SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [३, ५२सा च प्रणश्यति न तावदसौ न यावपुत्त्रो भवत्यरिकुलोन्मथनकवीरः। पुत्रोदयेऽपि भवतोऽस्ति विबन्धहेतुरन्यो भवान्तरगतं शृणु तं ब्रवीमि ॥५२॥ एषा तवाग्रमहिषी पुटभेदनेऽभूदत्रैव पूर्वमभिनन्दितसर्वबन्धोः । देवानन्दस्य वणिजस्तनया सुनन्दा श्रीकुक्षिजा गुणगणाभरणाभिरामा॥५३॥ सान्यां विलोक्य नवयौवन एव नारी गर्भेण पीडिततनुं गलिताङ्गशोभाम् । जन्मान्तरेऽपि वयसि प्रथमेऽहमीङ्मा भूवमित्यकृत मन्दमतिर्निदानम् ।।५४।। यन्मानम् अस्य यावत् । 'यत्तदः' इति घतु-प्रत्ययः, घस्य वः । तव ते । चेतसि चित्ते । सुनुवाञ्छा सुनोः पुत्रस्य वाञ्छा अभिलाषः । स्फुरति प्रवर्तते । तावत् पर्यन्तम् । त्वं भवान् । विरतिं वैराग्यम् । न यासि न गच्छसि । या प्रारणे लट् ॥५१॥ सा चेति । यावत् यावत्पर्यन्तम् । अरिकुलोन्मथनकवीरः अरीणां शत्रूणां कुलस्य समूहस्योन्मथने निराकरणे एकोऽसहायो वीरः शूरः । असौ पुत्रः तनयः । न भवति न जायते । तावत् तावत्पर्यन्तम् । सा च चिन्ता। न प्रणश्यति न विनश्यति । पुत्रोदये च पुत्रस्य नन्दनस्योदये उत्पत्ती च । भवतः तव । भवान्तरगतः जन्मान्तरगतः । अन्यः अपरः । निबन्धहेतुः निबन्धस्य निरोधस्य हेतुः । अस्ति वर्तते । तं हेतुम् । ब्रवोमि निगदामि । शृणु आकर्णय श्रु श्रवणे लोट् ।। ५२।। एपेति । तव ते। अग्रमहिषी श्रेष्ठमहिषी । एषा इयम् । पूर्व प्राक् । अत्रैव अस्मिन्नेव । पुटभेदने पत्तने । 'पत्तनं पुटभेदनम्' इत्यमरः । श्रीकुक्षिजा श्रियाः श्रीनामधेयायाः कुक्षि जा गर्भजाता। गुणगणाभरणाभिरामा गुणानां गणः समूहः स एवाभरणमलंकारस्तेनाभिरामा मनोहरा । अभिनन्दितसर्वबन्धोः अभिनन्दिताः संतोषिताः सर्वे बन्धवो यस्यास्तस्याः । देवाङ्गदस्य देवाङ्गदनामधेयस्य। वणिजः वैश्यस्य । सुनन्दा सुनन्देति । तनया कुमारी। अभूत् अभवत् । भू सत्तायां लुङ। रूपकम् ॥५३॥ सेति । मन्दमति: मन्दा मतिर्यस्याः सा । सा सुनन्दा । नवयौवन एव नवे नतने यौबन एव तारुण्य एव । गर्भेण पत्रयतगर्भण। पीडिततनं पीडिता बाधिता तनर्यस्याः ताम् । गलिताङ्गशोभा गलिता शिथिलिताऽङ्गस्य शोभा यस्यास्ताम् । अन्याम् एकाम् । नारी वनिताम् । विलोक्य दृष्ट्वा । जन्मान्तरेऽपि उत्तरभवेऽपि । प्रथमे वयसि यौवनकाले। अहम् । ईदृक् इयमिव दृश्यत तत्प्रकारावयवयुक्ता। मा भूवं मा जनिषम् न भविष्यामि, इति निदानं निदानशल्यम् । अकृत गये और वे उससे यों बोले-राजन् ! जब तक तुम्हारे मनमें पुत्रकी अभिलाषा बनी रहेगी, तब तक तुम्हें वैराग्य नहीं हो सकता ॥५१॥ राजन् ! तुम्हारे चित्तको चिन्ता तबतक नहीं मिट सकतो जब तक कि शत्रु वर्गके छक्के छुड़ानेवाले अद्वितीय वीर पुत्रका जन्म तुम्हारे यहाँ नहीं होता। तुम्हारे यहाँ पुत्रकी उत्पत्तिमें भो रुकावट डालनेवाला कारण कुछ और ही है, जिसका सम्बन्ध पिछले जन्मसे है । मैं उसे बताता हूँ, तुम सुनो ॥५२॥ तुम्हारी यह पट्टरानी (श्रीकान्ता) पिछले जन्ममें इसो नगर में उत्पन्न हुई थी। इसके पिताका नाम देवांगद था। वे जातिके वणिक् थे। उनके सभी बन्धु उनसे प्रसन्न रहते थे। उनकी पत्नीका नाम श्री था। उसीके गर्भसे सुनन्दा नामको गुणवती सुन्दर कन्या उत्पन्न हुई थी, जो इस समय आपकी पट्टरानी है ।।५३॥ उस सुनन्दाने यौवनके प्रारम्भमें ही एक स्त्रीको देखा, जिसका शरीर गर्भके कारण पीड़ित और श्रोहोन था। उसे देखकर उस ( सुनन्दा ) ने यह निदान बाँध लिया कि . १. श स 'यावत्' इति नास्ति। २. श स वक्षेति । ३. संदिताः । ४. श स यस्य तस्य । = येन तस्य । ५. = गर्भधारणेन । ६. अङ्गलाभाम् । ७. श स मा जनि । = न स्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy