________________
८८
चन्द्रप्रभचरितम्
पुंसां पुरोपचितपुण्यनिबद्धमिटमित्याकलय्य निबबन्ध मतिं स धर्मे । तत्रोत्सुकं भवति भाग्यवतां हि चेतो यत्संपदां नियतमङ्गमनागतानाम् ॥५६॥ दानेन संयमिजनस्य जिनार्चनेन तस्य प्रभोरविरतं नयतो दिनानि । प्रक्षोभिताखिलसुरासुरनागलोकं नान्दीश्वरं परमपर्व समाससाद ॥ ६० ॥ तस्मिन्विधाय महतीमुपवासपूर्वी पूजां जगद्विजयिनो जिनपुंगवस्य । स्नानं समीहितनिमित्तमतः स्तदीयबिम्बस्य स प्रविदधे सहितोऽग्रदेव्या ॥ ६१ ॥
[ ३, ५९ -
अनन्य संतोष्य | ईप्सितम् अभीष्टम् । धाम स्थानम् । अगात् अगमत् । अणुव्रतविभूषणभूषिताङ्गः अणूनि च तानि व्रतानि च तथोक्तानि श्रावकव्रतानीत्यर्थः, तान्येव विभूषणानि तैर्भूषितम् अङ्गं यस्य सः । रूपकम् | नृपतिश्च श्रीषेणभूपश्च । राजधानीं निजपुरम् । अगात् । दीपकम् ॥ ५८॥ पुंसामिति । पुंसां पुरुषाणाम् । इष्टम् अभीष्टम् । पुरोपचितपुण्यनिबद्धं पुरोपचितेन प्राक्संपादितेन पुण्येन निबद्धं कृतम् । इति एवं प्रकारेण | आकलय्य विचार्य । सः भूपतिः । धर्मे सर्वज्ञप्रणीतधर्मे । मति बुद्धिम् । निबबन्ध चकार । बन्ध बन्धने लिट् । तथाहि यत् अनागतानां भविष्यतां संपदाम् नियतं निश्चयम् । अङ्गं कारणम् । तत्र धर्मे । भाग्यवतां पुण्यवताम् । चेतः चित्तम् । उत्सुकं संभ्रमयुक्तम् भवति हि । अर्थान्तरन्यासः ||५९|| दानेनेति । संयम संयम्येव जनस्तस्य । रूपकम् (?) दानेन आहारादिदानेन जिनार्चनेन जिनेन्द्रपूजनेन । अविरतम् अनवरतम् । दिनानि वासरान् । नयतः यापयतः । तस्य प्रभोः श्रोषेण भूपतेः । प्रक्षोभिताखिलसुरासुरनागलोकं सुराश्चासुराश्च नागाश्च तेषां लोकस्तथोक्तः, प्रक्षोभितः संभ्रमितोऽखिलः सुरासुरनागलोको येन तत् । नान्दीश्वरं नन्दीश्वरस्येदं नान्दीश्वरम् । परमपर्व परमम् उत्कृष्टं पर्व तिथिः समाससाद सम्यगाजगाम । षद्लु विशरणगत्यवसादनेषु लिट् । सहामितः ( ? ) । ६० ।। तस्मिन्निति । अग्रदेव्या श्रीकान्तया । सहितः संयुक्तः । सः श्रोषेणः । तस्मिन् नन्दीश्वर पर्वणि । जगद्विजयिनः जगद्विजयशीलस्य । जिनपुङ्गवस्य जिनश्चासी पुङ्गवश्च (?) जिनानामप्रमत्तादिक्षीणकषायावसानैकदेश जिनानां पुङ्गवस्तथोक्तः, तस्य जिनेन्द्रस्य । उपवासपूर्वाम् उपवासः पूर्वं मुख्यं यस्यां " ताम् । महतीं पृथुलाम् पूजाम् अर्चनाम् । विधाय कृत्वा । अतः पश्चात् । तदीयबिम्बस्य तदीयस्य जिनपुङ्गवसंबन्धस्य बिम्बस्य । समीहितनिमित्तं समीहितस्याभीष्टफल
९
१२
व्रतों के परिपालन करनेका संकल्प किया, और वह सोचने लगा कि वास्तविक आभूषण गुण ही हैं । यह सोचते हुए वह भी अपनी राजधानी में चला गया || ५८ || मानवका मनोरथ पूर्वोपार्जित पुण्य से ही पूरा होता है, यह सोचकर राजाने अपनी बुद्धिको धर्ममें लगा दिया । सच है भाग्यवानोंका मन उस कार्य में उत्सुक होता है, जो भविष्य में होनेवाली कल्याण - सम्पत्तिका निश्चित कारण हो ॥ ५६ ॥ राजाके दिन जिनेन्द्रदेवकी पूजा और साधु-सन्तोंको दान देने में बीतने लगे । वह इन धार्मिक कार्योंको अविराम गतिसे कर रहा था । इतने में सर्वोत्कृष्ट आष्टाह्निक पर्व आ गया । फिर क्या था ऊर्ध्व मध्य और अधोलोक में उत्सवकी तैयारी होने लगी और क्या सुर, क्या असुर क्या धरणेंन्द्र सभीके मन में आनन्दका सागर लहराने लगा || ६०॥ उस पर्व के अवसरपर राजाने अपनी पट्टरानी के साथ आठ उपवास किये और आठ दिन जगद्विजयी जिनेन्द्रदेवकी बड़ी भारी ( महामह ) पूजा को और इसके पश्चात् उसने इष्टसिद्धिके
Jain Education International
१. अ क ख ग घ मन्मुखम् । २. अवासपूर्वं । ३ अ क ख ग घ म मधस्त । ४. शस धर्मज्ञ । ५. आ प्रती 'संपदाम्' इति नोपलभ्यते । ६. आ ' पुण्यवताम्' इति नास्ति । ७ = उत्कण्ठितम् । ८. = संयमिनां संयमवतां जनो वर्गः संघो वा तस्य । ९. आ वासराः । १०. - आष्टाह्निकमहोत्सवः । ११. श स यस्याः । १२. = विपुलाम् ।
For Private & Personal Use Only
www.jainelibrary.org