SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः पत्त्रं धनं धान्यमशेषरत्नान्युपायनीकृत्य निरस्तदाः । हिमतुवृक्षा इव शातिताङ्गाः स्वजीवितान्येव ररचरन्ये ।।५७।। बद्धाञ्जलीन्खण्डितमातङ्गान्गृहीतसारानथ तान्विधाय । न्ययुङ्क्त स स्वेषु पदेषु भूपः सतां हि कोपो नमनावसानः ॥५८।। निपातितानां रणमूर्त्यरीणामुपेयुषः कण्ठकुठारवृत्त्या। सोऽन्वग्रहोदामनास्तनूजान्युक्तैव दीनेषु कृपोन्नतानाम् ॥५६॥ सन्नह्य सज्जीकृत्य । तदीयशस्त्राग्निशिखावलोषु तदीयस्य तस्य संबन्धस्य ( तत्संबन्धिनः ) शस्त्रस्यायुधस्याग्नेः शिखानां ज्वालानामावलोषु समूहेषु । अभ्येत्य पतित्वा। पतङ्गवृत्ति पतङ्गस्य शलभस्य वृत्ति वर्तनम् । प्रपेदिरे ययुः । पदि गती लिट् ॥५६॥ पत्रमिति । निरस्तदः निरस्तो निराकृतो दो गर्यो यस्ते ( येषां ते )। अन्ये केचित् । पत्रं वाहनं, पक्षे पर्णम् । 'पत्रं वाहनपर्णयोः' इत्यमरः । धनं द्रव्यम् । धान्यम् । अशेषरत्नानि समस्तरत्नानि । उपायनीकृत्य उपग्राह्यं कृत्वा । हिमतुवृक्षा इव हेमन्तकालस्य वृक्षा इव तरव इव । शातिताङ्गा कृती [शो-]कृतशरीरा. । स्वजो वितान्येव स्वजीवनान्येव । ररक्षुः पालयामासुः । रक्ष पालने लिट् ॥५७।। बद्धेति । सः भूपः। अथ अनन्तरम् । बद्धाञ्जलीन रचिताञ्जलीन् । खण्डितमानशृङ्गान् खण्डितं मान एव शृङ्गं येषां तान् । गृहीतसारान् स्वीकृतवस्तून् । तान् । शत्रून् । विधाय कृत्वा । स्वेषु स्वकीयेषु । पदेषु स्थानेषु । न्ययुक्त न्ययोजयत् । युजिर् योगे लङ् । सतां सत्पुरुषाणाम् । कोपः क्रोधः । नमनावसानो हि नमनमेवावसानं यस्य सः (नमनेनावसानं यस्य सः)। अर्थान्तरन्यासः ॥५८॥ निपातीति । रणमूनि रणस्य संग्रामस्य मूनि अंग्रे। निपातितानाम् । अरीणां शत्रूणाम् । कण्ठकुठारवृत्त्या कण्ठे ग्रीवायां वर्चमानस्य कुठारस्य परशोवृत्त्या वर्तनेन । उपेयुषः आगतवतः। इण् गतो 'लिट: क्वसुकानो' इति क्वसुः । तनूजान् तनयान् । आर्द्रमनाः मृदुमानसः । सः श्रीवर्मभूपः । अन्वगृहीत् कारुण्यमकरोत् । उन्नतानां महताम् श्रीवर्माका सामना करनेके लिए घरसे निकल पड़े, किन्तु वे उसको शास्त्राग्निकी ज्वालामें गिरकर पतङ्गोंको तरह जल गये ॥५६॥ कुछ शत्रुओंने अहङ्कारको छोड़कर, और श्रीवर्माको वाहन, धन, धान्य और समस्त रत्न उपहारमें देकर अपनी जान बचालो। जैसे हेमन्त ऋतुमें वृक्ष ( पाला पड़नेसे ) पत्तोंको त्यागकर लूंठ जैसी स्थितिमें पहुँचकर भी अपनी जान बचा लेते हैं ॥५७|| श्रीवर्माने कुछ शत्रुओंको उनसे हाथ जुड़वाकर मान रहित कर दिया और उनको सारभूत सम्पत्ति अपने अधीन कर लो। ऐसी अवस्थामें वे सींग टूट जानेसे पशुकी भांति दयनीय प्रतीत होने लगे और विरूप भी। उनकी यह दशा देखकर श्रीवर्माको दया आ गयी। फलतः उसने उन्हें, उन्हींके पद पर पुनः नियुक्त कर दिया। सच है सज्जनोंका क्रोध विरोधीके नमन करते ही शान्त हो जाता है ॥५८॥ कुछ अहंकारी शत्रु लड़नेके लिए लड़ाईके मैदानमें आ डटे, किन्तु श्रीवर्माकी सेनाके सामने वे टिक नहीं सके, फलतः मार गिराये गये। इसके पश्चात् उन मरे हुए शत्रुओंके लड़के अपने-अपने गले में कुठार लगाकर श्रीवर्माकी शरण में उपस्थित हुए। उन्हें देखकर उसका हृदय पिघल गया, अतः उसने उनके ऊपर बड़ा अनुग्रह १. आ इ क ख ग घ म भूयः । २. अ द्वीपेषु । ३. = उपहृत्य । ४. श कृत्तशरीराः। ५. आ एषाम् । ६. श युङि योगी। ७. = अनुजग्राह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy