________________
- ३, ६५ ]
तृतीयः सर्गः
प्रह्लादनं विदधती शशिनः कलेव संपादयन्त्यभिमतं कुलदेवतेव । गर्भ कियद्भिरथ सा दिवसैर्बभार मुक्ताफलं परममम्बुधिशुक्तिकेव ||६२|| किंचिद्वपुः शिथिलतामगमत्तदानीमापाण्डुरं वदननीररुहं बभूव । गर्भस्थ बालगुणभरिभरादिवागान्मन्दापि मन्दतरतां गतिरायताक्ष्याः || ६३ || नीलाननं प्रसृतपाण्डिम धारयन्ती वक्षोरुहद्वयमधः कृतचन्द्रकान्ति । गन्धान्धपट्चरणचुम्बित पद्मयुग्मामम्भोजिनी मनुचकार चकोरचक्षुः ॥ ६४ ॥ सर्पत्कुचद्वयविपाण्डुरतागुणेन द्वारो हृतद्युतिरिवास्य मुखे चकार । संघर्षणेन मलयोजनिकां कुतोऽपि निर्मत्सरो हि विरलो गुणिनां गुणेषु ||६५||
५
।
प्राप्तेर्निमित्तं कारणम् । स्नानम् अभिषेकम् । प्रविदधे प्रचक्रे । डुधान् धारणे च लिट् ॥ ६१ ॥ प्रह्लादनमिति । शशिनः चन्द्रस्य । कलेव षोडशभाग इव । प्रह्लादनं संतोषम् । विदधती । कुलदेवतेव अन्वयागतदेवतेव । अभिमतम् अभीष्टम् | संपादयन्ती संचिन्वतो । सा श्रीकान्ता । अथ नन्दीश्वरानन्तरम् । कियद्भिः कतिभिः । दिवसः दिनैः । अम्बुधिशुक्तिका अम्बुधो समुद्रे विद्यमाना शुक्तिका । परमम् उत्कृष्टम् । मुक्ताफलं मुक्तामणिमिव । गर्भ शिशुम् । बभार दधौ भृञ् भरणे लिट् । उत्प्रेक्षा ( उपमा ) ||६२|| किञ्चिदिति । तदानीं गर्भसमये । आयताक्ष्याः आयते दीर्घे अक्षिणी नेत्रे यस्याः तस्याः श्रीकान्तायाः । वपुः गात्रम् । किञ्चित् ईषत् । शिथिलतां कृशत्वम् । अगमत् अगच्छत् । गम्लृ गतौ लुङ् । 'सतिशास्ति- ' इत्यादिना अङ् । वदननीररुहं वदनं मुखमेत्र नोररुहं कमलम् । आपाण्डुरं किविच्छ्वेतम् । बभूव भवति स्म । भू सत्तायां लिट् । गर्भस्यबालगुण भूरिभरादित्र गर्भस्वस्थ गर्भे स्थितस्य बालस्य शिशोर्गुणानां भूरेबहुलारादिव भारादिव । मन्दा [वि] अलसा [प] गतिर्गमनम् । मन्दतरताम् । अत्यन्तमन्दत्वम् । अगात् अयासीत् । उपमा ( उत्प्रेक्षा ) ।। ६३ । नीलेति । नीलाननं नीलं कृष्णम् आननं कुचाग्रं यस्य तत् । प्रसृतपाण्डिम विस्तृतपाण्डिम, शुभ्रत्वयुक्तम् । अधःकृतचन्द्रकान्तीव [न्ति ] अधः कृता तिरस्कृता चन्दस्य कान्तिः शोभा यस्य ( येन ) तदिव ( तत् ) । वक्षोरुहद्वयं वक्षोरुहयोर्द्वयं युगलम् । धारयन्ती दधती । चकोरचक्षुः चकोर इव चक्षुषो यस्याः सा श्रीकान्ता । गन्धान्धषट्चरणचुम्बितपद्मयुग्मां गन्धेन परिमलेनान्धेरासक्तैः षट्चरणैश्चञ्चरी कैश्चुम्बितं पद्मयोः कमलयोर्युग्मं युगलं यस्यास्ताम् । अम्भोजिनीं नलिनीम् । अनुचकारँ स्वीकृता । डुकृञ् करणे लिट् । उपमा || ६४ || सर्पदित्यादि । सर्पत्कुचद्वयविपाण्डुरतागुणेन कुचयोर्द्वयं निमित्तसे उसने जिनबिम्ब - जिनमूर्तिका अभिषेक किया || ६१ || पर्वके पश्चात् रानी चन्द्रमाकी कलाकी भाँति सबको आह्लाद देने लगी और कुल देवताकी तरह सबके मनोरथको पूरा करने लगी । फिर कुछ दिनोंके बाद उसने गर्भ धारण किया । जैसे समुद्रकी सीप उत्तम मोतीको धारण करती है ॥ ६२|| गर्भके समय उस रानीका शरीर कुछ शिथिल हो गया और उसका मुखकमल भी सफेद हो चला । यों उसकी चाल पहलेसे ही धीमी थी किन्तु इन दिनों में और भी धीमी हो गयी । मानो गर्भस्थ बालकके गुणोंका भारी बोझ हो गया हो ॥ ६३॥ उस चकोराक्षी रानीके स्तनोंका अगला भाग बिलकुल काला और शेष सभी भाग सभी ओरसे सफेद हो गया । ऐसी स्थिति में उसने चन्द्रमाकी शोभाको मात कर दिया। इन दिनोंमें उसने उस कमलिनीका अनुसरण किया, जिसमें दो सफेद कमल खिले हों उनकी सुगन्धिमें आसन होकर भौरोंका मण्डल बैठा हुआ हो ||६४ ॥
और दोनोंके बीचों-बीच रानोके दोनों स्तनोंकी
१. क ख ग घ म हतद्युति । २. अ क ख ग घ कृशोऽपि । ३. = कुर्वन्ती । समाप्त्यनन्तरम् । ५. = कतिपयैः । ६. = चूचुकाग्रम् । ७ = अनुसार ।
१२
Jain Education International
८९
For Private & Personal Use Only
४. = नन्दीश्वर पर्व
www.jainelibrary.org