________________
- ३, ५८]
तृतीयः सर्गः सागारधर्मनिरता प्रतिपद्य कालं सोधर्मकल्पमुपगम्य बभूव देवी । च्युत्वा ततः पुनर दिह पुण्यशेषाद्दर्योधनस्य दुहिता भवतश्च पत्नी ॥५५॥ तस्माद्भवान्तरभवादशुभान्निदानादस्या वयो नवमगादनपत्यमेव । कैश्चिद्दिनैः प्रशममीयुषि तस्य दोषे नि:संशयं तव भविष्यति पुत्रजन्म ॥५६॥ तस्मिन्मृगाङ्क इव सर्वमनोभिरामे सूनो निधाय पृथुधाम्नि धुरं धरित्र्याः । संपत्स्यसे त्वमधिगम्य जिनेन्द्रदीक्षां सिद्धालयातिथिरशेषितकर्मबन्धः ॥५७॥ संक्षेपतो गिरमिमामभिधाय सम्यगानन्ध भूमिपतिमिष्टनिवेदनेन'।
धामेप्सितं मुनिरगान्नृपतिश्च राजधानीमणुव्रतविभूषणभूषिताङ्गः ॥५८।। अकुरुत । डुकृञ् करणे लुङ् ॥५४॥ सेति । सा सुनन्दा । आ[सा]गारधर्मनिरता। आगारधर्मे श्रावकाचारे निरता तत्परा । कालं मरणम् । प्रतिपद्य प्राप्य। सौधर्मकल्पं सौधर्मनामस्वर्गम । उपगम्य एत्य । देवी देवस्त्री। बभूव भवति स्म । भू सत्तायां लिटु । ततः सौधर्मकलात् । पुनः पश्चात् । च्युत्वा आगत्य । इह अस्मिन् पुरे । पुण्यशेषात् पुण्यस्य सुकृतस्यावशेषात् । दुर्योधनस्य दुर्योधनराजस्य । दुहिता पुत्री। भूत्वा । भवतश्च तव । पत्नी भार्या । अभूत् अभवत् ।।५५।। तस्मादिति । भवान्तरभवात् भवान्तरे जन्मान्तरे भवात् जनितात् । अशुभात् अप्रशस्तात् । तस्मात् निदानात्, प्रागुक्तनिदानशल्यात् । अस्याः देव्याः । नवं प्रथमम् । वयः यौवनकालः । अनपत्यमेव न विद्यतेऽपत्यं संतानो यस्मिन् तत्, संतानरहितं सत् आगात् अगच्छत् । इण गतौ लुङिः 'गैत्योः' इति गादेशः । तस्य निदानशल्यस्य । दोषे कर्मणि । कैश्चिद् दिनैः दिवसः। प्रशमं शान्तिम् । ईयुषि इयाय इति इयान् तस्मिन् । 'लिट: क्वसुकानौ' इति क्वसुः, 'क्वस उस्' इति उस् । तव भवतः । पुत्रजन्म पुत्रस्य नन्दनस्य जन्म जननम् । निःसंशयं सन्देह रहितम् । भविष्यति । भू सत्तायां लट् ॥५६॥ तस्मिन्निति । मृगाङ्क इव चन्द्र इव । सर्वमनोऽभिरामे सर्वेषां जनानां मनसश्चित्तस्याभिरामे विराजमाने पृथुवाम्नि पृथु महद् धाम तेजो यस्य तस्मिन्, महातेजस्विनीत्यर्थः । तस्मिन् सूनी तत्पुत्रे । धारित्र्याः भमेः। धरं भारम। निधाय संस्थाप्य । त्वं भवान। जिनेन्द्रदीक्षां जिनेन्द्रस्य दीक्षाम. दिगम्बररूपमित्यर्थः। अधिगम्य गहीत्वा । अशेषितकर्मबन्धः अशेषितो निर्मलितः कर्मणां बन्धो येन सः । सिद्धालयातिथि: सिद्धानां मुक्तानामालयो मोक्षस्तस्यातिथि रुत्सवहेतुः । संयत्स्यते संभविष्यसि । पदि गतौ लृट् ।।५७।। संक्षेपत इति । मुनिः मुनिपतिः । संक्षेपतः संवृततः । इमाम् एताम् । गिरं वाणीम् । सम्यक् समीचीनम् । अभिधाय उक्त्वा । इष्टनिवेदनेन इष्टस्य समोहितस्य निवेदनेन निरूपणेन । भूमिपति श्रीषेणमहाराजम् । जन्मान्तरमें भी मैं युवावस्था में इस जैसी न होऊ । नादान जो ठहरी ॥५४|| निदान बाँध लेनेके बाद उसने जीवन भर गृहस्थ धर्मका पालन किया और अन्त में जीवन लीला समाप्त होनेपर वह सौद्धर्म स्वर्गमें देवी हुई । वहांसे च्युत होकर शेष पुण्यके फलसे दुर्योधनकी पुत्री और आपकी पत्नी हुई ॥५५॥ पिछले जन्मके उसी अशुभ निदानके निमित्तसे इसका नवयौवन बिना सन्तानके ही बीत गया है । अब थोड़े ही दिनों में उस निदान-दोषके शान्त होते ही तुम्हारे यहाँ पुत्रका जन्म होगा। इसमें कोई संशय नहीं ।।५६।। वह पुत्र चन्द्रमाके समान सबके चित्तको आह्लाद देनेवाला और ( सूर्य के समान ) बहुत तेजस्वी होगा। उसीको अपना राज्य भार सौंपकर तुम दिगम्बर-दीक्षा ले लोगे । इसके बाद अष्ट कर्मो को नष्ट कर तुम सिद्धालयके अतिथिमुक्त हो जाओगे ||५७।। संक्षेपमें इतना कहकर और पुत्रोत्पत्तिकी सूचना देकर मुनिराजके दर्शनों और उनके वचनोंसे राजा बहुत प्रभावित हुआ । फलतः उसने अपने मनमें पाँच अणु
१. अ आ इ म निबन्धनेन । २. आ चिकितात् । ३. आ एयिवान्। ४. = रजके। ५. = समासतः। ६. आ एषाम् । ७. टीकाकारधृतः पाठः, प्रतिषु 'इष्टनिबन्धनेन' इत्येव पाठः समुपलभ्यते। ... ..। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org