SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ - ४, ३८] चतुर्थः सर्गः वाञ्छन्विभूतीः परमप्रभावाः मोद्वीविजस्त्वं जनमात्मनीनम् । जनानुरागं प्रथमं हि तासां निबन्धनं नीतिविदो वदन्ति ॥३६॥ समागमो निर्व्यसनस्य राज्ञः स्यात्संपदा निर्व्यसनत्वमस्य । वश्ये स्वकीये परिवार एव तस्मिन्नवश्ये व्यसनं गरीयः ॥३७|| विधित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् । गुणैरुपेतोऽप्यपरैः कृतघ्नः समस्तमुद्वेजयते हि लोकम् ।।३८।। सूर्ये । [ चक्रवाक इव ] चक्रवाको रथाङ्गः पक्षिविशेषः, स इव । यथा येन प्रकारेण । आनन्दं संतोषम् । आयाति गच्छाति । या प्रायणे लट् । तथैव ( तेनैव प्रकारेण )। चारचक्षुः चारा गूढपुरुषा एव चक्षुषी' यस्य ( सः ) तथोक्तः । वृत्तं चरित्रम् । आचर प्रवर्तस्व । उपमा रूपकं च ॥३५।। वान्छन्निति । परमप्रभावाः परमः प्रभावो यासां ताः । विभूतीः ऐश्वर्याणि । वाच्छन् इच्छन् । त्वम् । आत्मनीनम् आत्महितम् । 'भोगोत्तरपदात्मन्भ्यां खः' इति हितार्थे खः । जनं लोकम । मोद्वोविजः मा पीडय । व्यज व्याजीकरणे णिजन्ताल्लुङ् । 'णेरिक्त-'इति णि लुक् । 'कं श्रित-' इत्यादिना जिः, तद्योगे 'द्विर्धातुः-' इत्यादिना द्विः । जनेषु प्रजासु । विहितम् अनुरागं प्रोतिम् । तासां संपदाम् । प्रथम मुख्यम् । निबन्धनं कारणम् । इति नीतिविदः नीतिशास्त्रज्ञाः । वदन्ति ब्रवन्ति । वद व्यक्तायां वाचि लट ॥३६॥ समागम इनि व्यसनरहितस्य । राज्ञः क्षितिपतेः । संपत्तीनां संपदाम् । समागमः आगमनं। स्यात् भवेत् । अस भुवि लिङ । स्वकीये स्वसंबन्धिनि । परिवारे परिजने। वश्य वंशगते सति । 'वश्यपथ्य-' इत्यादिना य-प्रत्ययान्तो निपातः । अस्य राज्ञः। निव्यं सनत्वं व्यसनरहितत्वं भवेत् । तस्मिन्नेव परिवार एव । अवश्ये अवशं गते सति । गरीयः महत् । व्यसनं विपद् भवेत । परिवारे वंश गते राज्ञो निर्व्यसनत्वमैश्वर्यं च जायते, तदभावे राज्ञो व्यसनं विपज्जायते, इत्यर्थः ॥३७॥ विधिरसुरिति । तत् तस्मात्कारणात् । एवं तव वशंगतम् (एनं परिवारम्) आत्मवश्यम् आत्माधोनम् । विधित्सुः कर्तुमिच्छुः । 'कम्येक-' इत्यादिना सन्, 'घुमीमा-' इत्यादिना मिस्, 'सन्भिक्षा-' इत्यादिना उ-प्रत्ययः । कृतज्ञतायाः उपकारस्मरणत्वस्य । पारं तीरम् । समुपैहि गच्छ । इण् गतो लोट् । अपरैः अन्यः गुणः सह । उपेतः युक्तः । कृतघ्नः उपकारनाशकः । समस्तं सकलम् । लोकं किन्तु गुप्तचरोंकी सहायतासे उस ( कष्ट ) का पता लगाकर शीघ्र ही उसका निवारण करते रहना । दूरकी स्थिति देखनेके लिए तुम गुप्तचरोंको ही अपनी चक्षु समझना ॥३५॥ दूसरोंपर उत्कृष्ट प्रभाव डालनेवाली विभूतिको चाहते हुए तुम अपने किसी हितैषीको पीड़ा नहीं देना; क्योंकि राजनीति जाननेवाले विद्वान् यह कहते हैं कि 'लोगोंसे अनुराग करना और उनका अनुराग प्राप्त करना ही विभूतिका मुख्य कारण है।' ॥३६॥ सम्पदाओंका समागम उस राजाको होता है, जो विपदाओंसे मुक्त हो, और वह राजा विपदाओंसे मुक्त होता है, जिसका परिवार अपने वश में हो। यदि अपना परिवार राजाके वशमें न हो, तो उसे बड़ी-बड़ी विपदाएं आ घेरती हैं ॥३७॥ अतः यदि तुम अपने परिवारको वशमें रखना चाहते हो, तो कृतज्ञताका पूरा परिपालन करना । क्योंकि अन्य अनेक गुणोंसे युक्त होकर भी जो कृतघ्न होता हैदूसरोंका उपकार नहीं मानता है, वह निश्चय ही सारे संसारको उद्विग्न कर देता है ॥३८॥ १. श स चक्षूषि । २. मा 'वृत्तं चरित्रम्' इति नास्ति । ३. भा संबन्धे । ४. श स पहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy