________________
१०२
चन्द्रप्रभचरितम्
तावद्भवान्मोचयितुं प्रयत्नादात्मानमिच्छाम्य सुखानलार्तम् । जिनेन्द्र दीक्षाविधिनात्र कार्ये त्वया न भाव्यं परिपन्धिना मे ॥ ३२ ॥ पुरैव संसारपरम्यराया हेतोः श्रियश्चित्तमपेतमेव । अपेक्षमाणोऽनुदिनं त्वदीयमेवोदयं राज्यपदेऽवतिष्ठे ||३३|| भवानपास्तव्यसनो निजेन धाम्नाब्धिमर्यादममामिदानीम् । महीमशेषामपहस्तितारिवर्गोदयः पालयतु प्रशान्तः ||३४|| यथा भवत्यभ्युदिते जनोऽयमानन्दमायाति निरस्तखेदः । सहस्ररश्माविव चक्रवाको वृत्तं तदेवाचर चारचक्षुः ||३५||
वाणी वचनम् । यावच्च प्रस्खलितुं । न प्रवर्त्तते । वृतुङ् वर्त्तने लट् || ३१ । तावदिति । तावत् । असुखानलार्तम् असुखमेव दुःख मेवानलोऽग्निस्तेनातं पीडितम् । आत्मानं जीवम् । जिनेन्द्रदीक्षाविधिना जिनेश्वरदीक्षाविधानेन । भवात् संसारात् । मोचयितुं निवारयितुम् । प्रयत्नात् । इच्छामि वाञ्छामि । मे मम । अत्र कार्ये कृत्ये | परिपन्थिन शत्रुणा । त्वया भवता । न भाव्यं न भवितुं योग्यम् ||३२|| पुरेति । संसारपरम्परायाः संसारस्य परम्परायाः प्रवाहस्य । हेतोः कारणभूतायाः । श्रियः सम्पदः सकाशात् । पुरं प्रागेव । चित्तं मनः | अपेतमेव अपगतमेव I अनुदिनं प्रतिदिनम् । त्वदीयमेव तव संबन्धमेव । उदयम् । ऐश्वर्यम् । अपेक्षमाणः वाञ्छन्नहम्। राज्यपदे राज्यपदव्याम् । अवतिष्ठे तिष्ठामि । ष्ठा गतिनिवृत्तो लट् ॥ ३३. मवानिति । अपास्तव्यसनः अपास्तं निराकृतं व्यसनं येन सः । अपहस्तितारिवर्गोदयः अपहस्तितो निरस्तोऽरीणां वर्गस्योदय उत्पत्तिर्यस्य ( येन ) सः । प्रशान्तः प्रशमवान् । भवान् त्वम् । निजेन स्वकीयेन । धाम्ना तेजसा । इदानीम् अद्य । इमाम् एताम् । अशेषां समस्ताम् । महीं भूमिम् । अब्धिमर्यादम् अब्धिरेव समुद्र एव मर्यादा यस्मिन् कर्मणि तत् ( तथा ) । पालयतु रक्षेत्यर्थः । भवच्छब्दयोगे प्रथम पुरुषः ||३४|| यथेति । भत्रति त्वयि | अभ्युदिते सति अभ्युदययुक्ते सति । निरस्तखेद: तिरस्कृतखेदः । अयम् एषः । जनः लोकः । सहस्ररश्मी प्रवीण मेरी वाणी जबतक स्खलित नहीं होती । ॥ ३१ ॥ तब तक मैं दिगम्बर दीक्षा लेकर दुःखाग्नि में झुलसती हुई अपनी पीड़ित आत्माको पूरे प्रयत्नसे इस जगत्से मुक्त कराना चाहता हूँ । मेरे इस कार्य में तुम विरोध नहीं करना -- मैंने आत्माकल्याणका निश्चय कर लिया है, अतः इस पवित्र कार्य में तुम्हें मेरा विरोधी नहीं होना चाहिए ||३२|| यह राज्य - लक्ष्मी संसारकी परम्पराका कारण है । इससे मेरा मन पहलेसे ही ऊबा हुआ है । में कभीका चला गया होता । किन्तु तुम नाबालिग रहे, अतः प्रति दिन में तुम्हारे अभ्युदयकी अपेक्षा में रहा – 'तुम राज्य-भार संभालने योग्य हो जाओ, तो मैं जाऊँ, बस इसी प्रतीक्षा में मै अबतक राजगद्दीपर बैठा रहा ||३३|| तुम अपने तेजसे समुद्र पर्यन्त इस समूची पृथ्वीका पालन करना । देखो, कभी किसी व्यसन में नहीं फँसना; प्रजाके ऊपर कोई सङ्कट आये तो उसका शीघ्र ही प्रतिकार करना; सदा शान्त रहना - प्रशम गुणको धारण करना और शत्रुओंको गुटबन्दी नहीं करने देना - गुटबन्दी करनेवाले शत्रुओंको सिर नहीं उठाने देना ||३४|| जिस प्रकार सूर्योदय होनेपर चकवेका प्रियाविरहका सारा खेद दूर हो जाता है और उसे बहुत आनन्द होता है, इसी प्रकार तुम्हारे अभ्युदयसे प्रजा-जनों को आनन्दका अनुभव हो और उन्हें कभी तनिक भी खेद न हो, ऐसा व्यवहार करना । यों सारी प्रजाके कष्टका स्वयं पता लगाना कठिन है,
-
Jain Education International
[ ४, ३२ -
१. आ इ 'कुलकम्' इत्यपि दृश्यते । २. प्रस्खलनं लब्धुम् । ३. आवर्तनकृत्ये । ४ प्रतिबन्धकेन । ५. श स अपेतमिव अपगतमिव । ६. श स त्वदीयमिव तव संबन्धमिव ।
For Private & Personal Use Only
www.jainelibrary.org