________________
चन्द्रप्रमचरितम् धर्माविरोधेन नयस्व वृद्धिं त्वमर्थकामौ कलिदोषमुक्तः । युक्त्या त्रिवर्ग हि निषेवमाणो लोकद्वयं साधयति क्षितीशः ॥३६॥ वृद्धानुमत्या सकलं स्वकार्य सदा विधेहि प्रहतप्रमादः । विनीयमानो गुरुणा हि नित्यं सुरेन्द्रलीलां लभते नरेन्द्रः ॥४०॥ निगृह्णतो बाधकरान्प्रजानां भृत्यांस्ततोऽन्यान्नयतोऽभिवृद्धिम् । कीर्तिस्तवाशेषदिगन्तराणि व्याप्नोति बन्दिस्तुतकीर्तनस्य ।।४१॥ कुर्याः सदा संवृतचित्तवृत्तिः फलानुमेयानि निजेहितानि |
गूढात्ममन्त्रः परमन्त्रभेदी भवत्यगम्यः पुरुषः परेषाम् ॥४२॥ जनम् । उद्वे जयेते हि संतर्जयति हि । व्यज व्याजीकरणे लट् ।। ३८।। धर्मेति । कलिदोषमुक्तः कलिरन्यायः स एव दोषः पापाचारस्तेन मुक्तस्त्यक्तः । त्वं भवान् । धर्माविरोधेन धर्मस्याविरोधेन प्रतिकूलाभावेन (आनुकूल्येन ) अर्थकामो अर्थश्च कामश्च तो। वृद्धि समृद्धिम् । नयस्व प्रापय । णी प्रापणे लोट् , द्विकमकः । युक्त्या उपायेन । त्रिवर्ग त्रयाणां धर्मार्थकामानां वर्गम् । निषेवमाणः भजमानः । क्षितीशः भूमीशः । लोकद्वयम् इहलोकपरलोकद्वयम् ( इह लोकं परलोकं च )। साधयति स्वसाकरोति । राध साध संसिद्धी लट् ।।३९।। वृद्धेति । वृद्धानुमत्या वृद्धानां मन्त्रिपुरोहितानाम् । अनुमत्या संमत्या । सकलं निखिलम् । स्वकार्य स्वस्य कार्यम । प्रहतप्रमादः प्रहतो नष्टः प्रमादो यस्य सः । सदा सर्वदा । विधेहि कुरु । गुरुणा उपाध्यायेन, पक्षे बृहस्पतिना । नित्यम् अनवरतम् । विनीयमानः शिक्ष्यमाणः । नरेन्द्रः क्षितीन्द्रः। सुरेन्द्रलोलां सुरेन्द्रस्य देवेन्द्रस्य लोलां शोभाम् । लभते प्राप्नोति । डुलभिष प्राप्तो लट् । श्लेषः ॥४०॥ निगृह्वेति । प्रजानां जनानाम् बाधकरान् पीडां कुर्वतः । भृत्यान् सेवकजनान् । निगृह्णत: निग्रहं कुर्वतः । ततः बाधाकरभृत्येभ्यः (बाघकरभृत्येभ्यः ) । अन्यान् अनुकूलान् । अभिवृद्धि समृद्धिम् । नयतः नयमानस्य । बन्दिस्तुतकीर्तनेन बन्दिभिः पाठकैः स्तुतेन नुतेन कोर्त्तनेन । तव ते। कीर्तिः गुणस्तुतिः । अशेषदिगन्तराणि अशेषाणां सर्वासां दिशामन्तराण्यवसानानि । व्याप्नोति प्रयाति । आप्ल व्याप्तो लट । अतिशयोक्तिः ॥४१॥ कुर्या इति । संवृतचित्तवृत्तिः संवृता आच्छादिता चित्तस्य मानसस्य वृत्ति व्यापारो येन सः । फलानुमेयानि फलेन कार्येणानुमेयानि ऊहितुं योग्यानि निजेन स्वेन'° ईहितानि चेष्टितानि । सदा अनवरतम् । कुरः'। गूढात्ममन्त्रः तुम कलिकालके दोष-पापाचरणसे दूर रहना और धर्मको अनुकूलता पूर्वक अर्थ और काम पुरुषार्थकी वृद्धि करना । युक्तिपूर्वक धर्म, अर्थ और काम इन तीनों पुरुषार्थों को सेवन करनेवाला राजा दोनों लोकोंको साध लेता है ॥३९॥ वयोवृद्ध मन्त्री और पुरोहितोंसे अनुमति लेकर ही तुम सदा अपने सब काम करना । उन कामों में आलस कभी नहीं करना। क्योंकि सदा गुरुजनोंकी शिक्षा पानेवाला नरेन्द्र, बृहस्पतिसे शिक्षा पानेवाले सुरेन्द्रको शोभाको प्राप्त कर लेता है ॥४॥ तुम अपने उन कर्मचारियोंको दण्ड देते रहना, जो प्रजाको पीडा दें और उन कर्मचारियोंको बढ़ावा देते रहना, जो प्रजाको पीड़ा न होने दें। इसका परिणाम यह होगा कि चारण लोग तुम्हारा गुणगान करेंगे, जिससे तुम्हारी कीर्ति समस्त दिशाओं और विदिशाओं में फैल जायगी ॥४१।। तुम अपने विचारोंको सदा गुप्त रखना, और जिन कार्योंको तुम करना चाहो, उनका किसीको पहलेसे पता नहीं लगने देना । कार्यकी समाप्ति होनेके
१. अ आ इ क ख ग घ म व्याप्नोतु । २. आ जयति । ३. भा प्रतावेव ‘समृद्धि' इति पदं दृश्यते । ४. आ लिट् । ५. आ प्रतावेव 'स्वस्य कार्यम्' इति समुपलभ्यते । ६. श स धाकरान् । ७. गुणवर्णनेन । ८. व्याप्नोतु प्रयातु । ९. आ प्रतावेव 'संवृता' इत्युपलभ्यते । १०. निजस्य स्वस्य । ११. विधेहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org