________________
चन्द्रप्रभचरितम्
निशम्य तस्यातुलपुण्यशक्तः प्रस्थानमाविष्कृतविक्रमस्य । महाभयव्याकुलमानसानां द्विषामभूवन्निति चेष्टितानि ||५३ || दारान्सुतानप्यनपेक्ष्य केचित्स्वदेहरक्षां बहुमन्यमानाः । तत्सैन्यसंचारविमर्दभीता भेजुर्दिगन्तान् हरिणैः सहैव ||५४ || कठोरधारं विनिवेश्य कण्ठे कुठारमन्ये भयविह्वलाङ्गाः । सतां शरण्यं शरणं तमोयुर्जिनं यथा मानमपो भव्याः || ५५ || संनह्य सैन्यैः सह शौर्यशीण्डैरेके महामानगजाधिरूढाः । तदीयशस्त्राग्निशिखावलीषु प्रपेदिरेऽभ्येत्य पतङ्गवृत्तिम् ||५६ ||
१०८
२.
कारिभिः । प्रत्युद्यये संमुखोबभूवे ( प्रतिगृहीतः ) या प्रापणे कर्मणि लिट् ॥ ५२ ॥ | निशम्येति । अतुलपुण्यशक्तेः अतुला उपमारहिता पुण्यस्य सुकृतस्य शक्तिः सामर्थ्यं यस्य तस्य । आविष्कृतविक्रमस्य आविष्कृतः प्रकटीकृतो विक्रमः पराक्रमो यस्य तस्य । तस्य श्रीवर्मभूपस्य प्रस्थानं प्रयाणम् । निशम्य श्रुत्वा । महाभयव्याकुलमानसानां महाभयेन व्याकुलं पीडितं मानसं मनो येषां तेषाम् । द्विषां शत्रूणाम् । इति वक्ष्यमाणप्रकारेण । चेष्टितानि व्यापृतानि । अभूवन् अभवन् । भू सत्तायां लुङ् ॥ ५३॥ दारानिति । केचित् अन्ये । दारान् कलत्राणि । सुतान् पुत्रानपि । अनपेक्ष्य अपेक्षामकृत्वा । स्वदेहरक्षां स्वेषां देहरक्षां शरीररक्षणम् । बहुमन्यमानाः वाञ्छन्तः । तत्सैन्यसंचारविमर्दभीताः तस्य श्रीवर्मभूपस्य सैन्यस्य सेनायाः संचारस्य प्रचारस्य विमर्देन पीडया भीताः । हरिणैः मृगैः । सहैव साकमेव । दिगन्तान् दिशामन्तानवधीन् । भेजुः जग्मुः । भज सेवायां लिट् ।।५४।। कठोरेति । भयविह्वलाङ्गाः भयेन विह्वलं विक्लवमङ्गं येषां ते । अन्ये केचि नृपाः । कठोरधारं कठोरा निशिता धारा' यस्य तम् । कुठारं परशुम् । कण्ठे गले । विनिवेश्य निक्षिप्य । तं श्रीवर्मभूपम् । शरणं रक्षणम् । ईयुः जग्मुः । इण्" गतौ लिट् । सतां सत्पुरुषाणाम् । शरण्यं शरणं गन्तुं योग्यम् ( शरणे साधुः शरण्यस्तम् । 'तत्र साधो' शाकटा० ३।२।१९६ । सप्तण्यन्तात्साधावर्थे यो भवति । सामनि साधुः सामन्यः । कर्मण्यः । शरण्यः । लभ्यः । साधुः योग्यः, प्रवीणः, उपकारको वा । इति चिन्तामणिवृत्तौ । ) । जिनम् अर्हत्पतिम् । मानं गर्वम् । अपोह्य त्यक्त्वा । भव्याः रत्नत्रयाविर्भवनयोग्याः । यथा 'ईयुस्तथेत्यर्थः ।। ५५ ।। सन्नह्येति । महामानगजाधिरूढाः महान्तो माना गर्दा त एव गजास्तानधिरूढाः । एके केचित् । शौर्यशौण्डैः शौर्येण प्रतापेन शोण्डर्गवितैः । सेन्यैः सेनाभिः । सह समम् । ग्रामोंके बुजुर्गों और अधिकारियोंने भी दूरसे ही मस्तक झुकाकर उसकी अगवानी की - स्वागत किया ॥ ५२ ॥ श्रीवर्माका पुण्यबल अतुल है और उसका पराक्रम किसीसे छिपा नहीं है— प्रकट हो चुका है। उसने दिग्विजयके लिए प्रस्थान कर दिया है, यह सुनते ही शत्रु लोगों का हृदय भारी भयसे व्याकुल हो उठा । फलतः उनकी ये चेष्टाएँ हुईं - ॥५३॥ श्रीवर्माकी सेना के संचारसे कहीं हम रौंदे न जायें, यह सोचकर कुछ शत्रु इतने भयभीत हुए कि अपनी पत्नी और पुत्रोंको भी छोड़कर, अपने शरीरको रक्षाको ही बहुत मानकर हिरणोंके साथ दिशाओं के छोरों में जा पहुँचे || ५४|| कुछ शत्रु भयसे इतने व्याकुल हुए कि वे अपने कण्ठमें कठोरपैना कुठार लगाकर सतपुरुषोंको रक्षा करनेवाले श्रीवर्माकी शरण जा पहुँचे । जैसे भव्य जीव मानकषायको छोड़कर भगवान् जिनेन्द्र देवकी शरण जाते हैं घमण्डके हाथी पर सवार होकर, शूर वीरताके घमण्ड में चूर १. = प्रतिगृहीतः । २. आशक्तिः । ३. आ प्रतावेव 'तस्य' इति पदं दृश्यते । ४. आ आनिशम्य । ५. = सुतानपि । ६ = उपेक्ष्य । ७. आ कृशं । ८. शवारं । ९. श वारा । १०. श इयुः । ११. श इन् । १२. श इथुः ।
|| ५५ || कुछ शत्रु अपने सैनिकों के
Jain Education International
[ ४, ५३ -
For Private & Personal Use Only
महान् मानसाथ सजकर,
www.jainelibrary.org