SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ - ४, ५२ ] चतुर्थः सर्गः सैन्यध्वजैरप्रतिकूलवातव्याधननप्रोल्लसितैस्तदीयः । नान्तर्दधे केवलमेव सूर्यः शत्रप्रभावश्च महाप्रभावैः ॥४६।। प्रयाणकालप्रभवैरुदारैस्तदीयमातङ्गमदप्रवाहैः। पांसुप्रतानः शमयांबभूवे न केवलं धाम च शात्रवीयम् ॥५०॥ मूर्छन्दरीणां विवरेषु तस्य प्रस्थानशंसी पटहप्रणादः । न पातयामास परं तटानि क्षोणोधराणां द्विषतां च चेतः ।।५१।। पौरैः 'समागत्य गृहीतरत्नस्थालैः सुदूरान्नतपूर्वकायैः। प्रदर्शितानेकपयोविकारैः प्रत्युद्यये ग्राममहत्तरैश्च ॥५२।। आस्यानि मुखानि मलोमसानि चक्रे-इत्यभिप्रायः। समुच्चय. । ४८॥ सैन्यति । अप्रतिकूलवातव्याधूननप्रोल्लसितैः अप्रतिकूलस्यानुकूलस्य वातस्य वायोाधूननेन कम्पनेन प्रोल्लसितैः प्रकटितैः ( दोधूयमानः )। तदीयैः तस्य संबन्धैः 'महाप्रभावैः महद्भिः प्रभावैः सिंहादिचिह्नयुतः। सैन्यध्वजैः सैन्ये सेनायां स्थिते. ध्वजैः पताकाभिः । वेवलमेव परमेव । सूर्यः आदित्यः । नान्तर्दधे नाच्छादितः। अपि तु शत्रुप्रभावश्च शत्रणां प्रभावस्तेजश्चाच्छादितः ।।४९। प्रयाणेति । प्रयाणकालप्रभवः प्रयाणस्य कालेन प्रभवरुद्भवः । उदारैः तदोयमातङ्गमदप्रभावः तदीयानां तत्संबन्धानां मातङ्गानां गजानां मदस्य मदजलस्य प्रवाहैनिझरैः । केवलं परम् । पांसुप्रतानः पांसूनां रजसां प्रतानः समूहः। न शमयांबभूवे न शमितो बभूव । शमू दमू उपशमने णिजन्ताल्लिट् । किन्तु शात्रवोयं शत्रुसंबन्धि । धाम च प्रभावश्च ॥५०॥ मूर्च्छन्निति । तस्य श्रीवर्मभूपतेः। प्रस्थानशंसी प्रस्थानस्य प्रयाणस्य शंसो सूचकः। पटहप्रणादः पटहानां भेरीणां प्रणादो ध्वनिः । दरीणां गुहानाम् । विवरेषु रन्ध्रेषु । मूर्च्छन् व्याप्नुवन् । क्षोणोधराणां पर्वतानाम् । परं केवलम् । तटानि सानूनि । न पातयामास न पातयति स्म। पत्ल गतौ णिजन्ताल्लिट् । द्विषतां शत्रूणाम् । चेतश्च मानसं च पातयामास ।।५१॥ पौरैरिति । सः श्रोवर्मभूपः । गृहीतरत्नस्थालैः गृहीतानि रत्नस्थालानि यस्तैः, स्वीकृतरत्ननिर्मितभाजनैरित्यर्थः । दूरानतपूर्वकायैः दूरादानतो दूरानतः पूर्व कायस्य पूर्वकायः, 'पूर्वापर-' इत्यादिना समासः, नाभेरूज़ पर्वकायः, दूरानतः पर्वकायो येषां तैः । पौरैः परे भवाः पौराः तैः परजनैः । प्रदर्शितानेकपयोविकारैः' प्रदर्शितैरुपायनीकृतैरने कैबहुलः पयोविकारैर्दध्यादिभिः । ग्राममहत्तरैश्च प्रामाधिमुखको भी मैला कर दिया ॥४८॥ दिग्विजयके लिए जाते समय अनुकूल वायु चल रही थी ( यह शुभ शकुन है ), उससे उसकी सेनाके लहराते हुए झण्डे देखते ही बनते थे। उनके ऊपर सिंह आदिके चिह्न बने हुए थे। दर्शकोंपर उनका महान् प्रभाव पड़ रहा था। उन्होंने न केवल सूर्यको हो बल्कि शत्रुओंके प्रभावको भी छिपा दिया-अस्त कर दिया ॥४६॥ प्रयाणके समय उसकी सेनाके हाथियोंके मदजलके बड़े-बड़े प्रवाह बहने लगे, जिनसे न केवल मार्गको धूलि ही शान्त हुई, बल्कि शत्रुओंका तेज भी शान्त-ठण्डा हो गया ॥५०॥ उसके प्रस्थानको सूचना देनेवाला नगाड़ेका शब्द पहाड़ोंकी गुफाओंके अन्दर प्रतिध्वनित होने लगा; और उसने न केवल पर्वतोंके शिखर हो गिराये किन्तु शत्रुओंके हृदयोंको भी गिरा दियाउन्हें साहस होन बना दिया ॥५१॥ मार्ग में रत्नोंसे भरे हुए थाल लेकर आये हुए नागरिकोंने दूरसे हो अपने मस्तक झुकाकर श्रीवर्माको अगवानोको और दही आदि लेकर उपस्थित हुए १. अ परैः । २. अ सहगनत । ३. अ प्रत्युद्य मे । ४. अ आ इ क ख ग घ म याममहत्तरैश्च । ५. तत्संबन्धिभिः । ६. अतिप्रभावकैः । ७. काले । ८. आ प्रती 'व्याप्नुवन्' इति नोपलभ्यते । ९. एष टोकाकारधृतः पाठः । १०. अयमपि टीकाकारधृतः पाठः, प्रतिषु तु 'सुदूरान्नत इत्येव समुपलभ्यते । ११. आ एषाम् । १२. = प्रदर्शिता उपायनोकृता अनेके पयोविकारा यस्तैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy