SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ - ३, ७६] तृतीयः सर्गः सर्वशं कनकमयैः समय॑ पुष्पैः कल्याणेऽहनि सहितेन वंशवृद्धैः। श्रीवर्मत्यवनिभुजाथ तस्य नाम श्रीशब्दानुगतमकारि मङ्गलाय ।। ७५ ॥ विदधदखिलास्तेजस्तीवापराननतान्नतानवनिममितामोजोभिः स्वैर्वशं विवशां नयन् । निधिशतमहालाभैर्भूभृच्छतप्रहितैर्धनैरुदयनिलये जाते तस्मिन्ननन्द स नन्दने । ७६ ।। ।। इति श्रीवीरनन्दिकृतावुदयाङ्क चन्द्रप्रमचरिते महाकाव्ये तृतीयः सर्गः ॥ ३ ॥ मित्युक्तेषु नान्येषां जातं किमित्याश्चर्यम् । उत्प्रेक्षा ॥७४॥ सर्वज्ञमति । वंशवृद्धः कुलश्रेष्ठः । सहितेन संयुतेन । अवनिभुजा भूपालेन । कल्याणे मङ्गलरूपे । अहनि दिने। कनकमय कनकनिमितैः। पुष्पैः कुसुमैः । सर्वशं सर्ववेदिनम् । समय॑ पूजयित्वा । अथ पूजानन्तरम् । तस्य बालस्य । श्रीशब्दानुगतं श्रीरितिशब्देन अनु संयुक्तं श्रीवर्मेति श्रीवर्मकुमार इति । नाम नामधेयम् । मङ्गलाय मङ्गलार्थम् । अकारि अकरोत् । डुकृञ् करणे लुङ् ।।७५।। विदधदिति । उदयनिलये उदयस्य ऐश्वर्यस्य निलये स्थाने । तस्मिन् नन्दने कुमारे । जाते सति । स्वः स्वकीयैः । ओजोभिः तेजोभिः । तेजस्तीवान् तेजसा प्रतापेन तीव्रान् तीक्ष्णान् । अनतान् अप्रणतान् । अखिलान् सर्वान् । परान् शत्रून् । नतान् प्रणतान् । विदधत् कुर्वन् । विवशां वशगताम् । अमिताम् अमर्यादाम् । अवनि भूमिम् । वशम् अधोनम् । नयन्। सः नृपः। निधिशतमहालाभैः निधोनां निधानानां शतस्य अनेकस्य महद्भिः लाभैः । भूभृच्छतप्रहितः भूभृतां भूपतीनां शतेन अनेकेन प्रहितः प्रेषितः । धनैः । ननन्द तुतोष । टुनदु समृद्धौ लिट् ।।७६।। इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लभाख्ये तृतीयः सर्गः ॥३॥ हुआ हो और तो क्या शत्रुवर्गको भी हार्दिक प्रसन्नता हुई ॥ ७४ । इसके पश्चात् उस राजाने अपने वंशके विद्यावृद्ध और वयोवृद्ध श्रेष्ठ पुरुषोंके साथ शुभ दिनमें स्वर्ण पुष्पोंसे सर्वज्ञ भगवान्को पूजाको, और पूजाके बाद अपने पुत्रका माङ्गलिक 'श्री'से युक्त 'श्रीवर्मा' नाम रखा ।। ७५ ॥ बालक बड़ा भाग्यशाली था। उसके जन्मते ही श्रीषेणने अपने बलसे, बड़े-बड़े तेजस्वी उद्धत राजाओंको नम्रकर दिया, अपरिमित भूमिको-जिसपर शत्रुओंने अधिकार जमा लिया था-अपने वश में कर लिया और सैकड़ों राजाओंने उपहारमें धन भेजा, जिससे उसे सैकड़ों निधियोंका लाभ हुआ । इस तरह सभी ओरसे उसकी समृद्धि बढ़ने लगी। फलतः वह बहुत आनन्दित हुआ ॥ ७६ ॥ इस प्रकार महाकवि वीरनन्दी विरचित उदयाङ्क चन्द्रप्रभचरित महाकाव्यमें तीसरा सर्ग समाप्त हआ ॥ ३ ॥ १. आ प्रतावेव 'उत्प्रेक्षा' इति समुपलभ्यते । = वस्तुतस्तु पद्यमिदमित्थं व्याख्येयम्-गायत गानं कुर्वत् । प्रनृत्यत् नृत्यं कुर्वत् । रभसेन वेगेन । वलगत् गच्छत् । समस्तं पुरं निखिलं नगरम् । उन्मत्ततामिव प्रमत्ततामिव । जगाम ययो । सत्र तस्मिन् पुरे। खलु निश्चयेन । सः सकः । कोऽपि कश्चिदपि । न अभवत् न बभूव । यस्य हृदयं मनः । अन्तः अन्तस्तः । विकासि प्रसन्नम् । न जज्ञे नाजायत । द्विषोऽपि शत्रोरपि । हृदयं मनः । अन्तः अन्तस्तः । विकासि प्रसन्नम् । जज्ञे समजनि ॥७४॥ २. क ख ग घ म सह तेन । ३. श पूजित्वा । ४. = व्यधायि । ५. आ आनतान् प्रणतान् । ६. आ 'सर्वान्' इति पदं नास्ति । ७. = परकरगतामित्यर्थः । ८. आ अवनीम् । ९. भा अधीशम् । १०. 3D कुर्वन ११. = वित्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy