SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः तेजस्विन पूरयतोऽखिलाशा भूभृच्छिरःशेखरतां गतस्य। दिनाधिपस्येव तवापि भूयात्करप्रपातो भुवि निर्विबन्धः॥४३॥ इति क्षितीशः सह शिक्षयासौ विश्राणयामास सुताय लक्ष्मोम् । सोऽपि प्रत । गुरूपरोधात्पितुः सुपुत्रो ह्यनुकूलवृत्तिः ॥४४॥ ततः स पितराज्यभारः'पृष्टाखिलशातिरपास्तसङ्गः। तप्त्वा तपः श्रीप्रभपादमूले समासदत्सिद्धिवधवरत्वम् ॥४५॥ गूढो व्यवहित आत्मनः स्वस्य मन्त्रो गुप्तभाषणं येन ( यस्य ) सः। परमन्त्रभेदी परेषां शत्रूणां मन्त्रभेदी मन्त्रालोचननिवारकः । पुरुषः पुमान् । परेषां शत्रूणाम् । अगम्यः अभेद्यः । भवति । भू सत्तायां लट् । अर्थान्तरन्यासः ।।४२।। तेजस्वीति । तेजस्विनः प्रतापवतः, पक्षे कान्तिमतः । अखिलाशाः अखिलानां समस्तानामाशा वाञ्छाः, पक्षे दिशः । पूरयतः संपूर्णाः कुर्वतः, पक्षे व्याप्नुवतः। भूभृच्छिर.शेखरतां भूपतीनां शिरसां मस्तकानां शेखरतां ललामतां, पक्षे गिरीणां शिरसां शिखराणामलङ्कारताम् । गतस्य यातस्य । दिनाधिपस्येव सूर्यस्येव । तवापि भवतोऽपि । करप्रपात: करस्य भागधेयस्य प्रपातो लाभः, पक्षे करस्य किरणस्य [कराणां किरणानां ] प्रपतनम् । भुवि लोके । निर्विबन्धः अनिवार्यः । भूयात् भवेत् । भू सत्तायां लिङ्। श्लेषोपमा ।।४३।। इतीति । असो क्षितीशः श्रीषेणमहीपतिः । इति प्रोक्तप्रकारेण। शिक्षया उपदेशेन । सह साकम् । सुताय श्रीवर्मणे । लक्ष्मी साम्राज्यसम्पत्तिम् । विश्राणयामास ददौ । श्रण दाने लिट् । सोऽपि श्रीवर्मापि । गुरूपरोधात् गुरो महतः ( पितुर्वा ) उपरोधात् प्रार्थनात् । प्रतोयेष अङ्गोकरोतिस्म । इषु इच्छायां लिट् । सुपुत्रः सत्पुत्रः। पितुः जनकस्य । [हि निश्चयेन ] । अनुकूल वृत्तिहि अनुकूला वृत्तिवर्तनं यस्य सः । तरन्यासः ॥४४॥ तत इति । ततः पश्चात् । पत्रापितराज्यभारः पत्रे तनयेऽपितः स्थापितो राज्यस्य भारो येन सः। पृष्टाखिलज्ञातिः पृष्टाः प्रार्थिता अखिला ज्ञातयो बन्धवो येन सः । अपास्तसङ्गः अपास्तो निराकृतः सङ्गो येन सः । सः श्रीषेणः । श्रीप्रभपादमले श्रीप्रभस्य श्रीप्रभाचार्यस्य पादभूले पादसमोपे । तपः बाह्याभ्यन्तरतपः । तप्त्वा संतप्य सिद्धिवधूवरत्वं सिद्धिरेव मुक्तिरेव वधूस्तस्या वरत्वम् । पश्चात् फलको देखकर लोग उसका केवल अनुमान ही लगा सकें, इसका ध्यान रखना; क्योंकि जो मनुष्य अपनी मन्त्रणाको गुप्त रखता है और दूसरोंकी गुप्त मन्त्रणाको प्रकट कर लेता है, वह अपने शत्रुओंके लिए अजेय होता है ॥४२॥ जिस प्रकार तेजस्वी, सभी दिशाओंको अपने प्रकाशसे भरनेवाला और पर्वतोंके शिखरोंपर पहुंचकर उनके शिरोभूषणकी स्थितिको प्राप्त करनेवाला सूर्य सारे भूमण्डलपर अपनी किरणोंको निर्विरोध रूपसे फैला देता है, इसी प्रकार तुम तेजस्वी बने रहना, सबको आशाओंकी पूर्ति करना और सभी राजाओंके सिरमोर होना, जिससे सारे भूमण्डलपर निर्विरोध रीतिसे तुम्हारी टैक्स वसूल करनेकी सुव्यवस्था हो ॥४३।। राजा श्रीषणने अपने पुत्र श्रीवर्माको इस प्रकारकी शिक्षाके साथ राजलक्ष्मी समर्पित कर दो। पिताके अनुरोधसे पुत्रने भी उसे स्वीकार कर लिया। सुपुत्र वही है जो पिताके अनुकूल व्यवहार करे ॥४४॥ पुत्रको राज्यका भार समर्पित करके श्रीषेणने गोत्रके सभी लोगोंसे दोक्षाकी अनुमति लो और फिर मनिराज श्रीप्रभके समक्ष समस्त परिग्रहको त्यागकर दिगम्बर दीक्षा ग्रहण की। इसके पश्चात् उन्हीं मुनिराजके चरणोंके निकट रहकर उसने तपस्या की। १. अ पृष्ट्वाखिलज्ञातिमपा। २. मन्त्रस्फोटको वा । ३. तेजस्विन इति ४. = पूर्वोक्त । ५. श स श्रणु । ६. आग्रहात् । ७. तपो विधाय। ८. मा अवरत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy