________________
- ३, ४५]
तृतीयः सर्गः: युक्तोऽन्यदा क्षितिपतिः स निजैः सुहृद्भिरालिङ्गितं समधिगम्य 'वसन्तलक्ष्म्या । क्रीडावनं समवलोकितुमभ्ययासीदुद्दामकौतुकरसप्रसरप्रणुन्नः ॥४२॥ नृत्यच्छिखण्डिनि मृदुक्कणदन्यपुष्टे सुस्वादुसुन्दरफले सुमनःसुगन्धौ । तस्मिन्वने शिशिरमन्दमरुत्प्रचारे सर्वन्द्रियोत्सवकरे विजहार भूपः॥४३॥ अत्रान्तरे पृथुतपाश्रियमुन्नतश्रीरुन्मीलितावधिदृशं सुविशुद्धदृष्टिः । तारापथादवतरन्तमनन्तसंशमैक्षिष्ट चारणमुनि सहसा नरेन्द्रः ॥४४॥ रोमाञ्चचर्चिततन रभसेन गत्वा भूपस्तमालतरुमूलगतस्य तस्य । मर्ना ननाम गुरुभक्तिभरानतेन संसारसिन्धुतरणौ चरणौ महर्षेः ।।४५॥ जनपतिः । प्रियायाः कान्तायाः । शोकापनोदं शोकस्य दुःखस्य अपनोदं निराकरणम् । अकरोत् अदधात् ( व्यधात् ) । डुकृञ् करणे लङ् ॥४१॥ युक इति । अन्यदा अन्यस्मिन् कालेऽन्यदा, एकदा । निजैः स्वकीयः । सुहृद्भिः बन्धुभिः। युक्तः सहितः। सः क्षितिपतिः श्रीषेणभूपतिः । वसन्त लक्ष्म्या वसन्तस्य लक्ष्म्या श्रिया। आलिङ्गितं परिष्वक्तम् । क्रोडावनं क्रीडोद्यानम् । समधिगम्य ज्ञात्वा । उद्दामकौतुकरसप्रसरप्रणुन्नः उद्दाम्नो महत: कौतुकस्याद्भुतस्य रसस्य प्रसरेण प्रबाहेण प्रणुन्नः प्रेरितः सन् । समवलोकितुं समीक्षितुम् अभ्ययासीत् अभ्यगच्छत् । या प्रापणे लुङ् ।।४२॥ नृत्यदिति । भूपः श्रीषेणः । नृत्यच्छिखण्डिनि नृत्यन्तः शिखण्डिनो मयूरा यस्मिन्, तस्मिन् । मृदुक्वणदन्यपुष्टे मृदु मधुरं क्वणन्तो ध्वनन्तोऽन्यपुष्टाः कोकिलाः यस्मिन् ( तत् तस्मिन् )। सुस्वादुसुन्दरफले सु शोभनं स्वादुः (शोभन: स्वादः) येषां तानि सुस्वादूनि सुन्दराणि मनोहराणि
वानि [फलानि] यस्मिन, तस्मिन् । सुमनःसुगन्धी सुमनसां पुष्पाणां सुगन्धौ ( सुगन्धिर्यस्मिन्, तस्मिन् ) मनोहरपरिमलयुक्ते । शिशिरमन्दमरुत्प्रचारे शिशिरस्य शीतलस्य मन्दस्य मृदोमरुतः पवमानस्य प्रचारः संचारो यस्मिन्, तस्मिन् । सर्वेन्द्रियोत्सवकरे सर्वेषामिन्द्रियाणामुत्सवकरे संतोषकरे। वने विजहार । हृञ् हरणे लिट् । जातिः ।।४३।। अत्रेति । अत्रान्तरे अस्मिन् प्रस्तावे। उन्नतश्रीः उन्नता श्रीर्यस्य सः । विशुद्धदृष्टि: विशुद्धा पञ्चविंशतिमलरहिता दृष्टिर्यस्य सः । स नरेन्द्रः श्रोषणः । पृथुतपःश्रियं पृथुः (पृथ्वी) महती तपसः श्रीर्यस्य तम् । उन्मोलितावधिदृशं उन्मीलित उनिमेषणो* अवधिरेव दृग् लोचनं यस्य तम् । तारापथात् आकाशात् । अवतरन्तम् आगच्छन्तम् । अनन्तसंज्ञम् अनन्त इति संज्ञा नाम यस्य तम् । चारणमुनिम् आकाशचारणमुनीश्वरम् । ऐक्षिष्ट ददर्श । ईक्षि दर्शने ॥४४॥ रोमाञ्चेति । रोमाञ्चचिततनुः रोमाञ्चेन रोमहर्षेण चचिता तनुः शरीरं यस्य सः। भूपः श्रीषेणः । रभसेन शीघ्रम् । गत्वा प्राप्य । और सभी ओरसे उसके पास टैक्स आता था-सभी राजाओंने उसकी अधीनता स्वीकार कर ली थी ॥४१॥वसन्तको सुषमाके चारों ओर फैल जानेसे क्रोडावन दर्शनीय हो गया है, यह जानकर श्रीषेगको बड़ा कौतूहल हुआ, जिससे प्रेरणा पाकर वह एक दिन अपने मित्रोंके साथ उसे देखने के लिए गया ॥४॥ उस क्रोडावनमें मयूर नाच रहे थे; मधुर स्वरमें कोकिल गा रहे थे; अत्यन्त स्वादिष्ट अच्छे-अच्छे फल लगे हुए थे; फूलोंकी भीनी-भीनी सुगन्धि आ रही थी और मन्द-सुगन्ध वायु बह रही थी। इस तरह वह पांचों इन्द्रियोंको आनन्द दे रहा था । लगता था वहाँ कोई उत्सव मनाया जा रहा है। राजा वहीं पर घूमने लगा ॥४३॥ राजाके पास अटूट सम्पत्ति थी और वह निर्मल सम्यग्दृष्टि था। उसने इसी बीच में वहाँ आकाशसे उतरते हुए एक चारण ऋद्धिके धारो मुनिको अचानक देखा । वे मुनि बड़े तपस्वी थे और थे अवधिज्ञानी। उनका नाम अनन्त था ॥४४॥ उनका दर्शन करते ही राजाका शरीर पुलकित हो गया।
१. आ इ "रम्यवसन्त । २. श स लोकपतेः जनपतेः । ३. एष टीकाकारधृतः पाठः, प्रतिषु 'सुविशुद्ध दृष्टिः' इत्येवास्ति । ४. आ मेषतः । उन्मेषितः । ५. आपदात् । ६. = चारिणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org