SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [४,८तदीयसङ्गादखिलोऽपि भीरुरन्यो जनः शूरतरो बभूव । महात्मनस्तस्य पुनर्महीयः स्वाभाविकं शौर्यमिव हिपारेः ।। ८ ।। त्यागश्च शौर्य च तथैव सत्यं महागुणा नोतिविदामभीष्टाः। त्रयोऽप्यमी तस्य तनौ विवृद्धिं स्पर्धादिवान्योन्यकृतात्प्रजग्मुः ॥९॥ प्रपूरयन्धान्यधनेरशेषं नियोजयंश्चापि महागुणेषु। पतिः स एवाजनि नीतिनेत्रो गुरुः स एवाश्रयिणां जनानाम् ॥१०॥ न केवलं सर्वगुणाश्रयेण प्रहर्षितस्तेन भृशं स्वपक्षः । किं तु द्विषन्तोऽपि खलस्वभावास्तन्नास्ति यत्पुण्यवतामसाध्यम् ॥ ११ ॥ जगति । परतः अन्यस्मात् । अभिभूति तिरस्कृतिम् । गतस्य प्राप्तस्य । मानिनः गविणः । मानयोगः मानस्य गर्वस्य योगः। न राजति न भाति । राजन दोप्तो लङ्। अर्थान्तरन्यासः ॥७॥ तदीयेति । तदोयसंगात् तदीयात् कुमारकसंबन्धात् सङ्गात् संपर्कात् । अखिलोऽपि निखिलोऽपि । भीरुः भीलुकः। अन्यः परः । जनः। शूरतरः प्रकृष्टः शूरः । शूरतरः बभूव भवतिस्म । भू सत्तायां लिट् । पुनः पश्चात् । महात्मनः महापुरुषस्य । तस्य कुमारस्य । महीयः अतिमहत्। शौर्य पराक्रमः। द्विपारेः द्विपानां गजानामरे: सिंहस्य । इव । स्वाभाविक स्वभावजनितम् । बभूव । उपमा ॥८॥ त्याग इति । त्यागश्च वितरणम् । शौर्य पराक्रमश्च । तथा च ते प्रकारेण । सत्यं तथ्यम् । नीतिविदा नीति नीतिशास्त्रं विदन्ति जानन्तीति नीतिविदः, तेषामभीष्टाः समीहिताः। अमी इमे । त्रयोऽपि महागुणाः मुख्यगुणाः । तस्य कुमाररस्य । तनो गात्रे । अन्योन्यकृतात् अन्योन्यः कृतात् विहितात् । स्पर्द्धादिव मात्सर्यादिव । विवृद्धि प्रवृद्धिम् । प्रजग्मुः प्रययुः । गम्लु गती लिट । उत्प्रेक्षा ॥९॥ प्रपूरयन्निति । अशेषं संपूर्णम् । धान्यधनैः धान्यः ब्रीह्यादिधान्यै धनैः सुवर्णादिभिः। प्रपू महागुणेषु मुख्यगुणेषु । नियोजयंश्चापि संबन्धयंश्चापि । नोतिनेत्रः नीतिरेव नीतिशास्त्रमेव नेत्रं नयनं यस्य सः । स एव कुमार एव। आश्रयिणाम् आश्रितानाम् । जनानां पतिः प्रभुः । स एव कुमार एव । गरुः श्रेष्टः । अजनि अभवत् । रूपकम् ॥१०॥ नेति । सर्वगुणाश्रयेण सर्वेषां गुणानामाश्रयेणाधारभतेन । तेन कुमारेण । स्वपक्षः सहायजनः । केवलं मुख्यम् [परम्] । भृशम् अत्यन्तम् । न प्रहर्षितः न'' संतोषितः । अभिमानको छोड़ दिया। क्योंकि इस संसारमें उस मानीका मान शोभा भी तो नहीं देता, जो दूसरेसे पराजित हो चुका हो ॥७॥ उसके सम्पर्कमें रहनेसे सभी अन्य कायर पुरुष भी बहादुरोंके सिरमौर हो गये । उसको आत्मा महान् थी, और उसका महान् पराक्रम सिंहके समान स्वाभाविक था ॥८॥ त्याग, शूरता और सत्य ये तीन महान् गुण हैं, इन्हें सभी नीति शास्त्रके विद्वान् चाहते हैं, किन्तु ये तीनों स्वयं भी उस राजकुमारको चाहते थे। इसीलिए मानो वे आपसी स्पर्धावश उसमें खूब ही विकसित हुए। उनका विकास उसके शरीरको देखनेसे ही प्रतीत हो रहा था ॥६॥ वह नीतिशास्त्रमें निपुण था। वह नीतिशास्त्रको ही अपना नेत्र समझता था। आश्रयमें आनेवाले सभी मनुष्योंका वह पति ( पातीति पतिः-जो रक्षा करे वह पति कहलाता है ) था। क्योंकि भरपूर धन और धान्य-अनाज देकर वह उनका भरण, पोषण और संरक्षण करता था, और उन सबका वह गुरु ( शिक्षक ) था; क्योंकि उन्हें वह श्रेष्ठ सद्गुणोंकी शिक्षा देता था ॥१०॥ वह सर्वगुण सम्पन्न था, अतः उसने न केवल अपने पक्षके लोगोंको ही खूब प्रसन्न किया, बल्कि दुष्ट स्वभाववाले शत्रुओंको भी। ऐसा कौन सा कार्य है, जो पुण्यात्माओंको १. मा महान् । २. = यया। ३. = शौयं च । ४. = अन्योन्यम् । ५. भा प्रतो 'प्रवृद्धिम्' इतिनास्ति। ६. गम गतौ । ७. = पोषयन् । ८. आ प्रती स्वस्तिकान्तर्गतः पाठो नास्ति । ९. = शिक्षकः । १०. प्रकर्षण हर्ष प्रापिताः । १२. आ प्रती 'न' नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy