृपा दया । युवतैत्र योग्यैव | अर्थान्तरन्यासः || ५९ ॥ | गतेति । गतावलेपैः गतोऽपहृतो लेपो येषां तैः । दत्ताभयैः दत्तमभयं येषां ( येभ्यः ) तैः । मण्डलिनाम् अरातिभूपानाम् । समूहैः । एत्य आगत्य । प्रविशद्भिः अन्तर्गच्छद्भिः । दिने दिने दिवसे दिवसे । वीप्सायां द्विः । तत्वटकं तस्य श्रीवर्मण: कटकं शिबिरम् । अम्भोधिजिगीषयेत्र अम्भोवि समुद्रं जिगीषयेव जेतुमिच्छयेव । समन्तात् सर्वतः । अवर्द्धत ऐधत । वृधूञ् वर्धने लङ् । उपमा ( उत्प्रेक्षा ) ।। ६० ।। गण्डेति । गण्डस्थलामोदहृतद्विरेफै: गण्डस्थलस्य कपोलप्रदेशस्यामोदेन परिमलेन हृता आकृष्टा द्विरेका भ्रमरा येषां (यैः ) तैः । मदाम्बुविक्लेदित भूरजोभिः मदाम्बुना मदजलेन क्ले [विक्ले ]दितानि भुवो भूमे रजांसि येषा (यैः) तैः । उदारैः महद्भिः । उपायनेभैः उपायनार्थमानीतैरिभैर्गजैः । तत्तोरणद्वारं तस्य भूरस्य तोरणद्वारं बहिर्द्वारम् । जातुचित् कदाचिदपि । शून्यं रिक्तम् । नाभूत् नाभवत् । ६१ ।। गजेन्द्रेति । भीताः बिभ्यति स्म भीताः । सेवकवृत्त्यभिज्ञाः सेवकानां भृत्यानां वृत्ती वर्तनेऽभिज्ञाः प्रवीणाः । पर्वतीयाः पर्वते भवाः पर्वतीयाः, व्याधा इत्यर्थः । तं श्रीवर्मभूपम् । गजेन्द्रदन्तैः गजेन्द्राणां दन्तैः । चमरीकच चमरीणां चमरीमृगणां कचानां केशानामोघैः समूहैः । पञ्जरस्थैः पञ्जरे तिष्ठन्तीति पञ्जरस्थाः तैः । मृगेन्द्रश वै: मृगेन्द्राणां शावैः पोतैरपि । समुपेत्य आगत्य । सिषेविरे सेवन्ते स्म । सेवृङ् सेवने लिट् || ६२ || वस्त्विति । द्वीपोद्भवं द्वीपे उद्भवमुत्पन्नम् । विचित्ररूपम् आश्चर्यरूपयुक्तम् । वस्तु । उपदीकृत्य उपायनीकृत्य । उपेतान् समोपमागतान् । द्वोपपतीन् अन्तराधिपान् । सः
[ ४, ६०
किया । महान् पुरुषों को अनाथों पर दया करना उचित ही है || ५९ || श्रीवर्मा विजयके इन समाचारोंको सुनकर, माण्डलीक राजाओंका वर्ग अहंकार छोड़कर उसकी सेवामें उपस्थित हुआ। श्रीवर्माने उन्हें अभय प्रदान किया और उन्हें अपनी सेना में प्रविष्ट कर लिया । इससे उसकी सेना सभी ओरसे बढ़ गयी । मानो वह अपने विस्तारसे समुद्रको जीतना चाहती हो ॥ ०॥ इसके पश्चात् श्रीवर्मा मार्ग में जहाँ भी पड़ाव डालता था, अनेक राजे-महाराजे उसके लिए उपहार में बड़े-बड़े हाथी भेजते थे, जो अपने गण्डस्थलोंके मदजलकी सुगन्धिसे भौरोंको अपनी ओर खींचते थे, और जो मदजलसे पृथिवीकी धूलिको गीला कर देते थे । उन हाथियोंसे उसका बाहरी दरवाजा कभी खाली नहीं रहता था || ६१ || सेवा करने में चतुर पहाड़ी लोग श्रीवर्मा के पराक्रमके समाचार सुनकर भयभीत हो गये, अतः वे हाथी दाँत, चमरी गायों के बाल और कटघरों में बन्द सिंहोंके बच्चों को लेकर उसकी सेवा में उपस्थित हुए । उन्होंने उसकी खूब सेवा की || ६२ ॥ द्वीपों के अधिपति अपने-अपने द्वीपोंकी विलक्षण वस्तुओं को उपहार में देनेके लिए श्रीवर्मासे मिले । उसने उन्हें सन्तोषजनक प्रत्युपहार देकर सम्मानित किया ।
१. अ आ इ क ख ग घ म 'चिच्छिन्न' । २ अ आ इ स वृष्टि । क ख ग घ म सुदृष्टिदानैः । ३. आ कपाल । ४ श स विक्रीवित । ५. श स विक्लीवितानि । ६. श स सेवृ । ७. = अद्भुतमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org