________________
१०६
चन्द्रप्रभचरितम्
श्रीवर्मराजोऽपि पितुर्वियोगाद्दिनानि भूत्वा कतिचित्सशोकः । संबोधितो मन्त्रिसुहृत्समू है विनिर्ययौ साधयितुं धरित्रीम् ॥४६॥ विधाय मौलं बलमात्ममूले स नीतिमानाटविकं बहिःस्थम् । मध्ये च सामन्तबलं बलीयश्चचाल 'चूडामणिभासिताशः ॥४७॥ समुच्चलत्तस्य तुरङ्गमोत्थं सेनारजो रासभरोमधूत्रम् । परं दिशामेव मलीमसानि नास्यानि चक्रे रिपुयोषितां च ||४८ ||
समासदत् अगच्छत् । `षदल विशरणगत्यवसादनेषु लुङ् ॥ ४५ ॥ श्रीवर्मेति । श्रीवर्मराजोऽपि श्रीवर्मभूपोऽपि । पितुः जनकस्य । वियोगात् विगमात् । कतिचित् कियन्ति । दिनानि अहानि पर्यन्तम् । 'कालाध्वनोर्व्याप्तौ ' इति व्याप्त्यर्थे द्वितीया । सशोकः दुःखसहितः । भूत्वा भवनं पूर्वं ० । मन्त्रिसुहृत्सहायैः मन्त्रिणां सचिवानां सुहृदां मित्राणां सहायैनिवहैः । संबोधितः सम्यग् बोधितः सन् । धरित्रीं भूमिम् । साधयितुं साधनाय । विनिर्ययौ निर्जगाम । या प्रापणे लिट् ॥४६॥ विधायेति । नीतिमान् नीतिशास्त्रवान् । सः श्रीवर्मा । आत्ममूले आत्मनः स्वस्य मूळे समीपे । मौलं क्रमादागतम् । बलं मन्त्रिपुरोहित सेनापतिदुर्गाधिकारिकर्माधिकारिकोशागारिकदैवज्ञा इति सप्तविधं मौलं बलम् । विधाय कृत्वा । आटविक शबरबलम् । बहिस्थं बहिः स्थितम् । विधाय । मध्ये च अन्तराले । बलीय: बलिष्ठम् । सामन्तबलं राज्ञां बलम् । विधाय । चूडामणिभासितारा: चूड़ामणिना चूडारत्नेन भासिताः प्रकाशिता आशा दिशो येन सः । सन् । चचाल जगाम । चल कम्पने लिट् । दीपकम् ||४७ || समुच्चलदिति । समुच्चलत् उद्गच्छत् । तुरङ्गमोत्थं तुरङ्गमैः अश्वैरुत्यमुत्थितम् । रासभरोमधूम्रं रासभस्य गर्दभस्य रोमवद् धूम्रं कृष्णम् । कृष्णाधिकलोहितं धूम्रमिति नाम । तस्य श्रीवर्मणः । सेनारजः सेनाया रजो धूलि । परं केवलम् रे । दिशामेव ककुभामेत्र । आस्यानि मुखानि | मलीमसानि मलमस्त्येषामिति मलीमसानि । 'मलादीमसरच' इति मत्वर्थे ईमसप्रत्ययः । न चक्रे न कुरुते स्म । अपितु रिपुयोषितां च रिपूणां शत्रूणां योषितां नारीणाम् ।
११
[ ४, ४६ -
फलतः अष्ट कर्मोंको नष्टकरके वह सिद्धिवधूका वर - मुक्त हो गया ||४५ ॥ इधर राजा श्रीवर्मा भी पिताके वियोगसे कुछ दिनोंतक शोकमग्न रहा, फिर मन्त्रिमण्डल तथा मित्रवर्गके समझानेसे धीरे-धीरे उसका शोक दूर हुआ, इसके बाद वह पृथ्वीको अपने वश में करनेके लिएदिग्विजय करने के लिए निकला | ॥ ४६ ॥ वह राजनीति में प्रवोण था । दिग्विजयके लिए जाते समय उसने अपने पास उस सेनाको रखा, जो उसके यहाँ कई पीढ़ियोंसे काम करती चली आ रही थी और जिसमें मन्त्री, पुरोहित, सेनापति, दुर्गाधिकारी, कर्माधिकारी, कोषाधिकारी और ज्योतिषी सम्मिलित थे, भीलोंकी सेनाको सबसे आगे रखा और बीचमें प्रबल सामन्तोंकी सेना को । चलते समय उसके चूड़ामणिके प्रकाशसे समस्त दिशाएँ प्रकाशित होती जा रही थीं ॥४७॥ चलते समय घोड़ोंकी टापोंसे सेनामें धूलि उड़ रही थी । उसका रंग गदहे के रोमों सरीखा मटमैला था । उसने चारों ओर फैलकर न केवल समस्त दिशाओंके वरन् शत्रु-स्त्रियोंके
१. अ क ख ग घ म चूला । २. श स षद विशरण । ३. श स लङ् । ४. आ विषयेति । ५. नीतिशास्त्रवित् ६. श तिलविकम् । ७ श बहिष्टम् । ८. आ मध्ये बलान्तराले । ९. आ यस्य । १०. एष टीकाकृत्संमतः पाठः प्रतिषु तु 'समुच्छलत्' इत्येव समुपलभ्यते । ११. आ प्रतावेव ' अश्व:' इत्युपलभ्यते । १२. श स एकं केवलम् । १३. 'मलोऽस्त्रियाम्' इत्यमरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org