SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ४, ७ ] चतुर्थः सगः जनादशेषाद्वयसा लघीयानपि प्रवृद्धैः स महान्बभूव । कलागुणैरुज्ज्वल रश्मिजालैरिव स्वकीयैर्मणिराकरोत्थः ॥ ४ ॥ धनुर्धरैः खङ्गिभिरश्ववारैर्गजेन्द्र शिक्षाधिकृतैश्च लोकैः । स्वं स्वं गुणोत्कर्षमसाववाप्तुं सदाभियुक्तैरुपजीव्यते स्म ॥ ५ ॥ तुषाररश्मि भजते निशायां दिनागमे याति सरोजषण्डम् । इति प्रकृत्या चपलापि लक्ष्मीरियेष मोक्तुं न तनुं तदीयाम् ॥ ६ ॥ वदान्यतां तस्य विलोक्य गुर्वी 'तद्वद्भिरत्याजि वृथाभिमानः । गतस्य लोके परतोऽभिभूतिं न मानिनो राजति मानयोगः ॥ ७ ॥ I राजविद्याः, ताश्च, उपविद्याश्च चतुःषष्टिरूपाः, ताश्च । विधिना क्रमेण । विदित्वा ज्ञात्वा । गणितैः कियद्भः । अहोभिः दिवसः । तद्वेदिनः विद्योपविद्यावेदिनः पुरुषान् । अधो व्यवात् तिरस्कृतवान् । डुधाञ् धारणे च लुङ् । उपमा ||३|| जनादिति । सः कुमारः । अशेषात् सकलात्' । जनात् लोकात् । वयसा वयोधर्मेण । लघीयानपि अत्यन्तं लघुरपि 'गुणाङ्गाद्वेष्ठेयसू' इति ईयसु-प्रत्ययः । प्रवृद्धैः अधिकैः । कलागुणैः सकलकलागुणैः ४ स्वकीयैः स्वसंबन्धिभिः । उज्ज्वलरश्मिजालैः उज्ज्वलैः रश्मीनां किरणानां जालैः समूहैः । आकरोत्थः खनिस्थानोत्पन्नः । मणिरिव रत्नमिव । महान् श्रेष्ठः । बभूव भवतिस्म । भू सत्तायां लिट् । उपमा || ४ || धनुरिति । असौ कुमारः । सर्वदा सर्वस्मिन् काले । अभियुक्तैः उद्युक्तैः । धनुर्धरैः धन्विभिः । खङ्गिभिः खङ्गोऽस्त्येषा[ऽस्ति येषा ] मिति खङ्गिनस्तैः खङ्गवरैः । अश्ववारैः अश्ववाहैः । गजेन्द्र शिक्षाधिकृतैश्च गजेन्द्राणां शिक्षायामधिकृत रधिकारिभिश्व । स्वं स्वं स्वकीयम् । वीप्सायां द्वि: ' वीप्सायाम्' इति द्विः । गुणोत्कर्ष गुणानां धनुर्विद्यादीनामुत्कर्षं प्रवर्धनम् । अवाप्तुं लब्धुम् । उपजीव्यते स्म । जीव प्राणधारणे कर्मणि स्म योगे 'स्मे च लट्' इति भूतार्थे लट् ||५|| तुषारेति । लक्ष्मीः श्रीदेवी । निशायां रात्री । तुषाररश्मिं चन्द्रमसम् । भजते सेवते । भज सेवायां लट् । दिनागमे दिनस्य दिवसस्य आगमे प्रातःकाले इत्यर्थः । सरोजषण्डं सरोजानां कमलानां षण्डं कदम्बम् । याति गच्छति । इति एवं प्रकारेण । प्रकृत्या स्वभावेन । चपलापि चञ्चलापि । तदोयां तस्य कुमारस्य संबन्धिनीम् । तनुं शरीरम् । मोक्तुं त्यक्तुम् । न इयेष न ववाञ्छ | इषु इच्छायां लिट् ||६|| वदेति । तस्य कुमारस्य । गुर्वी महतीम् । वदान्यतां त्यागिताम् । विलोक्य दृष्ट्वा । तद्वद्भिः औदार्ययुक्तैः । वृथाभिमानः व्यर्थाभिमानः । अत्याजि अमुच्युत । त्यज हानी कर्मणि लुङ् । लोके वह प्रतिभाका धनी था, अतः समस्त विद्याओं और उपविद्याओंकी शिक्षा प्राप्त कर उसने थोड़े ही दिनों में समस्त विद्याओं और उपविद्याओंके जाननेवालोंको मात कर दिया || ३ || वह राजकुमार उमूमें सबसे बहुत छोटा था, किन्तु फिर भी विकसित कलाओं और गुणोंमें उनसे बड़ा था । जैसे एक खानसे उत्पन्न हुआ मणि और मणियोंके पीछे निकल कर भी अपनी उज्ज्वल किरणों के कारण उनसे कहीं श्रेष्ठ होता है ॥४॥ धनुर्धारी, खड्ग चलानेवाले, अश्वविद्या जाननेवाले और गजशिक्षा के अधिकारी विद्वान् अपने-अपने गुणोंका उत्कर्ष पानेके लिए सदा तत्परता के साथ उसकी सेवा में लगे रहते थे ||५|| लक्ष्मी रात्रिके समय चन्द्रमाकी सेवा करती है और दिन होते हो उसे छोड़कर कमलोंके पास चली जाती है । इस तरह वह स्वभावसे चञ्चल होकर भी उस राजकुमारके शरीरको नहीं छोड़ना चाहती थी— चन्द्रमा और कमलकी अपेक्षा राजकुमारका शरीर कहीं अधिक सुन्दर था || ६ || वह राजकुमार बड़ा दानी था । उसकी सर्व श्रेष्ठ उदारताको देखकर अन्य उदार पुरुषोंने अपनी-अपनी उदारता के निरर्थक ९५ १. अ तद्विद्धि । २. श स अशेषान् सकलान् । ३. श स जनान् लोकान् । ४. आ प्रतावेव 'सकलकलागुणैः' इति पर्यायो दृश्यते । ५. श स योगी । ६. श स भजि । ७. आ उदारयुक्तेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy