________________
चन्द्रप्रमचरितम्
[३, ७२ - स्वस्माद्बहिर्भवनतः प्रकटं निरेत्य नृत्यान्यतन्वत गणो गणिकाजनानाम् । लब्धोऽधुना वसुमति प्रभुरद्वितीयो नन्द त्वमित्यजनि जन्मवतां प्रघोषः ॥ ७२ ।। तुष्टया ददत्स्वसुतजन्म निवेदयद्भयो देयं न देयमिदमित्यथवा क्षितीश । नाजीगणत्प्रमदविह्वलचित्तवृत्तिर्विक्षिप्तवृत्ति हि मनो न विचारदक्षम् ॥ ७३ ॥ गायत्प्रनृत्यदभितो रभसेन वल्गदुन्मत्ततामिव जगाम पुरं समस्तम् । तत्राभवन्न खलु कोऽपि स यस्य नान्तर्जशे विकासि हृदयं सहसा द्विषोऽपि ।। ७४॥
करणे णिजन्तात् लङ् ॥७१।। स्वस्मादिति । गणिकाजननां गणिका एव जनास्तेषाम् । रूपकम् (?)। गणाः समूहाः [ गणः समूहः ] स्वस्मात् स्वकीयात् । भवनतः गृहात् । बहिः बाह्ये । निरेत्य निर्गत्य । नृत्यानि नर्तनानि । प्रकटं प्रसिद्धं यथा भवति तथा ( सर्वजनसमक्षम् ) अतन्वत अकुरुत । तनूञ् विस्तारे लङ् । अधुना इदानीम् । अद्वितीयः उपमातीतः । वसुमती प्रभुः वसुमत्याः भूमेः । [ वसुमति वसुन्धरे ] प्रभुः पतिः । लब्धः प्राप्तः । त्वं नन्द एधस्व । इति जन्मवतां जन्मास्त्येषामिति मतुः 'अस्त्यस्मिन्वेति मतुः' 'मान्तोपान्त-' इत्यादिना मस्य वः । प्रघोषः शब्दः । अजनि अजायत । जनैङ् प्रादुर्भावे लुङ् ॥७२॥ तुष्टयेति । स्वसुतजन्म स्वस्य आत्मनः सुतस्य पुत्रस्य जन्म उत्पत्तिम् । निवेदयद्भयः विज्ञापयद्भयः । 'तुष्टया संतोषेण । आददत् [ ददत् ] दानं कुर्वन् । प्रमदविह्वलचित्तवृत्तिः । प्रमदेन संतोषेण विह्वला 'विक्लवो विह्वलः स्यात्तु विवशोऽरिष्ट दुष्टधीः ।' इत्यमरः, विभ्रमा चित्तस्य मनसो वृत्ति वर्तनं यस्य सः । क्षितीशः भूपालः । इदम् एतत् । देयं दातुं योग्यम् । अथवा न देयं दातुं योग्यं न भवतीति । नाजीगणत् नागणयत् । विक्षिप्तवृत्ति विक्षिप्तेन संतोषेण युक्ता ( विक्षिप्तास्थिरा ) वृत्ति यस्य । मनः चित्तम् । विचारदक्षं परीक्षादक्षम् । न हि न भवति हि । अर्थान्तरन्यासः ।।७३॥ गायदिति । तत्र पुत्रोदये अभितः सर्वतः । रभसेन' संतोषेण । गायत् गोतं कुर्वत । पनत्यत् नटत् । वल्गत लघत (गच्छत) समस्तं सर्वम् । पुरं नमरम् । उन्मत्ततां भ्रान्तताम् । जगामेव इयायेव । गम्ल 'गतौ लिट् । अभवत् अभूत् । द्विषोऽपि शत्रोरपि । यस्य कस्य । अन्तः अर्वाक (?) हृदयं चित्तम् । सहसा शीघ्रम् । विकासि संतुष्टम् । न जज्ञे न जायते । सः पुरुषः । कः न कोऽपीत्यर्थः। यस्यान्तरङ्गं संतुष्टं न । स कश्चित् पुमान् नास्ति । शत्रणां मानसमपि संतुष्टं जात
॥ ७१ ॥ गणिकावर्ग अपने घरसे बाहर निकला और उसने खुले मैदान में नृत्य किया। सभी मनुष्योंके मुखसे एक ही बात निकल रही थी-'पृथ्वि !' तुमने अद्वितीय पति पा लिया है, अतः अब तुम खूब समृद्ध हो'। ७२ । राजाने पुत्र-जन्मको सूचना देने वालोंको आनन्द बिभोर होकर दान देते समय यह बिलकुल नहीं सोचा कि क्या दान देने योग्य है और क्या अयोग्य । उसका मन उस समय केवल देने में ही सन्तुष्टिका अनुभवकर रहा था, और सच तो यह है कि विक्षिप्त मनमें विचारकी चतुरता नहीं रहती ॥ ७३ ।। उस समय सारा नगर सभी ओरसे गाता नाचता
और बड़े वेगसे दौड़ता हुआ दृष्टिगोचर हो रहा था । अतः ऐसा जान पड़ता था मानो खुशीके मारे पागल हो गया हो। वहाँ ऐसा एक भी मनुष्य नहीं था जिसका हृदय भीतरसे प्रसन्न न
१. म निरित्य। २. श स जनः। ३. आ निरोत्य । ४. आ प्रतावेव 'भवति तथा' इति दृश्यते । ५. = असाधारणः । ६. आ 'सुमति । ७. = त्वयेति शेषः । ८. = जन्मास्ति येषां तेषाम् । ९. आ उत्पत्तिः। १०. = विक्लवा । ११. = 'रभसो वेगहर्षयोः' इत्यनेकार्थसंग्रहः। १२. श स वल्लत् । १३. आ भ्रान्तिताम् । १४. श स गम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org