________________
-३, ७१]
तृतीयः सर्गः प्राप्ते प्रसूतिसमयेऽथ तिथौ शुभायामुच्चस्थितेषु सकलेषु शुभग्रहेषु । सा भावितीर्थकरमुज्ज्वलदेहदीप्तिप्रध्वंसितान्धतमसं सुषुवे कुमारम् ॥ ६६ ॥ शुभ्रं नभोऽभवदभीषुमतीव तस्मिन्नभ्युद्गते परमधामनिधानभूते । लक्ष्मीः सरःकमलिनी सहसाभ्यनन्ददाशाङ्गना मलिनिमापगमाद्विरेजुः ॥ ७० ॥ निःशेषमम्वुधरधीरगभीरनादैस्तूयर्वभूव मुखरं नरनाथवेश्म | पौरो जनस्त्वरितमेव निजे निजेऽसौ गेहे महोत्सवमकारयत प्रहृष्टः ॥७१ ।।
बन्धश्च' संबन्धश्च तम् ( जननान्तरस्य बीजबन्धं संस्कारविशेषम् )। बचनेन विना वचसा विना। वदन्ति ब्रुवन्ति । जिनपूजनदौहृदानि जिनस्य जिनेश्वरस्य पूजने पूजायां दौहृदानि दोहलानि । एकान्ततः निश्चयादपि । बभूवुः भवन्ति स्म । भू सत्तायां लिट् ॥६८॥ प्राप्त इति । सा श्रीकान्ता । अथ अनन्तरम् । प्रसूतिसमये प्रसवकाले । प्राप्ते आयाते। शभायां प्रशस्तायां । तिथौ । सकलेष सर्वेष। शभग्रहेष प्र उन्नते स्थितेषु-उच्चग्रहेषु । भावि तीर्थकरं भाविनं भविष्यन्तं तीर्थकर तीर्थेश्वरम्। उज्ज्वलदेहदीप्तिप्रध्वंसितान्धतमसम् उज्ज्वलस्य दप्तस्य देहस्य दीप्त्या कान्त्या प्रध्वंसितं विनाशितमन्धतमसं यस्य [ येन ] तं कुमारं बालकम् । सुषुवे प्रसूते स्म । षूङ प्राणिप्रसवे लिट् ॥६९।। शुभ्रमिति । अभीषुमतीव अभीषुरस्यास्तीत्यभीषुमान् तस्मिन्. सूर्य इव । परमधामनिधान भूते परमस्योत्कृष्टस्य धाम्नस्तेजसो निधानभूते निधिभूते । तस्मिन् कुमारे । अभ्युदिते उदिते सति । नभः आकाशम् । शुभ्रं निर्मलम् । अभवत् अभूत् । लक्ष्मीः शोभारूपा । सरःकमलिनी सरसि सरोवरे स्थिता कमलिनी नलिनी । सहसा शीघ्रम् । अभ्धनन्दत् अविकसत् । टुनदु समृद्धौ लङ् । आशाङ्गनाः दिगङ्गनाः। मलिनिमापगमात् मलिनिम्नो मलोमसत्वस्यापगमात् विगमात् । रेजुः बभुः । राजु दीप्ती लिट् ।।७०।। निःशेषमिति | अम्ब्रुधरवीरगभीरनादैः अम्बुधरस्य मेघस्य ध्वनिरिव धीरः पटुर्गभीरो गम्भीरो नादो ध्वनि येषां तैः । तूर्य: वाद्यैः। निःशेषं समस्तम् । नरनाथवेश्म नराणां नाथो नरनाथो राजा तस्य वेश्म गृहम् । मुखरं वाचालम् । बभूव भवति स्म । भू सत्तायां लिट् । प्रहृष्टः संतुष्टः । असौ पौरजनः पुरे भवः पौरः स एव जनः तथोक्तः । रूपकम् (?)। त्वरितमेव शीघ्रमेव । निजे निजे स्नकोये स्वकीये । 'वीप्सायाम्' इति द्विः । गेहे मन्दिरे । महोत्सवं महासंभ्रमम् । अकारयत व्यरचयत् । डुकृञ्
उसके कोमल मन में केवल जिनेन्द्रदेवकी पूजा करनेको आकांक्षा ( दोहला ) रहने लगो, जो गर्भस्थ बालकके जन्मान्तरके शुभ संस्कारोंके सम्बन्धको वचनोंके बिना भी कह रही थी ॥३८॥ इसके पश्चात् प्रसूति-प्रसवका समय आनेपर रानी श्रीकान्ताने पुत्रको जन्म दिया। जन्मके समयकी तिथि शुभ थी और सभी शुभग्रह उच्च स्थानपर थे । पुत्र भावी तीर्थङ्कर था - आगे अष्टम तीर्थङ्कर चन्द्रप्रभ होगा, और वह बड़ा तेजस्वी था, उसके देहकी उज्ज्वल दीप्तिसे प्रसूतिगृहका अन्धकार नष्ट हो गया था । ६९ ।। उसके जन्म लेनेपर आकाश निर्मल हो गया, शोभास्वरूपा सरोवरकी कमलिनी सहसा खिल उठी और धुंधलापन मिट जानेसे दिशारूपी स्त्रियों की शोभा निराली हो गई। वह सूर्यके समान अत्यन्त तेजस्वी था। सूर्योदय होनेपर जिस तरह प्रकृतिको अपूर्व सुषमा हो जातो है, उसी तरह उस बालकके जन्म लेने पर हुई ॥ ७० ॥ मेघोंके समान बाजोंको गम्भीर ध्वनिसे सारा राजमहल गूंज उठा। इस अवसरपर पुरवासियोंको बड़ा हर्ष हुआ। फलतः उन्होंने भी अपने-अपने घरोंमें महान् उत्सव मनाया
१. आ प्रतावेव 'बन्धश्च' इति पदं वर्तते । २. = अभिलाषविशेषाः । ३. = दिवसे । ४. = स्थाने । ५. = अभीषवः सन्ति यस्य सोऽभोषमान् ।६. = जाते । ७. अलिनोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org